34039: हस्ते वर्त्तिग्रहोः

Padacheda: हस्ते | S | 7 | 1 |

वर्त्ति-ग्रहोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix णमुल् comes after the verbs वर्त्ति (the causative of वृत्) and ग्रह् ‘to seize’ when a word denoting ‘hand’ in the Instrumental -3rd case, is in composition.

Vasu English Translation

The affix णमुल् comes after the verbs वर्त्ति (the causative of वृत्) and ग्रह् ‘to seize’ when a word denoting ‘hand’ in the Instrumental -3rd case, is in composition. Thus हस्तवर्ते, करवर्ते or पाणिवर्ते वर्तयति = हस्तेन वर्तयति ‘he revolves by the hand’. So also, तम् हस्तग्राहम् गृह्णाति ‘he takes him by the hand’: so पाणिग्राहम्, करग्राहम् &c.

Here also rule (3.4.46) applies and appropriate verbs from the same roots must be employed to govern the gerund.

Kashika

करण इत्येव। हस्त इत्यर्थग्रहणम्। वर्तिर्ण्यन्तः। हस्तवाचिनि करण उपपदे वर्तयतेर्गृह्णातेश्च णमुल् प्रत्ययो भवति। हस्तेन वर्तयति हस्तवर्तं वर्तयति। करवर्तम्। पाणिवर्तम्। ग्रहेः खल्वपि — हस्तेन गृह्णाति हस्तग्राहं गृह्णाति। करग्राहम्। पाणिग्राहम्॥

Siddhanta Kaumudi

हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥

Tattvabodhini

हस्ते वर्त्तिग्रहोः - हस्ते । हस्त इत्यर्थग्रहणं, तदाह — हस्तार्थे इति ।

Padamanjari

‘जीवे ग्रहः, हस्ते च, वर्तेश्च’ इति नोक्तम्, तत्र कर्मोपपदम्, इह तु करणम् । वर्तिर्ण्यन्त इति । निर्देश एवात्र प्रमाणम् । हस्तवर्तं वर्तयतीति । हस्तेन वर्तयति, गुलिकां करोतीत्यर्थः ॥

Nyaas

वर्त्तिण्र्यन्तः इति। निर्देशादेव वर्तेण्र्यन्तत्वं प्रतीयते॥

Prakriyasarvasvam

हस्तार्थे करणे पूर्वेऽनयोर्णमुल् । वर्तेणिलोपः । हस्तवर्त्तं वर्त्तयत्यौपधं दण्डं वा । पाणिवर्त्तम् । हस्तेन गुलिकीकरोति भ्रमयति चेत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् ।।

Sutra Prayogas

  • हस्त-वर्तम् (भट्टिकाव्यम्): हस्ते वर्ति- ग्रहो ः इति णमुल्।