33120: अवे तॄस्त्रोर्घञ्

Padacheda: अवे | S | 7 | 1 |

तॄ-स्त्रोः | S | 6 | 2 |

घञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the roots 1. तॄ ‘to cross’ 2. स्तॄ ‘to spread, to cover’, when the उपसर्ग अव is in composition with them and when the word so formed is an appellative related to the verb either as an instrument or as a location.

Vasu English Translation

The affix घञ् comes after the roots 1. तॄ ‘to cross’ 2. स्तॄ ‘to spread, to cover’, when the उपसर्ग अव is in composition with them and when the word so formed is an appellative related to the verb either as an instrument or as a location. This supersedes घ । The ञ् is indicatory and causes the vriddhi of ॠ (7.2.115) and is also for the sake of regulating the accent (6.1.195), (6.1.197). The indicatory घ् is useful in the subsequent aphorism where it changes the palatals into gutturals. Thus अवतारः ‘the descent (or incarnation of a diety); अवस्तारः ‘a screen round a tent’.

How do we apply अवतार also in phrases like अवतारो नद्याः ‘the descent of rivers’, for here the word avatara is not an appellative? This use is also allowed, because the anuvritti of the word प्राय is understood here also; so that those words avatara &c. may be employed in senses other than appellative.

Kashika

अव उपपदे तरतेः स्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ् प्रत्ययो भवति। घस्यापवादः। ञकारो वृद्ध्यर्थः, स्वरार्थश्च। घकार उत्तरत्र कुत्वार्थः। अवतारः। अवस्तारः। कथमवतारो नद्याः, न हीयं संज्ञा? प्रायानुवृत्तेरसंज्ञायामपि भवति॥

Siddhanta Kaumudi

अवतारः कूपादेः । अवस्तारो जवनिका ॥

Laghu Siddhanta Kaumudi

अवतारः कूपादेः। अवस्तारो जवनिका॥

Tattvabodhini

अवे तॄस्त्रोर्घञ् - अवे । अवे उपपदे तृस्त-डभ्यां करणाधिकारणयोः पुंसि संज्ञायां घञ्स्यात् । घस्यांपवादः ।

Padamanjari

अवतारःउरूपादिः, अवस्तारःउजवनिकादिः । नद्यवतारःउतीर्थम् । प्रायेणग्रहणानुवृतेरसंज्ञायामपि भवतीति । ननु घञ् विधेयः प्रधानम्, तस्य प्रायग्रहणमुपाधिः, ततश्च संज्ञायामेव क्वचिन्न भवतीत्यर्थः स्यात् ? एवं मन्यते - संज्ञायामित्युपाधेरेव प्रायग्रहणमुपाधिः । उपादेरुपाधिर्भवति, विशेषणस्यैव वा विशेषणमिति तु नाश्रीयते; लक्ष्यानुरोधादिति ॥

Nyaas

स्तृणातेः`इति। `स्तृञ् आच्छादने (धातुपाठः-1484) इत्यस्मात्। प्रायानुवृत्तेः इत्यादि। प्रायशब्दस्यानुवृत्तौ सत्यामेव उपपदे तृस्त्रोर्घञ्प्रत्ययो भवति संज्ञायां प्रायेणोपधिभूतायामित्येषोऽर्थो लभ्यते। `न संज्ञायाम्िति। अस्योपाधेः प्रायिकत्वात् क्वचिदसंज्ञायामपि भवति॥

Prakriyasarvasvam

अनयोर्नाम्न्यनाम्न्यपि घञेव । अवतारः । अवस्तारः । ‘त्रो वे’ति भोजोक्तेरवतरोऽपि ॥

Sutra Prayogas

  • नरकस्याऽवतारोऽयं (भट्टिकाव्यम्): अवे दस्त्रोर्घन् इति स एवायं नरकस्यावतारः प्रत्यक्षो ऽस्माकमागतः।