33119: गोचरसंचरवहव्रजव्यजापणनिगमाश्च ==================================== **Padacheda:** गोचर-संचर-वह-व्रज-व्यज-आपण-निगमाः | S | 1 | 3 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And the words 1. गोचर 2. संचर 3. वह 4. व्रज 5. व्यज 6. आपण 7. निगम are anomalous. Vasu English Translation ------------------------ And the words 1. गोचर 2. संचर 3. वह 4. व्रज 5. व्यज 6. आपण 7. निगम are anomalous. These words are irregularly formed by the affix घ with the same force as in the last aphorism. This is an *apavada* or exception to rule (3.3.121), by which after roots ending in consonants, the affix घञ् is added. Thus गोचरः 'pasturage', (lit. that in which the cows graze); सञ्चरः 'a passage', (lit. through which they move ); वहः 'a vehicle' (lit. by which men are carried); व्रजः 'a cow-pen' (by which they go); व्यजः 'a fan' (by which they move the air); the anomaly in this consists in not replacing the अज् of व्यज् (वि + अज्) by the substitute वी as required by *sutra* (2.4.56); आपण 'a market' (lit. that in which men come and traffic); निगमः 'the *Veda*', 'a market' (that into which they enter). The force of the word च in the aphorism is to include other words also, which have not been already mentioned. Thus कषः, निकषः 'a touch-stone', (lit. that on which they rub). Bhashya ------- गोचरसंचरवहव्रजव्यजापणनिगमाश्च (1104) (64 घप्रत्ययान्तनिपातनसूत्रम्॥ 3 । 3 । 1 आदृ33) (4071 वार्तिकम्॥ 1 ॥) - गोचरादीनामग्रहणं प्रायवचनाद् यथा कषः निकष इति- (भाष्यम्) गोचरादीनां ग्रहणं शक्यमकर्तुम्॥ घञ्ञ् कस्मान्न भवति? प्रायवचनाद् यथा कषः निकष इति। प्रायवचनाद् घञ्ञ् न भवति॥ गोचरसंचर॥ 119 ॥ Kashika ------- गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे। **हलश्च** (३.३.१२१) इति घञं वक्ष्यति, तस्यायमपवादः। गावश्चरन्त्यस्मिन्निति गोचरः। संचरन्तेऽनेनेति संचरः। वहन्ति तेन वहः। व्रजन्ति तेन व्रजः। व्यजन्ति तेन व्यजः। निपातनाद् **अजेर्व्यघञपोः** (२.४.५६) इति वीभावो न भवति। एत्य तस्मिन्नापणन्त इत्यापणः। निगच्छन्ति तस्मिन्निति निगमः। चकारोऽनुक्तसमुच्चयार्थः। कषः। निकषः॥ Siddhanta Kaumudi ----------------- घान्ता निपात्यन्ते । हलश्च (SK3300) इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥ Padamanjari ----------- गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति ।'समस्तृतीयायुक्तात्' इत्यात्मनेपदम् । सञ्चरःउमार्गः, वहःउ स्कन्धः, व्रजःउगोष्ठम्, व्यजःउतालवृन्तम्, आपणःउ पण्यस्थानम्, निगमःउच्छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः ।'हलश्च' इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्तते, यथा - कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ॥ Nyaas ----- `पूर्वस्मिन्नेवार्थे` इति। करणेऽधिकरणे च। ननु पूर्वसूत्रेणैव गोचरादिषु घः सिद्धः, तत्किमित्ययं योग आरभ्यते? इत्याह - `हलश्च` इत्यादि। ननु च प्रत्ययग्रहणं तत्रानुवर्तिष्यते, तेन गोचरादिषु घञ् भविष्यति? प्रतिपत्तिगौरवं तु स्यात; प्रायग्रहणानुवृत्तेरज्ञापकत्वात्॥ Prakriyasarvasvam ----------------- हलन्तत्वेऽपि धान्ता एते । गोचरो नेत्रादिविषयः पशुचरणदेशो वा । सञ्चरो मार्गः । व्यजो व्यजनम् । चकारादाकषनिकषादि । द्वौ कषणपाषाणार्थौ ॥ Sutra Prayogas -------------- * **संचरः** (रघुवंशम्): `गोचरसंचर-` इत्यादिना घप्रत्ययान्तो निपातः। * **दर्शितसंचराः** (कुमारसम्भवम्): `गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च` इति घप्रत्ययान्तो निपातः। * **अ-गोचरम्** (भट्टिकाव्यम्): `गोचरसञ्चरवहव्रजव्यजापणनिगमाः` इति गोचर इत्यत्र निपातनम्। * **पाप-गोचरमात्मानमशोचन्वानरा** (भट्टिकाव्यम्): `गोचर-सञ्चर` इति इत्यधिकरणे निपातितः। * **अ-सुलभ-हरि-संचारं** (भट्टिकाव्यम्): `गोचर-संचर` इति टच् ।