33112: आक्रोशे नञ्यनिः¶
Padacheda: आक्रोशे | S | 7 | 1 |
नञि | S | 7 | 1 |
अनिः | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अनि comes after a verb when the particle नञ् is in composition with it and the sense implied is that of ‘cursing’.
Vasu English Translation¶
The affix अनि comes after a verb when the particle नञ् is in composition with it and the sense implied is that of ‘cursing’. The anuvritti of the word ‘optionally’ does not extend to this aphorism. The word आक्रोश means to curse. This supersedes the affixes क्तिन् &c. Thus अकरणिस्ते वृषल भूयात् ‘may failure be to thee, O sinner’! तस्याकरणिरेवास्तु ‘may he be disappointed’.
Why do we say ‘when meaning to curse’? Observe अकृतिस्तस्य कटस्य ‘the non-making of his mat’.
Why do we say ‘when नञ् is in composition’? Observe सृतिस्ते वृषल भूयात् ‘may death be to thee, O! sinner’!
Kashika¶
विभाषेति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति। क्तिन्नादीनामपवादः। अकरणिस्ते वृषल भूयात्। आक्रोश इति किम्? अकृतिस्तस्य कटस्य। नञीति किम्? मृतिस्ते वृषल भूयात्॥
Siddhanta Kaumudi¶
विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् (SK2841) भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-(SK3090) ॥
Tattvabodhini¶
आक्रोशे नञ्यनिः - आक्रोशे । आक्रोशःऋ-शापः । नपुंसके भावे क्तः । ननुतयोरेव कृत्यक्तखलर्थाः॑ इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति, किमनेन पुनर्विधानेनेति चेत् । अत्राहुः — भूते॑ इत्यधिकृत्यनिष्ठा॑ इति सूत्रेण विहितस्य क्तस्य भावोऽर्थःतयोरेवे॑ति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते । एवं च स्वविषये परत्वाद्धञजपां बाधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति । किंच इहभावे चाऽकर्मकेभ्य॑ इत्यस्याऽसन्निधानात्सकर्मकेभ्योऽप्ययं भवति, घञादिवत् ।गतं तिरिश्चीनमनूरुसारथेः॑ इत्यादिदर्शनात् । तथा च नास्त्यत्र शङ्केति । नन्वेवं कृद्योगे कर्मणि द्वितीया स्यात्, कृद्योगलक्षणषष्ठआन लोके॑ति निषेधात् । एवं चघटं कृतं॑ वृक्षं भिन्न॑मित्यादि प्रसज्येत ।अनूरुसारथे॑रित्यत्र तु कर्तरि तृतीया नापद्यते, कारकदृष्टआ निषेधेऽपि शेषत्विवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम् । नपुंसके भावे क्तस्य योगे षष्ठआ उपसङ्ख्यातत्वात्कर्मण द्वितीयया अभावात् । शेषत्बविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्ष#ऐवेत्यस्तु वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्ह तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु । तथा चघटं कृत॑मित्यादि तु न प्रसज्यत एव । क्वचित्तु द्वितीयाऽपि दृश्यतेभ्रान्तं देशमनेकदुर्गविषम॑मि[ती]ति दिक् ।
Padamanjari¶
आक्रेशःउशपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ॥
Prakriyasarvasvam¶
नञ्पूर्वाच्छापविषये भावेऽनिः स्यात् । अजीवनिस्तेऽस्तु ॥ इति स्त्रीलिङ्गाः ॥
Sutra Prayogas¶
अ-जीवनिः (भट्टिकाव्यम्): आक्रोशे नम्यनिः इति एवमुक्त्वा सर्व एव अस्थुः स्थिताः।