34084: ब्रुवः पञ्चानामादित आहो ब्रुवः ===================================== **Padacheda:** ब्रुवः | S | 5 | 1 | पञ्चानाम् | S | 6 | 3 | आदितः | S | 0 | 0 | आहः | S | 1 | 1 | ब्रुवः | S | 6 | 1 | Sutrartha --------- **ब्रू-धातोः लट्-लकारस्य विषये परस्मैपदस्य आदितानाम् पञ्च प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः भवन्ति, तथा च ब्रू-धातोः आह्-आदेशः भवति ।** ब्रूञ् (व्यक्तायां वाचि) इति अदादिगणस्य धातुः । अस्मात् धातोः लट्लकारस्य परस्मैपदस्य 'तिप्-तस्-झि-सिप्-थस्' एतेषाम् पञ्च प्रत्ययानाम् विकल्पेन (क्रमेण) णल्-अतुस्-उस्-थल्-अथुस् एते आदेशाः अनेन सूत्रेण विधीयन्ते । तथा च, एते आदेशाः यदा भवन्ति तदा ब्रू-धातोः 'आह्' इत्यपि परिवर्तनम् भवति । उदाहरणानि एतानि - 1. प्रथमपुरुषैकवचनम् - ब्रू + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → ब्रू + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुष-एकवचनस्य तिप्-प्रत्ययः] → ब्रू + शप् + तिप् [**कर्तरि शप्** (3.1.68) इति शप्] → ब्रू + तिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + णल् [**ब्रुवः पञ्चानामादित आहो ब्रुवः** (3.4.84) इति ब्रू-धातोः परस्य प्रथमपुरुषैकवचनस्य तिप्-इत्यस्य णल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आह् अ [इत्संज्ञालोपः] → आह । 2. प्रथमपुरुषद्विवचनम् - ब्रू + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → ब्रू + तस् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुष-द्विवचनस्य तस् -प्रत्ययः] → ब्रू + शप् + तस् [**कर्तरि शप्** (3.1.68) इति शप्] → ब्रू + तस् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + अतुस् [**ब्रुवः पञ्चानामादित आहो ब्रुवः** (3.4.84) इति ब्रू-धातोः परस्य प्रथमपुरुषद्विवचनस्य तस्-इत्यस्य अतुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आहतुः [विसर्गनिर्माणम्] 3. प्रथमपुरुषबहुवचनम् ब्रू + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → ब्रू + झि [**तिप्तस्..** (3.4.78) इति प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययः] → ब्रू + शप् + झि [**कर्तरि शप्** (3.1.68) इति शप्] → ब्रू + झि [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + उस् [**ब्रुवः पञ्चानामादित आहो ब्रुवः** (3.4.84) इति ब्रू-धातोः परस्य प्रथमपुरुषबहुवचनस्य झि-इत्यस्य उस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आहुः [विसर्गनिर्माणम्] 4. मध्यमपुरुषैकवचनम् - ब्रू + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → ब्रू + सिप् [**तिप्तस्..** (3.4.78) इति मध्यमपुरुष-एकवचनस्य सिप्-प्रत्ययः] → ब्रू + शप् + सिप् [**कर्तरि शप्** (3.1.68) इति शप्] → ब्रू + सिप् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + थल् [**ब्रुवः पञ्चानामादित आहो ब्रुवः** (3.4.84) इति ब्रू-धातोः परस्य मध्यमपुरुषैकवचनस्य सिप्-इत्यस्य थल्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः → आथ् थ [**आहस्थः** (8.2.35) इति हकारस्य थकारः] → आत्थ [**खरि च** (8.4.55) इति चर्त्वम् ] 5. मध्यमपुरुषद्विवचनम् - ब्रू + लट् [**वर्तमाने लट्** (3.2.123) इति लट्] → ब्रू + थस् [**तिप्तस्..** (3.4.78) इति मध्यमपुरुष-द्विवचनस्य थस् -प्रत्ययः] → ब्रू + शप् + थस् [**कर्तरि शप्** (3.1.68) इति शप्] → ब्रू + थस् [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शप्-प्रत्ययस्य लुक्] → आह् + अथुस् [**ब्रुवः पञ्चानामादित आहो ब्रुवः** (3.4.84) इति ब्रू-धातोः परस्य मध्यमपुरुषद्विवचनस्य थस्-इत्यस्य अथुस्-आदेशः, तथा 'ब्रू' इत्यस्य 'आह्' आदेशः] → आहथुः [विसर्गनिर्माणम्] Sutrartha (English) ------------------- In case of the verb ब्रू, the first five परस्मैपद-प्रत्ययाः of लट्लकार are converted optionally to (respectively) णल्, अतुस्, उस्, थल्, and अथुस्. Also, when this happens, the verb 'ब्रू' is converted to 'आह्'. Vasu English Summary -------------------- Instead of the first 5 tense-affixes in the लट् (Present Tense) coming after the verb ब्रु 'to speak' there may optionally be the affixes of the लिट् (Perfect Tense) ; आह being at the same time the substitute in the room of ब्रु 'to speak'. Vasu English Translation ------------------------ Instead of the first 5 tense-affixes in the लट् (Present Tense) coming after the verb ब्रु 'to speak' there may optionally be the affixes of the लिट् (Perfect Tense) ; आह being at the same time the substitute in the room of ब्रु 'to speak'. Thus आह 'he says'; आहतुः 'they two say'; आहुः 'they say'; आत्थ 'thou sayst'; आहथुः 'you two say'; the rest like ब्रू as shown below:-- - 3rd person, आह or ब्रवीति, आहतुः or ब्रूतः, आहुः or ब्रुवन्ति - 2nd person, आत्थ or ब्रवीषि, आहथुः or ब्रूथः, ब्रूत्थ - 1st person, ब्रवीमि, ब्रूवः, ब्रूमः The word आदितः 'first' is used in the *sutra* to indicate that the substitution should not take place in the case of the last four affixes. The repetition of the word ब्रुवः in the *sutra* indicates the original expression which is to be replaced; and shows that this change occurs in the *Parasmaipada* affixes only. Kashika ------- परस्मैपदानामित्येव, लटो वेति च। ब्रुवः परस्य लटः परस्मैपदानां पञ्चानामादिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति। आह, आहतुः, आहुः। आत्थ, आहथुः। न च भवति — ब्रवीति, ब्रूतः, ब्रुवन्ति। ब्रवीषि, ब्रूथः। पञ्चानामिति किम्? ब्रूथ। ब्रवीमि, ब्रूवः,ब्रूमः। आदित इति किम्? परेषां मा भूत्। ब्रुव इति पुनर्वचनं स्थान्यर्थम्, परस्मैपदानामेव हि स्यात्॥ Siddhanta Kaumudi ----------------- ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥ Laghu Siddhanta Kaumudi ----------------------- ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः। आह। आहतुः। आहुः॥ Balamanorama ------------ **ब्रुवः पञ्चानामादित आहो ब्रुवः** - ब्राऊञ् । ब्राउवः पञ्चानाम् ।परस्मैपदानां णलतु॑रित्यत उत्तरसूत्रमिदम् ।विदो लटो वे॑त्यतो लटो वेत्यनुवर्तते । तदाह — ब्राउवो लट इति । आदितः पञ्चानामिति । तिप् तस् झि सिप् थसित्येषामित्यर्थः । णलादयः पञ्चेति । णल् अतुस् उस् थल् अथुस् इत्येते पञ्चेत्यर्थः । उच्चारणार्थ इति । तत्प्रयोजनमात्तेत्यत्रानुपदमेव व्यक्तं भविष्यति । आहेति ब्राऊधातोर्लटस्तिपो णलि प्रकृतेराहादेशः । सिपस्थलि प्रकृतेराहादेशे आह् थ इति स्थिते हस्य ढत्वे प्राप्ते — Tattvabodhini ------------- **ब्रुवः पञ्चानामादित आहो ब्रुवः** - ब्राउवः पञ्चानाम् ।विदो लटो वे॑त्यतो लटो वेतित वर्तते ।ब्राउव॑ इत्येतदादिमं पञ्चम्यन्तमन्तिमं तु पञ्चम्यन्तमन्तिमं तु षष्ठन्तमित्याशयेनाह — ब्राउवो लट इत्यादि । चर्त्वमिति । प्रक्रियालाघवात्आहस्तः॑ इत्येव सुवचमित्याहुः । Padamanjari ----------- पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । ठाहस्थःऽ । परेषामिति । थादीनाम् । ननु च'ब्रुवः' इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ।ल्न्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह - ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वातेषामेव स्यादित्यर्थः ॥ Nyaas ----- `पञ्चैव` इत्यादि। ननु च नेह द्वितीयं पञ्चग्रहणं, नाप्यदिग्रहणमादेशविशेषमम्, तत्र पञ्चानामाद्यानां स्थाने सर्वैरेव णलादिभिः पर्यायेण भवितव्यम्, तत् कथं पञ्चैव णलादय आदेशा भवन्तीत्येषोऽर्थो लभ्यते? इत्यत आह - `स्थानिसम्बन्धात् ` इत्यादि। इह हि स्थानिनः पञ्चैवाऽद्या निर्दिष्टाः, तेषाञ्च **स्थानेऽन्तरतमः** (1.1.50) इति परिभाषया पञ्चिरेवाद्यैः सम्बन्धः सम्भवति, नेतरैश्च। तथा हि - पञ्चानामेवाद्यानामान्तरतम्यमस्ति, तुल्यार्थत्वात्। नान्येषाम्, विपर्ययात्। तस्मात् स्थानिसम्बन्धादादेशेष्वपि पञ्चत्वमादित्वञ्च विज्ञायत इति युक्तम् - पञ्चैव णलादय आदेशा भवन्तीति। `आत्थ` इति। `आहस्थः` (8.2.35) इति हकारस्य थकारः, तस्य `खरि च` (8.3.55) इति चर्त्वम् - तकारः। `ब्रावीति` इति। `ब्राउव ईट्` (7.3.93) ।`परेषाम्` इति। थादीनाम्। अथ `ब्राउवः` इति किमर्थं पुनरिदमुच्यते, यावता ब्राउव इति यदेतत् पञ्चम्यन्तं तदेवार्थद्विभक्तेर्विपरिणामो भविष्यीति षष्ठन्तं विज्ञास्यत इत्याह - `ब्राउवः` इति पुनर्वचनम्` इत्यादि। असति हि श्रते सम्बन्धिनि विभक्तिविपरिणामो युक्तः। इह परस्मैपदानामिति प्रकृता एव तिबादयः षष्ठन्ताः सम्बन्धिन इति न युक्तो विभक्तिविपरिणामः। `ब्राउवः` इतियदि पुनर्नोच्येत ततो यथा णलादयः परस्मैपदानां भवन्ति, एवमाहौदेशोऽपि स्यात्। तस्मात् तं प्रति ब्राउवः स्थानित्वं यथा स्यादित्येवमर्थं `ब्राउवः` इति पुनरुच्यते। `परस्मैपदानामेव हि स्यात्` इति। यदि `ब्ुवः` इति पुनर्नोच्येतेति शेषः। अयञ्च `ब्राउवः` इति पूनर्वचनस्य हेतुः। हिशब्दो यस्मादर्थे। यस्मादसति पुनवर्वचने परस्मैपदानामेवाहादेशः स्यात्, तस्मात् `ब्राउवः` इति पुनर्वचनं कर्तव्यम्॥ Prakriyasarvasvam ----------------- ब्रुवो लटस्तिवादीनामादितः पञ्चानां णलादिपञ्चादेशा वा स्युः, ब्रुव आहादेशश्च । आह । आहतुः । आहुः । आहथ । स्थानिवत्त्वेन ब्रुव ईट्प्राप्तौ 'आहभुवोः—' इति निषेधः*। Sutra Prayogas -------------- * **स्माह** (शिशुपालवधम्): `ब्रुवः पञ्चानामादित आहो ब्रुवः` इति णल्याहादेशः। * **आह** (भट्टिकाव्यम्): `ब्रुवः पञ्चानाम्` इत्याहादेशः तिपो णल।