34083: विदो लटो वा¶
Padacheda: विदः | S | 5 | 1 |
लटः | S | 6 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
विद्-धातोः लट्-लकारस्य विषये परस्मैपदस्य प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म-आदेशाः भवन्ति ।
विदँ (ज्ञाने) अयमदादिगणस्य धातुः । अस्मात् धातोः विहितानाम् परस्मैपदस्य प्रत्ययानाम् विकल्पेन णल्-अतुस्-उस्-थल्-अथुस्-अ-णल्-व-म- एते आदेशाः भवन्ति । अत्र विदँ (ज्ञाने) अस्यैव ग्रहणम् करणीयम्, अन्येषाम् विद्-धातूनाम् न । अस्य कारणम् एतत् - अस्मिन् सूत्रे ‘विदः’ इति पञ्चमी-विभक्तेः प्रयोगः क्रियते । अतः तस्मादित्युत्तरस्य (1.1.67) इत्यनेन विद्-धातोः अनन्तरम् स्थापिताः ‘विकरणेन अव्यवहिताः तिबादयः’ एव स्वीकरणीयाः । अतः दिवादिगणस्य / तुदादिगणस्य / चुरादिगणस्य च विद्-धातोः ग्रहणं न करणीयम् । तथा च, रुधादिगणे अपि कश्चन विद्-धातुः अस्ति, परन्तु सः आत्मनेपदस्यैव प्रत्ययान् स्वीकरोति, अतः तस्मात् धातोः परस्मैपदस्य प्रत्ययाः न भवन्त्येव । अतः एकः एव अवशिष्टः अदादिगणस्य विद्-धातुः अत्र स्वीक्रियते ।
Sutrartha (English)¶
For the verb विद्, the प्रत्ययाः of लिट्लकार are optionally converted (respectively) to णल्,अतुस्, उस्, थल्, अथुस्, अ, णल्, व, म.
Vasu English Summary¶
The above nine affixes of the लिट् (Perfect Tense) are optionally added in the लट् (Present Tense) also after the verb विद् ‘to know’.
Vasu English Translation¶
The above nine affixes of the लिट् (Perfect Tense) are optionally added in the लट् (Present Tense) also after the verb विद् ‘to know’. Thus:–
3rd person, वेद or वेत्ति, विदतुः or वित्तः, विदुः or विदन्ति,
2nd person, वेत्थ or वेत्सि, विदथुः or वित्थः, विद or वित्थ,
1st person, वेद or वेद्मि, विद्व or विद्वः, विद्म or विद्मः
Kashika¶
परस्मैपदानामित्येव। विद ज्ञाने अस्माद् धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेनादेशा भवन्ति। वेद, विदतुः, विदुः। वेत्थ, विदथुः, विद। वेद, विद्व, विद्म। न च भवति — वेत्ति, वित्तः, विदन्ति। वेत्सि, वित्थः, वित्थ। वेद्मि, विद्वः, विद्मः॥
Siddhanta Kaumudi¶
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उषविद-(SK2341) इत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥
Laghu Siddhanta Kaumudi¶
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः। वेद। विदतुः। विदुः। वेत्थ। विदथुः। विद। वेद। विद्व। विद्म। पक्षे - वेत्ति। वित्तः। विदन्ति॥
Balamanorama¶
विदो लटो वा - विदो लटो वा ।परस्मैपदानां णलतु॑सित्यादिसूत्रमनुवर्तते ।विद॑इति पञ्चमी । तदाह — वेत्तेर्लट इति । विन्दतिविद्यत्योस्तु शेन श्यना च व्यवधानान्नैते आदेशाः । इत्यादीति । विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः । विविदतुरिति । विविदुः । विवेदिथ विविदथुः विविद । विवेद विविदिव विविदिम । आम्पक्षे इति । न लघूपधगुण इत्यन्वयः । कुत इत्यत आह — अकारान्तनिपातनादिति ।उषविदे॑ति सूत्रे विदेत्यकारान्तत्वमाम्संनियोगेन निपात्यत इत्यर्थः । आमि अतो लोपः । तस्य स्थानिवत्त्वान्न लघूपधगुण इति भावः । वेदितेति । वेदिष्यतीत्यपि ज्ञेयम् ।
Tattvabodhini¶
विदो लटो वा - विदो लटो वा । पञ्चमीयं, न तु षष्ठी, तेन विद्यतिविन्दत्योरव्यवहितपरस्य लटोऽभावान्नैते आदेशाः । तदाह — वेत्तेरिति ।
Padamanjari¶
विद ज्ञाने इति । सताविचारार्थयोस्त्वात्मनेपदित्वातिबादीनामसम्भवः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तराणामसम्भव इति भावः ॥
Nyaas¶
विद ज्ञाने इति। एतेन ज्ञानार्थस्य विदेग्र्रहणम्, नान्येषामिति। एवं मन्यते - विद इति पञ्चमी, तेन तस्मादित्युत्तरस्य (1.1.67) इत्यनन्तराणां तिबादीनामादेशेन भवितव्यम्। न चान्यस्माद्विदेः परस्मैपदान्यनन्तराणि सम्भवति; विकरणैव्र्यवधानात्। विचारसत्तार्थयोश्चात्मनेपदित्वात् परस्मैपदानुपपत्तिः। तस्मात् ज्ञानार्थस्यैव ग्रहणमिति॥
Prakriyasarvasvam¶
वेत्तेर्लटः परस्मैपदानां क्रमाण्णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । विदन्ति । कर्मणि विद्यते । लिङि विद्यात् । विद्याताम् । लोटि वेत्तु, वित्तात् । विद्धि । वेदानि । वेदाव ।
Sutra Prayogas¶
वेद (रघुवंशम्): विदो लटो वा इति णलादेशः।
विदुः (रघुवंशम्): विदो लटो वा इति झेर्जुसादेशः।
विदुः (रघुवंशम्): विदो लटो वा इति झेर्जुसादेशः।
वेद (रघुवंशम्): विदो लटो वा इति णलादेशः।
विद्म (रघुवंशम्): विदो लटो वा इति वैकल्पिको मादेशः।
विदुः (कुमारसम्भवम्): विदो लटो वा इति झेर्जुसादेशः।
विदुः (कुमारसम्भवम्): विदो लटो वा इति झेर्जुस्।
वेद (किरातार्जुनीयम्): विदो लटो वा इति णलादेशः।
वेद (किरातार्जुनीयम्): विदो लटो वा इति लटो णलादेशः।
वेद (किरातार्जुनीयम्): विदो लटो वा इति णलादेशः।
विदुः (शिशुपालवधम्): विदो लटो वा इति झेरुसादेशः ।
वेद (शिशुपालवधम्): विदो लटो वा इति णलादेशः।
विदुः (शिशुपालवधम्): विदो लटो वा इति विकल्पाज्जुसादेशः।
वेद (भट्टिकाव्यम्): विदो लटो वा इति मिपो ल्।