33114: नपुंसके भावे क्तः¶
Padacheda: नपुंसके | S | 7 | 1 |
भावे | S | 7 | 1 |
क्तः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्त is added to the root when action is expressed, the word being in the neuter gender.
Vasu English Translation¶
The affix क्त is added to the root when action is expressed, the word being in the neuter gender. These are neuter abstract nouns: thus, हसितम् ‘laugh’; जल्पितं ‘speech’; शायितं ‘sleeping’. So also गतं, सहितं &c.
Kashika¶
नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति। हसितम्। सहितम्। जल्पितम्॥
Siddhanta Kaumudi¶
क्लीबत्व विशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ॥
Balamanorama¶
नपुंसके भावे क्तः - नुपंसके भावे क्तः । कालसामान्ये इति । अस्य वर्तमानाद्यधिकारानन्तर्भावादिति भावः । अकर्मकेभ्य एव नपुंसके भावे क्तः, नतु सकर्मकादितिणेरध्ययने वृत्त॑मिति सूत्रे भाष्यकैयटयोः स्पष्टम् । तद्ध्वनयन्नकर्मकेभ्य एवोदाहरति — जल्पितमित्यादि । गतं भुक्तमित्यादौ त्वविक्षितकर्मकत्वादकर्मककत्वं बोध्यम् । अत एव गतं हंसस्य, भुक्तमोदनस्येत्यादौ शेषत्वविक्षया षष्ठीति दिक् ।
Padamanjari¶
ननु च’तयोरेव कृत्यक्तखलर्थाः’ इति नपुंसके भावे क्तः सिद्धः ? सत्यं भूते सिद्धः, कालसामान्ये तु नपुंसके न प्राप्नोतीत्ययमारम्भः । इह सकर्मकेभ्योऽपि यथा भावे घञादयो भवन्ति - ओदनस्य पाकः, ओदनस्य भोजनमिति, तथायमपि क्तः सकर्मकेभ्यो भावे भवति; अत्राकर्मकेभ्य इत्यवचनादिति केचिदाहुः । अथ तदा कर्मणि का विभक्तिर्भवति ? कृद्योगलक्षणा कर्मणि षष्ठी । सा निष्ठायोगे प्रतिषिध्यते ? नपुंसके भावे उपसंख्यानमिति षष्ठी भविष्यति - ओदनस्य भुक्तमुदकस्य पीतमिति । अस्मिन्पक्ष एतदर्थोप्ययमारम्भः, न हि तयारेवेत्यनेन सकर्मकेभ्यो भावे क्तः सिद्ध्यति । अन्ये तु तयोरेवेत्येतदस्यापि क्तस्य विषयव्यवस्थापकं मन्यन्ते । तद्धि’निष्ठा’ इति विहितस्य क्तस्य भावमर्थं विद्यते, ठकर्मकेभ्यःऽ इति च विषयं व्यवस्थापयति । अस्य तु’भावे क्तः’ इत्यनुवादेनाकमकेभ्य इति विषयं व्यवस्थापयति ॥
Nyaas¶
तयोरेव कृत्यक्तखलर्थाः (3.4.70) इति भावे क्तः सिद्धः। नपुंसके भावेऽपि क्तोऽयं विशेषविहितेन ल्युटा बाध्यत इति योगरम्भः॥
Prakriyasarvasvam¶
<karika>लकारवत् साध्यभावे क्त, पूर्वोक्तो ह्यकर्मकात् । ल्युडादिवत् सिद्धभावे सर्वेभ्यः क्तोऽयमुच्यते ॥ १०२ ॥</karika> यातं वीक्षितम् ॥
Sutra Prayogas¶
तदध्यासितकातराक्ष्या (रघुवंशम्): नपुंसके भावे क्तः इति क्तप्रत्ययः।
प्रहृतं (रघुवंशम्): नपुंसके भावे क्तः इति क्तप्रत्ययः।
रदनोत्कीर्ण (रघुवंशम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
विचिष्टितानि (रघुवंशम्): नपुंसके भावे क्तः इति क्तप्रत्ययः।
स्मरमते (रघुवंशम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
अत्यारूढं (रघुवंशम्): नपुंसके भावे क्तः इति क्तप्रत्ययः।
विचेष्टितानि (कुमारसम्भवम्): नपुंसके भावे क्तः इति क्तः ।
निरीक्षितैः (किरातार्जुनीयम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
दृष्टम् (किरातार्जुनीयम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
प्रवेपितम् (किरातार्जुनीयम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
गतैः (किरातार्जुनीयम्): नपुंसके भावे क्तः इति नपुंसके भावे क्तप्रत्ययः।
प्रयातम् (किरातार्जुनीयम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
अनादृतस्य (किरातार्जुनीयम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
जातम् (शिशुपालवधम्): नपुंसके भावे क्तः इति क्तप्रत्ययः।
स्थितं (शिशुपालवधम्): नपुंसके भावे क्तः इति भावे क्तप्रत्ययः।
सुरतेषु (भट्टिकाव्यम्): नपुंसके भावे क्तः इति क्त-प्रत्ययः।
मन्द-गतः (भट्टिकाव्यम्): नपुंसके भावे क्तः इति आहिताग्नित्वात् परनिपातः।
पराक्रान्तम् (भट्टिकाव्यम्): नपुंसके भावे क्तः इति क्तप्रत्ययः।