34037: करणे हनः¶
Padacheda: करणे | S | 7 | 1 |
हनः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the verb हन् ‘to kill’ when a word in the Instrumental -3rd case is in composition with it.
Vasu English Translation¶
The affix णमुल् comes after the verb हन् ‘to kill’ when a word in the Instrumental -3rd case is in composition with it. Thus पाणिघातं वेदिं हन्ति (7.3.32) and (7.3.54) = पाणिना वेदिं हन्ति ‘the strikes the Vedi with the hand’; पादघातं भूमिं हन्ति ‘he strikes the ground with the foot’. Reading this sutra along with (3.4.48), we find that हन् here does not mean ‘to kill’, and the further difference between this aphorism and that is, that in the case of this sutra a cognate verb from the same root must be used, as the gerund; not so in sutra (3.4.48); or this sutra may be for the sake of forming Invariable compounds with the upapadas, such as पादघातं ।
According to Patanjali, this affix comes after हन् under this aphorism, even when हन् means ‘to injure’; thus counteracting rule (3.4.48), by anticipation, and in opposition to the general principle of interpretation enunciated in rule (1.4.2). Thus असिघातं हन्ति ‘he kills with the sword’; शरघातं हन्ति ‘he kills with arrows’.
Rule (3.4.46) applies here also, and an appropriate verb from the same root is employed to govern the gerund.
Bhashya¶
करणे हनः (1198) (600 णमुल्प्रत्ययविधिसूत्रम् ॥ 3 । 4 । 1 आ.12) - हनः करणेऽनर्थकं वचनं हिंसार्थेभ्यो णमुल्विधानात्- (भाष्यम्) हनः करणे वचनमनर्थकम्। किं कारणम्?। हिंसार्थेभ्यो णमुल्विधानात्। हिंसार्थेभ्यो णमुल्विधीयते। तेनैव सिद्धम् ॥ (5045 आक्षेपबाधकवार्तिकम् ॥ 2 ॥) - अर्थवत्त्वाहिंसार्थस्य विधानात्- (भाष्यम्) अर्थवत्तु हन्तेर्णमुल्वचनम्। कोर्थः?। अहिंसार्थस्य विधानात्। अहिंसार्थस्य हन्तेर्णमुल् यथा स्यात् ॥ (आक्षेपभाष्यम्) अस्ति पुनरयं क्वचिद्वन्तिरहिंसार्थः यदर्थोविधिः स्यात् ॥ (समाधानभाष्यम्) अस्तीत्याह। पाण्युपघातं वेदिं हन्ति ॥ (5046 प्रत्योजनान्तरवार्तिकम् ॥ 3 ॥) ?B- नित्यसमासार्थं च- (भाष्यम्) नित्यसमासार्थस्च हिंसार्थादपि हन्तेरनेन विधिरेषितव्यः। (आक्षेपभाष्यम्) कथं पुनरिच्छतापि हिंसार्थाद्धन्तेरनेन विधिर्लभ्यः। अनेनास्तु तेन वेति तेन स्याद्विप्रतिषेधेन ॥ (समाधानभाष्यम्) हन्तेः पूर्वविप्रतिषेधो वार्तिकेनैव ज्ञापितः। यदयं नित्यसमासार्थे चेत्याह। तज् ज्ञापयत्याचार्यः - हिंसार्थादपि हन्तेरनेन विधिर्भवतीति ॥ करणे इनः ॥ 37 ॥
Kashika¶
करण उपपदे हन्तेर्धातोर्णमुल् प्रत्ययो भवति। पाणिघातं वेदिं हन्ति। पादघातं भूमिं हन्ति। हिंसार्थानां च समानकर्मकाणाम् (३.४.४८) इति णमुलं वक्ष्यति। अहिंसार्थोऽयमारम्भः, नित्यसमासार्थो वा यथाविध्यनुप्रयोगार्थश्च। पूर्वविप्रतिषेधेन हन्तेर्हिंसार्थस्यापि प्रत्ययोऽनेनैवेष्यते। असिघातं हन्ति। शरघातं हन्ति॥
Siddhanta Kaumudi¶
पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च (SK3369) इति वक्ष्यते ॥
Padamanjari¶
नित्यसमासार्थं चेति ।’हिसार्थानाम्’ इत्यनेन णमुलि’तृतीयाप्रभृतीन्यन्यतरस्याम्’ इति विकल्पितः समासः स्याद्, अतो हिंसार्थेऽप्यनेनैव णमुलेषितव्य इत्यर्थः । कथं पुनरिष्यमाणोऽपि लभ्यते, यावताऽहिंसार्थे हन्तौ सावकाशोऽयं विधिः,’हिंसार्थानाम्’ इत्यस्य तु हन्तिव्यतिरिक्तो हिंसार्थोऽवकाशः; हिंसार्थे हन्तावुभयप्रसङ्गे परत्वात्स एव विधिः प्राप्नोति ? तत्राह - पूर्वविप्रतिषेधेनेति । कथं तर्हि’हिंसार्थानाम्’ इत्यत्रोदाहरिष्यते - दण्डोपघातं गाः कालयति, दण्डेनोपघातं वेति ? अत्राहुः - यत्रैक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानो विशेषणविशेष्यबावमनुभवति सोऽस्य विषयः;’कषादिषु यथाविध्यनुप्रयोगः’ इति वचनात् । अत्यन्तभिन्नधात्वर्थसम्बन्धे तु तेनैव णमुल् भवतीति । एवं च नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्चेति, कोऽर्थः ? यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थ इत्यर्थः । इह द्वर्हन्ग्रहणं समूलग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि - जीवाकृतयोर्ग्रहकृञः; शुष्कचूर्णरुक्षेषु पिषः, निमूले कषः, समूले हनश्च, चकारात्कषश्च, ततः करणे हन इत्येव, यदेतत्कषादिषु यथाविध्यनुप्रयोग इति एतद्ग्रहादिष्विति वक्तव्यम् । तथा तु न कृतमित्येव ॥
Nyaas¶
अहिंसार्थोऽयमारम्भःट इति। हिंसायाम् `हिंसार्थानाम् (3.4.48) इति वक्ष्यमाणेन सिद्धत्वा। नित्यसमासार्थः इति। हिंसार्थस्यापीति शेषः। उपपदमतिङ् (2.2.19) इति नित्यसमासो यथा स्यादित्येवमर्थोऽयमारम्भः। तेन तु प्रत्यये सति तृतीयाप्रभृतीन्यन्यतरस्याम् (2.2.21) इति विकल्पेन स्यात्। यथाविध्यनुप्रयोगार्थश्च इति। कषादिषु यथाविध्यनुप्रयोगः (3.4.46) इति। यस्माद्धातोर्णमुल् विहितस्तस्यैवानुप्रयोगो यथा स्यात्, तेन तु प्रत्यये धात्वन्तर्सयानुप्रयोगः स्यात्।ननु च यता हन्तिहिंसार्थो भवति तदा परत्वात् तेनैव भवितव्यम्, तत्कथं नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्च हिंसार्थस्य हन्तेरयमारम्भो युज्यते? इत्यत आह - पूर्वविप्रतिषेधेन इत्यादि॥
Prakriyasarvasvam¶
करणपूर्वाद्धन्तेर्णमुल् । पाणिना हन्ति पाणिघातं हन्ति । असिघातं हन्ति ॥
Sutra Prayogas¶
तुण्ड-घातमयुध्यत (भट्टिकाव्यम्): करणे हनः इति न णमुल्।