33113: कृत्यल्युटो बहुलम्

Padacheda: कृत्यल्युटः | S | 1 | 3 |

बहुलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affixes called कृत्य – कृत्याः प्राङ् ण्वुलः (3.1.95), and the affix ल्युट् , are diversely applicable and have other senses than those taught before.

Vasu English Translation

The affixes called कृत्य – कृत्याः प्राङ् ण्वुलः (3.1.95), and the affix ल्युट् , are diversely applicable and have other senses than those taught before. The anuvritti of the phrases ‘when denoting action’ and ‘when the relation of the word formed to its parent verb is not that of an agent’, which began with sutras (3.3.18) and (3.3.19), does not extend to this sutra or further. By saying ‘diversely’ we mean that they occur in other places than those where ordained by the rules. Thus the kritya affixes are ordained to come when ‘act’ or ‘object’ is to be expressed, but they come also when the karaka is other than the objective. Thus स्नानीयं चूर्णम् ‘powder for bathing’; दानीयो ब्राह्मणः ‘a Brahmana to whom a donation is to be made’. In the first of these examples the ‘powder’ is the ‘instrument’ expressible by the 3rd. case, and in the second the ‘Brahmana’ is the recipient expressible by the fourth case; so that in both cases the affix is applied without any express rule.

Similarly, ल्युट् is ordained to come in denoting instrument, location, and a verbal noun (3.3.115) and (3.3.117). But it is applied in other senses also. Thus राजभोजनाः शालयः ‘halls for the eating of kings’; राजाच्छादनानि वासांसि ‘dresses to be worn by the king’.

By using the word ‘diversely’, even the krit affixes are applied in places other than those expressly ordained. Thus, पादाभ्याम् ह्रियते = पादहारकः । गले चोप्यते = गलेचोपकः । For accent see (6.2.150).

Bhashya

कृत्यल्युटो बहुलम् (1098) (536 इष्टार्थविधिसूत्रम्॥ 3 । 3। 1 । आ.32) (4070 वार्तिकम्॥ 1 ॥) - कृतो बहुलं पादहारकाद्यर्थम्- (भाष्यम्) कृतो बहुलमिति वक्तव्यम्। (किमर्थम्?) पादहारकाद्यर्थम्। पादाभ्यां हियते पदाहारकः। गले चोप्यते गलेचोपकः। श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन॥ कृत्यल्युटो बहुलम्॥ 113 ॥

Kashika

भावेकर्तरि च कारक इति निवृत्तम्। कृत्यसंज्ञकाः प्रत्यया ल्युट् च बहुलमर्थेषु भवन्ति। यत्र विहितास्ततोऽन्यत्रापि भवन्ति। भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति। स्नानीयं चूर्णम्। दानीयो ब्राह्मणः। करणाधिकरणयोर्भावे च ल्युट्। अन्यत्रापि भवति। अपसेचनम्। अवस्रावणम्। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। प्रस्कन्दनम्। प्रपतनम्। बहुलग्रहणादन्येऽपि कृतो यथाप्राप्तमभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः॥

Siddhanta Kaumudi

स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥

Laghu Siddhanta Kaumudi

क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥ स्नात्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः॥

Balamanorama

कृत्यल्युटो बहुलम् - कृत्यल्युटो । याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः ।स्नानीयमिति । करणे अनीयर् । दानीय इति । संप्रदाने अनीयर् । भाष्ये तुकृतो बहुलमिति वक्तव्य॑मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः । कर्मणि ण्वुल् । आओऽग्नीनाधास्यमानेन । अनद्यतने भविष्यति लृडित्युदाहृतम् ।

Padamanjari

स्नानीयमिति । करणे कृत्यः । दानीय इति । संप्रदाने अवसेचनादौ कर्मणि ल्युट् । प्रस्कन्दनः, प्रपतन इति । कर्तरि । बहुलग्रहणं न कर्तव्यम्, आरम्भसामर्थ्यादेव कृत्यल्युटो यत्र विहितास्ततोऽन्यत्र भविष्यन्ति, ततो बहुलग्रहणात् कृन्मात्रस्य स्वार्थव्यभिचारः साधितो भवति ।’तयोरेव कृत्यक्तखलर्थाः’ ‘कर्तरि कृत्’ इत्ययं त्वर्थनिर्देशः’बाहुल्याद्भावादिषु भवन्ति, क्वचिदेव त्वन्यत्र’ इति ज्ञापनार्थः । पादहारक इति । कर्मणि ण्वुलि पञ्चम्यन्तस्य साधनं कृतेति समासः । गलेचोपक इति । ठमूईर्द्धमस्तकात्ऽ इत्यलुक् ॥

Nyaas

यत्र विहितास्ततोऽन्यत्रापि भवन्ति इति। यद्येवम्, तयोरेव कृत्यक्तखलर्थाः (3.4.70) इत्येवमादेरर्थनिर्देशस्यानर्थकत्वं जायते? नैतदस्ति; योगतो हि कृत्यादयो भावादिष्वर्थेष्विष्यन्ते, कारकान्तरे त्वल्पः। सा च तथा तेषां वृत्तिरनर्थनिर्देशे सति सिध्यतीति कुतस्तस्यानर्थक्यम् ! स्नानीयम् इति। करणे कृत्यः। दानीयः`इति। दीयते तस्मै इति सम्प्रदाने। `अपसेचनम् इति। अपसिच्यते तदिति कर्मणि ल्युट्। अवरुआआवणम् इति। अवरुआआव्यते तदिति `सृ गतौ (धातुपाठः-935) इत्यस्माण्ण्यन्तात् कर्मणि ल्युट्। भुज्यतैति भोजनाः। आच्छाद्यन्त इति आच्छादनानि। कर्मण्येव ल्युट्। राज्ञो भोजना राज्ञ आच्छादनानीति षष्ठीसमासः। प्रस्कन्दनम्, प्रपतनम्िति। प्रस्कन्दति, प्रपतत्यस्मादित्यपादाने ल्युट्।अथ बहुलग्रहणं किमर्थम्? यावता सूत्रारम्भसामर्थ्यादेव कृत्युल्युटो यत्र विहिता स्ततोऽन्यत्रापि प्रायेण भवन्तीत्येषोऽर्थो विज्ञायत एवेत्यत आह - `बहुलग्रहणात् इत्यादि। एतेनान्येऽपि कृतो यत्र विहितास्ततोऽन्यत्राप्यभिधेय इष्यन्ते, तच्च बहुलग्रहणात् सिध्यति। अतो बहुलग्रहणं कृतमिति सूचयति। `पादहारकः`इति। कर्तरि ण्वुल् विहितो बहुलग्रहणादिह कर्मणि भवति॥

Prakriyasarvasvam

कृत्याश्च ल्युट् च बहुलं स्युः उक्तादन्यत्रार्थेऽपि स्युरित्यर्थः । ततश्च रमयतीति रमणीयः । रम्यः । ⁴दमनीया योषित् । दीपयतीति दीपनीयमौषधम् । इत्यादि कर्तरि । एवं मदसाधनं मद्यम् । तथा स्थानीयः चूर्णम् । यानीयोऽश्वः । दीयतेऽस्मा इति दानीयो विप्रः । समावृत्यते⁵ऽस्मादिति समावर्तनीयो गुरुः । उद्वेजनीयः खलः । तिष्ठन्त्यस्मिन्निति स्थेयो निर्णेता । स्थानीयं नगरम् । शयनीयम् । इत्यादि ।

Sutra Prayogas

  • शयनीयम् (रघुवंशम्): कृत्यल्युटो बहुलम् इत्यधिकरणार्थेऽनीयर्प्रत्ययः।

  • शत्रुघ्ने (रघुवंशम्): कृत्यल्युटो बहुलम् इति बहुलग्रहणाद्यथेष्टसिद्धिः।

  • स्नानीय (रघुवंशम्): कृत्यल्युटो बहुलम् इति करणेऽनीयर्प्रत्ययः।

  • स्मरशासनः (कुमारसम्भवम्): कृत्यल्युटो बहुलम् इति बहुलग्रहणात् कर्तरि ल्युट्।

  • शयनीयलक्ष्मीम् (किरातार्जुनीयम्): कृत्यल्युटो बहुलम् इति बहुलग्रहणादधिकरणे अनीयरप्रत्ययः।

  • विपक्षचित्तोन्मथना (किरातार्जुनीयम्): कृत्यल्युटो बहुलम् इति बहुलग्रहणात् कर्तरि ल्युट्।

  • रम्यतां (किरातार्जुनीयम्): कृत्यल्युटो बहुलम् इत्यधिकरणार्थः।

  • समरन्तव्यसंयतः (किरातार्जुनीयम्): कृत्यल्युटो बहुलम् इति बहुलग्रहणाद्भावे तव्यप्रत्ययः।

  • शयनीये (शिशुपालवधम्): कृत्यल्युटो बहुलम् इत्यधिकरणेऽनीयर् ।

  • शयनीय (शिशुपालवधम्): कृत्यल्युटो बहुलम् इत्यधिकरणेऽनीयर् ।

  • संतर्पणो (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि ल्युट् ।

  • भीषणे (भट्टिकाव्यम्): तदन्तात् कृत्यल्युटो बहुलम् इति कर्तरि ल्युट्।

  • भूमि-वर्ध्नौ (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि ल्युट् ।

  • सत्य-वद्यो (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि यत् ।

  • अशनीयमिवाशंसुर्महानायाद-शोभनः (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कृत्यः।

  • दर्शनैः (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि ल्युट्।

  • विश्रम्भोत्पादनं (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि ल्युट्।

  • समिद्ध-शरणा (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि ल्युट्।

  • सन्धान-करणीं (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति ल्युट्।

  • दुषण (भट्टिकाव्यम्): कृत्यल्युटो बहुलम् इति कर्तरि ल्युट्।