34011: दृशे विख्ये च ==================== **Padacheda:** दृशे | S | 7 | 1 | विख्ये | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The words 1. दृशे 2. विख्ये are anomalous Vedic Infinitives. Vasu English Translation ------------------------ The words 1. दृशे 2. विख्ये are anomalous Vedic Infinitives. Thus दृशे विश्वाय सूर्यम् (*Rig*. I.50.1) द्रष्टुम् । विख्ये त्वा हरामि = विख्यातुम् । Kashika ------- तुमर्थे छन्दसीत्येव। दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते। दृशेः केप्रत्ययः। दृ॒शे विश्वा॑य॒ सूर्य॑म् (ऋ०१.५०.१)। द्रष्टुम्। विख्ये त्वा हरामि। विख्यातुम्॥ Siddhanta Kaumudi ----------------- द्रष्टुं विख्यातुमित्यर्थः ॥ Balamanorama ------------ **दृशे विख्ये च** - अथाशीर्लिङि विशेषमाह — लिङाशिषि ।लि॑ङिति लुप्तषष्ठीकं पदम् । तिङ्शित्सार्वधातुमित्यतस्तिङित्यनुवर्तते । तदाह — आशिषि लिङस्तिङिति । सार्वधातुकसंज्ञाऽपवादोऽयम् । ततश्च सार्वधातुकसंज्ञाकार्यं शबादि न भवति । Padamanjari ----------- योगविभागश्चिन्त्यप्रयोजनः ॥ Nyaas ----- `दृशे` इति। दृशेः केप्रत्ययः। `विख्ये` इति। विपूर्वाच्चक्षिङ ख्यातेर्वा केप्रत्ययो निपात्यते॥ Prakriyasarvasvam ----------------- द्वौ तुमर्थौ । सूर्यं दृशे । विख्ये त्वा हरामि । विख्यातुमित्यर्थः ।