34084: ब्रुवः पञ्चानामादित आहो ब्रुवः¶
Padacheda: ब्रुवः | S | 5 | 1 |
पञ्चानाम् | S | 6 | 3 |
आदितः | S | 0 | 0 |
आहः | S | 1 | 1 |
ब्रुवः | S | 6 | 1 |
Sutrartha¶
ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य आदितानाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति ।
ब्रूञ् (व्यक्तायां वाचि) इति अदादिगणस्य धातुः । अस्मात् धातोः लट्लकारस्य परस्मैपदस्य ‘तिप्-तस्-झि-सिप्-थस्’ एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन (क्रमेण) णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः अनेन सूत्रेण विधीयन्ते । तथा च, एते आदेशाः यदा भवन्ति तदा ब्रू-धातोः ‘आह्’ इत्यपि परिवर्तनम् भवति । उदाहरणानि एतानि - 1. प्रथमपुरुषैकवचनम् - ब्रू + लट् [वर्तमाने लट् (3.2.123) इति लट्] → ब्रू + तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-एकवचनस्य तिप्-प्रत्ययः] → ब्रू + शप् + तिप् [कर्तरि शप् (3.1.68) इति शप्] → ब्रू + तिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + णल् [ब्रुवः पञ्चानामादित आहो ब्रुवः (3.4.84) इति ब्रू-धातोः परस्य प्रथमपुरुषैकवचनस्य तिप्-इत्यस्य णल्-आदेशः, तथा ‘ब्रू’ इत्यस्य ‘आह्’ आदेशः] → आह् अ [इत्संज्ञालोपः] → आह । 2. प्रथमपुरुषद्विवचनम् - ब्रू + लट् [वर्तमाने लट् (3.2.123) इति लट्] → ब्रू + तस् [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-द्विवचनस्य तस् -प्रत्ययः] → ब्रू + शप् + तस् [कर्तरि शप् (3.1.68) इति शप्] → ब्रू + तस् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + अतुस् [ब्रुवः पञ्चानामादित आहो ब्रुवः (3.4.84) इति ब्रू-धातोः परस्य प्रथमपुरुषद्विवचनस्य तस्-इत्यस्य अतुस्-आदेशः, तथा ‘ब्रू’ इत्यस्य ‘आह्’ आदेशः] → आहतुः [विसर्गनिर्माणम्] 3. प्रथमपुरुषबहुवचनम् ब्रू + लट् [वर्तमाने लट् (3.2.123) इति लट्] → ब्रू + झि [तिप्तस्.. (3.4.78) इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → ब्रू + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → ब्रू + झि [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + उस् [ब्रुवः पञ्चानामादित आहो ब्रुवः (3.4.84) इति ब्रू-धातोः परस्य प्रथमपुरुषबहुवचनस्य झि-इत्यस्य उस्-आदेशः, तथा ‘ब्रू’ इत्यस्य ‘आह्’ आदेशः] → आहुः [विसर्गनिर्माणम्] 4. मध्यमपुरुषैकवचनम् - ब्रू + लट् [वर्तमाने लट् (3.2.123) इति लट्] → ब्रू + सिप् [तिप्तस्.. (3.4.78) इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः] → ब्रू + शप् + सिप् [कर्तरि शप् (3.1.68) इति शप्] → ब्रू + सिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + थल् [ब्रुवः पञ्चानामादित आहो ब्रुवः (3.4.84) इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा ‘ब्रू’ इत्यस्य ‘आह्’ आदेशः → आथ् थ [आहस्थः (8.2.35) इति हकारस्य थकारः] → आत्थ [खरि च (8.4.55) इति चर्त्वम् ] 5. मध्यमपुरुषद्विवचनम् - ब्रू + लट् [वर्तमाने लट् (3.2.123) इति लट्] → ब्रू + थस् [तिप्तस्.. (3.4.78) इति मध्यमपुरुष-द्विवचनस्य थस् -प्रत्ययः] → ब्रू + शप् + थस् [कर्तरि शप् (3.1.68) इति शप्] → ब्रू + थस् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + अथुस् [ब्रुवः पञ्चानामादित आहो ब्रुवः (3.4.84) इति ब्रू-धातोः परस्य मध्यमपुरुषद्विवचनस्य थस्-इत्यस्य अथुस्-आदेशः, तथा ‘ब्रू’ इत्यस्य ‘आह्’ आदेशः] → आहथुः [विसर्गनिर्माणम्]
Sutrartha (English)¶
In case of the verb ब्रू, the first five परस्मैपद-प्रत्ययाः of लट्लकार are converted optionally to (respectively) णल्, अतुस्, उस्, थल्, and अथुस्. Also, when this happens, the verb ‘ब्रू’ is converted to ‘आह्’.
Vasu English Summary¶
Instead of the first 5 tense-affixes in the लट् (Present Tense) coming after the verb ब्रु ‘to speak’ there may optionally be the affixes of the लिट् (Perfect Tense) ; आह being at the same time the substitute in the room of ब्रु ‘to speak’.
Vasu English Translation¶
Instead of the first 5 tense-affixes in the लट् (Present Tense) coming after the verb ब्रु ‘to speak’ there may optionally be the affixes of the लिट् (Perfect Tense) ; आह being at the same time the substitute in the room of ब्रु ‘to speak’. Thus आह ‘he says’; आहतुः ‘they two say’; आहुः ‘they say’; आत्थ ‘thou sayst’; आहथुः ‘you two say’; the rest like ब्रू as shown below:–
3rd person, आह or ब्रवीति, आहतुः or ब्रूतः, आहुः or ब्रुवन्ति
2nd person, आत्थ or ब्रवीषि, आहथुः or ब्रूथः, ब्रूत्थ
1st person, ब्रवीमि, ब्रूवः, ब्रूमः
The word आदितः ‘first’ is used in the sutra to indicate that the substitution should not take place in the case of the last four affixes. The repetition of the word ब्रुवः in the sutra indicates the original expression which is to be replaced; and shows that this change occurs in the Parasmaipada affixes only.
Kashika¶
परस्मैपदानामित्येव, लटो वेति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानामादिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति — ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानामिति किम्? ब्रूथ। ब्रवीमि, ब्रूवः,ब्रूमः। आदित इति किम्? परेषां मा भूत्। ब्रुव इति पुनर्वचनं स्थान्यर्थम्, परस्मैपदानामेव हि स्यात्॥
Siddhanta Kaumudi¶
ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥
Laghu Siddhanta Kaumudi¶
ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः। आहुः॥
Balamanorama¶
ब्रुवः पञ्चानामादित आहो ब्रुवः - ब्राऊञ् । ब्राउवः पञ्चानाम् ।परस्मैपदानां णलतु॑रित्यत उत्तरसूत्रमिदम् ।विदो लटो वे॑त्यतो लटो वेत्यनुवर्तते । तदाह — ब्राउवो लट इति । आदितः पञ्चानामिति । तिप् तस् झि सिप् थसित्येषामित्यर्थः । णलादयः पञ्चेति । णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थ इति । तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति । आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते —
Tattvabodhini¶
ब्रुवः पञ्चानामादित आहो ब्रुवः - ब्राउवः पञ्चानाम् ।विदो लटो वे॑त्यतो लटो वेतित वर्तते ।ब्राउव॑ इत्येतदादिमं पञ्चम्यन्तमन्तिमं तु पञ्चम्यन्तमन्तिमं तु षष्ठन्तमित्याशयेनाह — ब्राउवो लट इत्यादि । चर्त्वमिति । प्रक्रियालाघवात्आहस्तः॑ इत्येव सुवचमित्याहुः ।
Padamanjari¶
पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । ठाहस्थःऽ । परेषामिति । थादीनाम् । ननु च’ब्रुवः’ इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ।ल्न्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह - ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वातेषामेव स्यादित्यर्थः ॥
Nyaas¶
पञ्चैव इत्यादि। ननु च नेह द्वितीयं पञ्चग्रहणं, नाप्यदिग्रहणमादेशविशेषमम्, तत्र पञ्चानामाद्यानां स्थाने सर्वैरेव णलादिभिः पर्यायेण भवितव्यम्, तत् कथं पञ्चैव णलादय आदेशा भवन्तीत्येषोऽर्थो लभ्यते? इत्यत आह - स्थानिसम्बन्धात् ` इत्यादि। इह हि स्थानिनः पञ्चैवाऽद्या निर्दिष्टाः, तेषाञ्च **स्थानेऽन्तरतमः** (1.1.50) इति परिभाषया पञ्चिरेवाद्यैः सम्बन्धः सम्भवति, नेतरैश्च। तथा हि - पञ्चानामेवाद्यानामान्तरतम्यमस्ति, तुल्यार्थत्वात्। नान्येषाम्, विपर्ययात्। तस्मात् स्थानिसम्बन्धादादेशेष्वपि पञ्चत्वमादित्वञ्च विज्ञायत इति युक्तम् - पञ्चैव णलादय आदेशा भवन्तीति। `आत्थ इति। आहस्थः (8.2.35) इति हकारस्य थकारः, तस्य खरि च (8.3.55) इति चर्त्वम् - तकारः। ब्रावीति इति। ब्राउव ईट् (7.3.93) ।परेषाम् इति। थादीनाम्। अथ ब्राउवः इति किमर्थं पुनरिदमुच्यते, यावता ब्राउव इति यदेतत् पञ्चम्यन्तं तदेवार्थद्विभक्तेर्विपरिणामो भविष्यीति षष्ठन्तं विज्ञास्यत इत्याह - ब्राउवः इति पुनर्वचनम्` इत्यादि। असति हि श्रते सम्बन्धिनि विभक्तिविपरिणामो युक्तः। इह परस्मैपदानामिति प्रकृता एव तिबादयः षष्ठन्ताः सम्बन्धिन इति न युक्तो विभक्तिविपरिणामः। ब्राउवः इतियदि पुनर्नोच्येत ततो यथा णलादयः परस्मैपदानां भवन्ति, एवमाहौदेशोऽपि स्यात्। तस्मात् तं प्रति ब्राउवः स्थानित्वं यथा स्यादित्येवमर्थं ब्राउवः इति पुनरुच्यते। परस्मैपदानामेव हि स्यात् इति। यदि ब्ुवः इति पुनर्नोच्येतेति शेषः। अयञ्च ब्राउवः इति पूनर्वचनस्य हेतुः। हिशब्दो यस्मादर्थे। यस्मादसति पुनवर्वचने परस्मैपदानामेवाहादेशः स्यात्, तस्मात् ब्राउवः इति पुनर्वचनं कर्तव्यम्॥
Prakriyasarvasvam¶
ब्रुवो लटस्तिवादीनामादितः पञ्चानां णलादिपञ्चादेशा वा स्युः, ब्रुव आहादेशश्च । आह । आहतुः । आहुः । आहथ । स्थानिवत्त्वेन ब्रुव ईट्प्राप्तौ ‘आहभुवोः—’ इति निषेधः*।
Sutra Prayogas¶
स्माह (शिशुपालवधम्): ब्रुवः पञ्चानामादित आहो ब्रुवः इति णल्याहादेशः।
आह (भट्टिकाव्यम्): ब्रुवः पञ्चानाम् इत्याहादेशः तिपो णल।