34038: स्नेहने पिषः =================== **Padacheda:** स्नेहने | S | 7 | 1 | पिषः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णमुल् comes after the verb पिष् 'to grind' when a word in the Instrumental -3rd case denoting 'liquid' is in composition. Vasu English Translation ------------------------ The affix णमुल् comes after the verb पिष् 'to grind' when a word in the Instrumental -3rd case denoting 'liquid' is in composition. Thus उदपेषं पिनष्टि = उदकेन पिनष्ठि (6.3.58) 'he grinds with water'; तैलपेषं पिनष्टि 'he grinds with oil'. Here also (3.4.46) applies, and an appropriate verb from the same root is employed to govern the gerund. Kashika ------- करण इत्येव। स्निह्यते येन तत् स्नेहनम्। स्नेहनवाचिनि करण उपपदे पिषेर्धातोर्णमुल् प्रत्ययो भवति। उदपेषं पिनष्टि। तैलपेषं पिनष्टि। तैलेन पिनष्टीत्यर्थः॥ Siddhanta Kaumudi ----------------- स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ Tattvabodhini ------------- **स्नेहने पिषः** - स्नेहने ।शुष्कचूर्णे॑ति सूत्रे एव स्नेहनग्रहणं न कृतम् । तत्र हिकर्मणि दृशिविदो॑रिति सूत्रात्कर्मणीत्यनुवर्तते, इह तु पूर्वसूत्रात्करण इत्यनुवर्तनीयमिति । Padamanjari ----------- व्याख्यानात्स्नेहने इत्यर्थग्रहणमित्याह - स्नेहनवाचिनीति । उदपेषमिति ।'पेषंवासवाहनधिषु च' इत्युदकस्योदभावः ।'शुष्कचूर्ण' इत्यत्र स्नेहनग्रहणं न कृतम्, कर्मणि तत्र प्रत्ययः, इह तु करणे ॥ Nyaas ----- `स्नेहनवाचिनि` इत्यनेन `स्नेहने` इत्यस्यार्थमाचष्टे॥ Prakriyasarvasvam ----------------- स्नेहार्थे करणे पूर्वे पिषेर्णमुल् । तैलपेषं पिनष्टि । जलपेषं पिनष्टि । द्रवद्रव्यं विना पेषणसम्भवात् तैलादेः करणत्वम् ॥