34085: लोटो लङ्वत् ================== **Padacheda:** लोटः | S | 6 | 1 | लङ्वत् | S | 0 | 0 | Sutrartha --------- **लोट्-लकारस्य प्रत्ययाः लङ्लकारवत् एव सन्ति ।** एतत अतिदेशसूत्रम् । अनेन सूत्रेण लङ्-लकारस्य गुणाः लोट्-लकारे आरोप्यन्ते । इत्युक्ते, लङ्-लकारविशिष्टं प्रत्ययकार्यम् लोट्-लकारस्य विषये अपि भवति इत्यर्थः । यथा - 1. **तस्थस्थमिपाम् तान्तन्तामः** (3.4.101) इत्यनेन लङ्लकारस्य विषये तस्-प्रत्ययस्य ताम्-आदेशः, थस्-प्रत्ययस्य तम्-आदेशः, थ-प्रत्ययस्य त-आदेशः तथा मिप्-प्रत्ययस्य अम्-आदेशः भवति । मिप्-प्रत्ययादेशं विहाय अत्र निर्दिष्टाः अन्ये आदेशाः लोट्-लकारस्य विषये अपि भवन्ति । यथा - पठ् धातोः लोट्लकारस्य मध्यमपुरुषद्विवचनस्य रूपम् 'पठतम्' अत्र तम्-प्रत्ययः अनेनैव सूत्रेण लभ्यते । 2. **नित्यं ङितः** (3.4.99) इत्यनेन लङ्-लकारस्य विषये वस्-मस्-प्रत्यययोः सकारस्य लोपः भवति । लोट्लकारस्य विषये अपि अनेन सूत्रेण अयं लोपः जायते । यथा - पठ् धातोः लोट्लकारस्य उत्तमपुरुषद्विवचनस्य रूपम् 'पठाव' अत्र व-प्रत्ययः अनेनैव सूत्रेण लभ्यते । ज्ञातव्यम् - 1. **लुङ्लङ्लृक्ष्वडुदात्तः** (6.4.71) इत्यनेन लङ्लकारस्य विषये अङ्गस्य अडागमः भवति । इदमपि लङ्-विशिष्टम् कार्यम्, परन्तु इदम् कार्यमङ्गकार्यमस्ति, प्रत्ययकार्यम् न । अतः वर्तमानसूत्रेण एतत् कार्यम् न गृह्यते । अस्मिन् विषये काशिकाकारः वदति - 'विदः लटः वा (3.4.83) इत्यतः वाग्रहणमनुवर्तते' । इत्युक्ते, पूर्वसूत्रात् 'वा' इत्यस्य अनुवृत्तिम् स्वीकृत्य अत्र तस्य अर्थः 'व्यवस्थितविभाषा' इति स्वीकरणीयः । व्यवस्थितविभाषा इत्युक्ते 'सूत्रेण उक्तं कार्यम् केषुचन प्रयोगेषु नित्यं भवति, केषुचन अन्येषु प्रयोगेषु नैव भवति' इत्यर्थः । अत्र लोट्-लकारस्य लङ्-लकारवत् कार्यमडागमादिषु विषयेषु न भवतीति निर्देष्टुम् एतत् आवश्यकम् । 2. यद्यपि अनेन सूत्रेण लोट्लकारः लङ्वत् कार्यं करोति इत्युच्यते, तथापि लोट्-लकारविशिष्टाः प्रत्ययादेशाः पाठिताः सन्ति चेत् ते एव भवन्ति । यथा - अ) मिप्-प्रत्ययस्य लोट्-लकारस्य विषये **मेर्नि** (3.4.89) इत्यनेन नि-आदेशः विधीयते, अतः मिप्-प्रत्ययार्थम् **तस्थस्थमिपाम् तान्तन्तामः** (3.4.101) इत्यस्य प्रयोगः न भवति । आ) **इतश्च** (3.4.100) इत्यनेन लङ्लकारस्य प्रत्ययेषु उपस्थितस्य इकारस्य लोपः विधीयते । तस्य अपवादरूपेण लोट्लकारस्य विषये **एरुः** (3.4.86) इति इकारस्य उकारादेशः भवति । Sutrartha (English) ------------------- The प्रत्ययाः of the लोट्-लकार are derived in the same way as that of the लङ्लकार. Vasu English Summary -------------------- The personal endings of the लोट् (Imperative Mood) are as those of the लङ् (Imperfect Tense). Vasu English Translation ------------------------ The personal endings of the लोट् (Imperative Mood) are as those of the लङ् (Imperfect Tense). This is an अतिदेश *sutra*; as in the लङ् there are the affixes ताम्, तम्, त, व and म, so also in the लोट् । Thus पचताम्, पचतम्, पचत, पचाव, पचाम । Q -- If लोट् is like लङ्, why have we not the augment अट्, आट्, or the substitution of जुस् or झि (see (3.4.111)) in the case of लोट् also ? A. -- The वा of *sutra* (3.4.83) is understood in this *sutra* also, so that the analogy between लोट् and लङ् is a limited analogy and does not make all the rules which are applicable to लङ्, equally applicable to लोट् also. Bhashya ------- लोटो लङ्वत् (1246) (610 अतिदेशसूत्रम्॥ 3 । 4 । 1 आ.22) (5074 समाधानवार्तिकम्॥ 1 ॥) - लङ्वदतिदेशे जुस्भावप्रतिषेधः- (भाष्यम्) लङ्वदतिदेशे जुस्भावस्य प्रतिषेधो वक्तव्यः। यान्तु वान्तु। लङः शाकटायनस्येति जुस्भावः प्राप्नोति॥ (5075 समाधानवार्तिकम्॥ 1 ॥) - उत्ववचनात्सिद्धम्- (भाष्यम्) उत्वमत्र बाधकं भविष्यति॥ (समाधानबाधकभाष्यम्) अनवकाशा हि विधयो बाधका भवन्ति। सावकाशं चोत्वम्। कोऽवकाशः पचतु - पठतु॥ (समाधानसाधकभाष्यम्) अत्रापीकारलोपः प्राप्नोति। तद्यथैवोत्वमीकारलोपं बाधते। एवं जुस्भावमपि बाधेत। (समाधानबाधकभाष्यम्) न बाधते। किं कारणम्?। येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते इकारलोपे उत्वमारभ्यते। जुस्भावे पुनः प्राप्ते चाप्राप्ते च ॥ अथ वा पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते इत्येवमिदमुत्वमिकारलोपं बाधते जुस्भावं न बाधते॥ (समाधानान्तरभाष्यम्) एवं तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम्। लङेव यो लङ् तत्र यथा स्यात्। लङ्वद्भावेन यो लङ् तत्र मा भूदिति॥ लोटो लङ्वत्॥ 85 ॥ Kashika ------- अतिदेशोयम्। लोटो लङ्वत् कार्यं भवति। तामादयस्सलोपश्च। पचताम्। पचतम्। पचत। पचाव, पचाम। अडाटौ कस्माद् न भवतः, तथा झेर्जुसादेशः (३.४.१०८) **लङः शाकटायनस्यैव** (३.४.१११) इति — वान्तु, यान्तु? **विदो लटो वा** (३.४.८३) इत्यतो वाग्रहणमनुवर्तते। सा च व्यवस्थितविभाषा भविष्यति॥ Siddhanta Kaumudi ----------------- लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥ Laghu Siddhanta Kaumudi ----------------------- लोटस्तामादयस्सलोपश्च॥ Balamanorama ------------ **लोटो लङ्वत्** - लोटो लङ्वत् । लङ इव लङ्वत् ।तत्र तस्येवे॑ति षष्ठन्ताद्वतिः । तदाहलोटो लङ इवेति । ननु तर्हिलुङ्लङ्लृङ्क्ष्वडुदात्त॑ इत्यडागमोऽपि स्यादित्यत आह — तेनेति । लङ इति स्थानषष्ठन्ताद्वतिप्रत्ययाश्रयणेनेत्यर्थः । अडागमस्तु न लङो विधीयते, किन्तु लङि अङ्गस्येति भावः । केन तामादयः, केन वा सलोप इत्यत आह — तथा हीति । तामादयः सलोपश्च यथा ज्ञायन्ते तथा स्पष्टमुच्यन्त इत्यर्थः । Tattvabodhini ------------- **लोटो लङ्वत्** - ॒लोट॑ इत्युपमेये षष्ठीदर्शनात् [उपमानादपि] षष्ठन्तादेव वतिः, तदाह — तेनेति । अडादौ तु नातिदिश्येते, न हि तौ लङः क्रियेते, किं तु लङि अङ्गस्येति भावः॥ नन्वेमपि यान्तु वान्तु इत्यत्रलङः वाग्रहणमिहानुवत्र्य व्यवस्थितविभाषाश्रयणान्न जुस् । यद्वालङः शाकटायनस्ये॑ति सूत्रेनित्यं ङितःर॑ इत्यतोङित॑ इत्यनुवृत्त्यैवेष्टसिद्धेर्लचङ्ग्रहणमतिरित्यते, लुङि सिचा, लृङि स्यप्रत्ययेन च व्यवधानात्, लिङि तुझेर्जु॑सिति जुसो विहितत्वाच्च,ङित॑ इत्यस्य लडएव पर्यवसानात् । ततो लड्ग्रहणं विभज्यते । नियमश्चायंलडेव यो लङ् तस्यैव झेर्जुस् न तु लङ्वद्भावेन यो लङ् तस्ये॑त्यतो नोक्तदोष॑ इति । तञ्चिन्त्यम् । अदुरित्यत्रसिजभ्यस्ते॑ति नित्यजुसं बाधित्वा परत्वाच्छाकटायनस्येति विकल्पप्रसङ्गात् । तस्माल्लड्ग्रहणं शाकटायनसूत्रे कर्तव्यमेव, न तु तदतिरिच्यते । न चआतः॑ इति सूत्रेणाऽदुरित्यत्र नित्यं रजुस्स्यादिति वाच्यं, तस्य नियमार्थत्वेन विद्यर्थत्वा.योगात्, अन्यथा अभूवन्नित्यत्रसिजभ्यस्ते॑ति जुस् दुर्वार एव स्यादिति नव्याः॥ यदि त्विहआतः॑ इति सूत्रमावर्त्त्य विध्यर्थता नियमार्थता च व्याख्यायेत तदा तूक्तद#ओषाऽभावाद्यद्वेति समाधानमपि सम्यगेव, शाकटायनस्येति जुसो वैकल्पिकत्वात् । तदभावपक्षे पुनःप्रसङ्गविज्ञानात्सिजभ्यस्ते॑ति जुसि स्वीकृते तु सुतरां सम्यगेव, परं तु जुह्वतु विन्दत्वित्यत्र जुस्वारणाय व्यवस्थितविभाषा त्वाश्रयणीयैवैति दिक् । Padamanjari ----------- लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङदेशेषु च लङ्शब्दः, लोडादेशानां लङदेशवत्कार्यं भवतीत्यर्थः, तदाह - तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङ्दृष्टित्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवतीति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः ।'लङ्ः शाकटायनस्य' इति जुस्भावोऽपि लङ् एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु'सिजभ्यस्तविदिभ्यश्च' इति लङ् दृष्टो जुस्भाविः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ।ल्न्तं विज्ञायते - लङे यत्कार्यं तल्लोटो भवतीति, न तु लङ् यित्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम्'लङ्ः शाकटायनस्य' इत्यत्र स्वयमेव वक्ष्यति ॥ Nyaas ----- `तामादयः` इति। येषां `तस्थस्थ` (3.4.101) इत्यादिना विधाननम्। `सलोपश्च` इति। यस्य नित्यं ङितः` ( 3.4.99) इति विधानम्।`अडाटौ इत्यादि। `लुङ्लङ्लृङक्षु` (6.4.71) इत्यादिनाट्, **आडजादीनाम्** (6.4.72) इत्याट् लङः कार्य विधास्यते। `लङ शाकटायनस्यैव` (3.4.111) इति झेर्जुसादेशश्च। न चेह कश्चिद्विशेष उपादीयते, ततश्च यस्मादतिदेशात् तामादिकार्यं भवति तथा **आडजादीनाम्** (6.4.72) लङकार्येणापि भवितव्यमित्यभिप्रायः। `इतश्च` (3.4.100) इति लोपः, मिपोऽम्भावश्च। देश्यमेतत्। तयोः `एरुः` (3.4.86) इत्युत्त्वस्य `मेर्निः` इति निरादेशस्य चापवादस्य विधास्यमानत्वात्। `सा च व्यवस्थितविभाषा` इति। तेन तामादिरेवादेशो भवति, न त्वडादिरिति मन्यते॥ Prakriyasarvasvam ----------------- लोटो लङ्वत् कार्यं स्यात् । तेन तामादयः सलोपश्चैव स्युः । भवताम् । 'एरुः' । भवन्तु । भव सि—