33118: पुंसि संज्ञायां घः प्रायेण

Padacheda: पुंसि | S | 7 | 1 |

संज्ञायाम् | S | 7 | 1 |

घः | S | 1 | 1 |

प्रायेण | S | 3 | 1 |

Sutrartha


Vasu English Summary

The affix घ generally comes in the sense of an instrument or location after a root, when the word to be formed is a name and is in the masculine gender.

Vasu English Translation

The affix घ generally comes in the sense of an instrument or location after a root, when the word to be formed is a name and is in the masculine gender. The force of the word प्रायेण ‘generally’ is to show that this rule is not a universal rule. Thus दन्तच्छदः ‘the lip’. छादि ‘to cover’ + घ (6.4.96) = छद lit. ‘that by which the teeth are covered’; so also उरच्छद ‘a breast plate’; घटः । These denote instruments.

So also in denoting ‘location’. Thus आ + कृ + घ = आकरः ‘a mine’, so named because men work (akurvanti) in it, आलयः ‘a house’ that in which men settle down.

Why do we say ‘in the masculine gender’? Observe प्रसाधनम् ‘a comb’; (lit. that by which men decorate). Here the affix is lyut.

Why do we say ‘when the complete word so formed is merely an appellative’? Observe प्रहरणो दण्डः ‘the beating stick’.

The indicatory घ् is merely qualifying; for the application of sutra (6.4.96) by which after the causative छादि, when घ is added, the long आ is shortened.

Kashika

करणाधिकरणयोरित्येव। पुँल्लिङ्गयोः करणाधिकरणयोरभिधेययोर्धातोर्घः प्रत्ययो भवति, समुदायेन चेत् संज्ञा गम्यते। प्रायग्रहणमकार्त्स्न्यार्थम्। दन्तच्छदः। उरश्छदः पटः। अधिकरणे खल्वपि — एत्य तस्मिन् कुर्वन्ति इत्याकरः। आलयः। पुंसीति किम्? प्रसाधनम्। संज्ञायामिति किम्? प्रहरणो दण्डः। घकारः छादेर्घे० (६.४.९६) इति विशेषणार्थः॥

Padamanjari

दन्तच्छद इति ।’च्छद आवरणे’ चुरादिः’छादेर्घे’ द्व्युपसर्गस्यऽ इति ह्रस्वः । एत्यास्मिन्कुर्वन्ति व्यवहारमित्याकरःउ उत्पत्तिस्थानम् ॥

Nyaas

समुदायेण चेत् इत्यादि। प्रकृतिप्रत्ययसमुदायेन यदि संज्ञा गम्यत एवं प्रत्ययो भवति, नान्यथा। अकार्त्स्न्यार्थम् इति। अकार्त्स्न्यम् = असाकल्यम्, प्रयोजनमर्थो यस्य तत् तथोक्तम्। एतेनाकृत्स्नविषयतां प्रत्ययस्य दर्शयति। दन्तच्छदः इति। छद अपवारणे (धातुपाठः-1935), चुरादिणिच्। छादेर्घेऽद्वयुपसर्गस्य (6.4.96) इति ह्रस्वः, पूर्ववत् समासः। प्रसाधनम्िति। `राध साध संसिद्धौ (धातुपाठः-1262), 1263), अस्माद्धेतुमण्ण्यन्तात् पूर्वसूत्रेण करणे ल्युट्, `कुगतिप्रादयः (2.2.18) इति समासः॥

Prakriyasarvasvam

केषाञ्चिद् धातूनां पुंसि नाम्नि करणाधिकरणयोरर्थयोर्घः स्यात् । स्मरत्यनेनेति स्मरः । क्रियते रत्नादिकमत्रेत्याकरः । आलयः । छादेर्ण्यन्तात् करणे घः । णिलोपः । छाद् अ ॥

Sutra Prayogas

  • परिच्छदः (रघुवंशम्): पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः।

  • तनुच्छदम् (रघुवंशम्): पुंसि संज्ञायां घः प्रायेण इति घः।

  • दशनच्छदं (कुमारसम्भवम्): पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः।

  • परिच्छदानाम (किरातार्जुनीयम्): पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः।

  • भरस्य (शिशुपालवधम्): पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः।

  • मुखच्छदपटसादृशीं (शिशुपालवधम्): पुंसि संज्ञायां घः प्रायेण इति घप्रत्ययः।

  • घनेन (भट्टिकाव्यम्): पुंसि संज्ञायां घः इति करणे घः।

  • अशुभाऽऽकरम् (भट्टिकाव्यम्): पुंसि संज्ञायां घः इति तंत्र हि करणाधिकरणयोरिति वर्तते।