34038: स्नेहने पिषः

Padacheda: स्नेहने | S | 7 | 1 |

पिषः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix णमुल् comes after the verb पिष् ‘to grind’ when a word in the Instrumental -3rd case denoting ‘liquid’ is in composition.

Vasu English Translation

The affix णमुल् comes after the verb पिष् ‘to grind’ when a word in the Instrumental -3rd case denoting ‘liquid’ is in composition. Thus उदपेषं पिनष्टि = उदकेन पिनष्ठि (6.3.58) ‘he grinds with water’; तैलपेषं पिनष्टि ‘he grinds with oil’. Here also (3.4.46) applies, and an appropriate verb from the same root is employed to govern the gerund.

Kashika

करण इत्येव। स्निह्यते येन तत् स्नेहनम्। स्नेहनवाचिनि करण उपपदे पिषेर्धातोर्णमुल् प्रत्ययो भवति। उदपेषं पिनष्टि। तैलपेषं पिनष्टि। तैलेन पिनष्टीत्यर्थः॥

Siddhanta Kaumudi

स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥

Tattvabodhini

स्नेहने पिषः - स्नेहने ।शुष्कचूर्णे॑ति सूत्रे एव स्नेहनग्रहणं न कृतम् । तत्र हिकर्मणि दृशिविदो॑रिति सूत्रात्कर्मणीत्यनुवर्तते, इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति ।

Padamanjari

व्याख्यानात्स्नेहने इत्यर्थग्रहणमित्याह - स्नेहनवाचिनीति । उदपेषमिति ।’पेषंवासवाहनधिषु च’ इत्युदकस्योदभावः ।’शुष्कचूर्ण’ इत्यत्र स्नेहनग्रहणं न कृतम्, कर्मणि तत्र प्रत्ययः, इह तु करणे ॥

Nyaas

स्नेहनवाचिनि इत्यनेन स्नेहने इत्यस्यार्थमाचष्टे॥

Prakriyasarvasvam

स्नेहार्थे करणे पूर्वे पिषेर्णमुल् । तैलपेषं पिनष्टि । जलपेषं पिनष्टि । द्रवद्रव्यं विना पेषणसम्भवात् तैलादेः करणत्वम् ॥