33119: गोचरसंचरवहव्रजव्यजापणनिगमाश्च¶
Padacheda: गोचर-संचर-वह-व्रज-व्यज-आपण-निगमाः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the words 1. गोचर 2. संचर 3. वह 4. व्रज 5. व्यज 6. आपण 7. निगम are anomalous.
Vasu English Translation¶
And the words 1. गोचर 2. संचर 3. वह 4. व्रज 5. व्यज 6. आपण 7. निगम are anomalous. These words are irregularly formed by the affix घ with the same force as in the last aphorism. This is an apavada or exception to rule (3.3.121), by which after roots ending in consonants, the affix घञ् is added. Thus गोचरः ‘pasturage’, (lit. that in which the cows graze); सञ्चरः ‘a passage’, (lit. through which they move ); वहः ‘a vehicle’ (lit. by which men are carried); व्रजः ‘a cow-pen’ (by which they go); व्यजः ‘a fan’ (by which they move the air); the anomaly in this consists in not replacing the अज् of व्यज् (वि + अज्) by the substitute वी as required by sutra (2.4.56); आपण ‘a market’ (lit. that in which men come and traffic); निगमः ‘the Veda’, ‘a market’ (that into which they enter).
The force of the word च in the aphorism is to include other words also, which have not been already mentioned. Thus कषः, निकषः ‘a touch-stone’, (lit. that on which they rub).
Bhashya¶
गोचरसंचरवहव्रजव्यजापणनिगमाश्च (1104) (64 घप्रत्ययान्तनिपातनसूत्रम्॥ 3 । 3 । 1 आदृ33) (4071 वार्तिकम्॥ 1 ॥) - गोचरादीनामग्रहणं प्रायवचनाद् यथा कषः निकष इति- (भाष्यम्) गोचरादीनां ग्रहणं शक्यमकर्तुम्॥ घञ्ञ् कस्मान्न भवति? प्रायवचनाद् यथा कषः निकष इति। प्रायवचनाद् घञ्ञ् न भवति॥ गोचरसंचर॥ 119 ॥
Kashika¶
गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे। हलश्च (३.३.१२१) इति घञं वक्ष्यति, तस्यायमपवादः। गावश्चरन्त्यस्मिन्निति गोचरः। संचरन्तेऽनेनेति संचरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनाद् अजेर्व्यघञपोः (२.४.५६) इति वीभावो न भवति। एत्य तस्मिन्नापणन्त इत्यापणः। निगच्छन्ति तस्मिन्निति निगमः। चकारोऽनुक्तसमुच्चयार्थः। कषः। निकषः॥
Siddhanta Kaumudi¶
घान्ता निपात्यन्ते । हलश्च (SK3300) इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥
Padamanjari¶
गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति ।’समस्तृतीयायुक्तात्’ इत्यात्मनेपदम् । सञ्चरःउमार्गः, वहःउ स्कन्धः, व्रजःउगोष्ठम्, व्यजःउतालवृन्तम्, आपणःउ पण्यस्थानम्, निगमःउच्छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः ।’हलश्च’ इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्तते, यथा - कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ॥
Nyaas¶
पूर्वस्मिन्नेवार्थे इति। करणेऽधिकरणे च। ननु पूर्वसूत्रेणैव गोचरादिषु घः सिद्धः, तत्किमित्ययं योग आरभ्यते? इत्याह - हलश्च इत्यादि। ननु च प्रत्ययग्रहणं तत्रानुवर्तिष्यते, तेन गोचरादिषु घञ् भविष्यति? प्रतिपत्तिगौरवं तु स्यात; प्रायग्रहणानुवृत्तेरज्ञापकत्वात्॥
Prakriyasarvasvam¶
हलन्तत्वेऽपि धान्ता एते । गोचरो नेत्रादिविषयः पशुचरणदेशो वा । सञ्चरो मार्गः । व्यजो व्यजनम् । चकारादाकषनिकषादि । द्वौ कषणपाषाणार्थौ ॥
Sutra Prayogas¶
संचरः (रघुवंशम्): गोचरसंचर- इत्यादिना घप्रत्ययान्तो निपातः।
दर्शितसंचराः (कुमारसम्भवम्): गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च इति घप्रत्ययान्तो निपातः।
अ-गोचरम् (भट्टिकाव्यम्): गोचरसञ्चरवहव्रजव्यजापणनिगमाः इति गोचर इत्यत्र निपातनम्।
पाप-गोचरमात्मानमशोचन्वानरा (भट्टिकाव्यम्): गोचर-सञ्चर इति इत्यधिकरणे निपातितः।
अ-सुलभ-हरि-संचारं (भट्टिकाव्यम्): गोचर-संचर इति टच् ।