33113: कृत्यल्युटो बहुलम् ========================= **Padacheda:** कृत्यल्युटः | S | 1 | 3 | बहुलम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes called कृत्य -- कृत्याः प्राङ् ण्वुलः (3.1.95), and the affix ल्युट् , are diversely applicable and have other senses than those taught before. Vasu English Translation ------------------------ The affixes called कृत्य -- कृत्याः प्राङ् ण्वुलः (3.1.95), and the affix ल्युट् , are diversely applicable and have other senses than those taught before. The *anuvritti* of the phrases 'when denoting action' and 'when the relation of the word formed to its parent verb is not that of an agent', which began with *sutras* (3.3.18) and (3.3.19), does not extend to this *sutra* or further. By saying 'diversely' we mean that they occur in other places than those where ordained by the rules. Thus the *kritya* affixes are ordained to come when 'act' or 'object' is to be expressed, but they come also when the *karaka* is other than the objective. Thus स्नानीयं चूर्णम् 'powder for bathing'; दानीयो ब्राह्मणः 'a *Brahmana* to whom a donation is to be made'. In the first of these examples the 'powder' is the 'instrument' expressible by the 3rd. case, and in the second the '*Brahmana*' is the recipient expressible by the fourth case; so that in both cases the affix is applied without any express rule. Similarly, ल्युट् is ordained to come in denoting instrument, location, and a verbal noun (3.3.115) and (3.3.117). But it is applied in other senses also. Thus राजभोजनाः शालयः 'halls for the eating of kings'; राजाच्छादनानि वासांसि 'dresses to be worn by the king'. By using the word 'diversely', even the *krit* affixes are applied in places other than those expressly ordained. Thus, पादाभ्याम् ह्रियते = पादहारकः । गले चोप्यते = गलेचोपकः । For accent see (6.2.150). Bhashya ------- कृत्यल्युटो बहुलम् (1098) (536 इष्टार्थविधिसूत्रम्॥ 3 । 3। 1 । आ.32) (4070 वार्तिकम्॥ 1 ॥) - कृतो बहुलं पादहारकाद्यर्थम्- (भाष्यम्) कृतो बहुलमिति वक्तव्यम्। (किमर्थम्?) पादहारकाद्यर्थम्। पादाभ्यां हियते पदाहारकः। गले चोप्यते गलेचोपकः। श्वोग्नीनाधास्यमानेन। श्वः सोमेन यक्ष्यमाणेन॥ कृत्यल्युटो बहुलम्॥ 113 ॥ Kashika ------- भावेकर्तरि च कारक इति निवृत्तम्। कृत्यसंज्ञकाः प्रत्यया ल्युट् च बहुलमर्थेषु भवन्ति। यत्र विहितास्ततोऽन्यत्रापि भवन्ति। भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति। स्नानीयं चूर्णम्। दानीयो ब्राह्मणः। करणाधिकरणयोर्भावे च ल्युट्। अन्यत्रापि भवति। अपसेचनम्। अवस्रावणम्। राजभोजनाः शालयः। राजाच्छादनानि वासांसि। प्रस्कन्दनम्। प्रपतनम्। बहुलग्रहणादन्येऽपि कृतो यथाप्राप्तमभिधेयं व्यभिचरन्ति। पादाभ्यां ह्रियते पादहारकः। गले चोप्यते गलेचोपकः॥ Siddhanta Kaumudi ----------------- स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥ Laghu Siddhanta Kaumudi ----------------------- क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव। विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति॥ १॥ स्नात्यनेनेति स्नानीयं चूर्णम्। दीयतेऽस्मै दानीयो विप्रः॥ Balamanorama ------------ **कृत्यल्युटो बहुलम्** - कृत्यल्युटो । याभ्यः प्रृतिभ्यो येष्वर्थेषु विहितास्ततोऽन्यत्रापि स्युरित्यर्थः ।स्नानीयमिति । करणे अनीयर् । दानीय इति । संप्रदाने अनीयर् । भाष्ये तुकृतो बहुलमिति वक्तव्य॑मित्युक्त्वा पादाभ्यां ह्यियते पादहारकः । कर्मणि ण्वुल् । आओऽग्नीनाधास्यमानेन । अनद्यतने भविष्यति लृडित्युदाहृतम् । Padamanjari ----------- स्नानीयमिति । करणे कृत्यः । दानीय इति । संप्रदाने अवसेचनादौ कर्मणि ल्युट् । प्रस्कन्दनः, प्रपतन इति । कर्तरि । बहुलग्रहणं न कर्तव्यम्, आरम्भसामर्थ्यादेव कृत्यल्युटो यत्र विहितास्ततोऽन्यत्र भविष्यन्ति, ततो बहुलग्रहणात् कृन्मात्रस्य स्वार्थव्यभिचारः साधितो भवति ।'तयोरेव कृत्यक्तखलर्थाः' 'कर्तरि कृत्' इत्ययं त्वर्थनिर्देशः'बाहुल्याद्भावादिषु भवन्ति, क्वचिदेव त्वन्यत्र' इति ज्ञापनार्थः । पादहारक इति । कर्मणि ण्वुलि पञ्चम्यन्तस्य साधनं कृतेति समासः । गलेचोपक इति । ठमूईर्द्धमस्तकात्ऽ इत्यलुक् ॥ Nyaas ----- `यत्र विहितास्ततोऽन्यत्रापि भवन्ति` इति। यद्येवम्, **तयोरेव कृत्यक्तखलर्थाः** (3.4.70) इत्येवमादेरर्थनिर्देशस्यानर्थकत्वं जायते? नैतदस्ति; योगतो हि कृत्यादयो भावादिष्वर्थेष्विष्यन्ते, कारकान्तरे त्वल्पः। सा च तथा तेषां वृत्तिरनर्थनिर्देशे सति सिध्यतीति कुतस्तस्यानर्थक्यम् ! `स्नानीयम्` इति। करणे कृत्यः। `दानीयः`इति। दीयते तस्मै इति सम्प्रदाने। `अपसेचनम्` इति। अपसिच्यते तदिति कर्मणि ल्युट्। `अवरुआआवणम्` इति। `अवरुआआव्यते तदिति `सृ गतौ` (धातुपाठः-935) इत्यस्माण्ण्यन्तात् कर्मणि ल्युट्। भुज्यतैति `भोजनाः`। आच्छाद्यन्त इति `आच्छादनानि`। कर्मण्येव ल्युट्। राज्ञो भोजना राज्ञ आच्छादनानीति षष्ठीसमासः। `प्रस्कन्दनम्, प्रपतनम्िति। प्रस्कन्दति, प्रपतत्यस्मादित्यपादाने ल्युट्।अथ बहुलग्रहणं किमर्थम्? यावता सूत्रारम्भसामर्थ्यादेव कृत्युल्युटो यत्र विहिता स्ततोऽन्यत्रापि प्रायेण भवन्तीत्येषोऽर्थो विज्ञायत एवेत्यत आह - `बहुलग्रहणात्` इत्यादि। एतेनान्येऽपि कृतो यत्र विहितास्ततोऽन्यत्राप्यभिधेय इष्यन्ते, तच्च बहुलग्रहणात् सिध्यति। अतो बहुलग्रहणं कृतमिति सूचयति। `पादहारकः`इति। कर्तरि ण्वुल् विहितो बहुलग्रहणादिह कर्मणि भवति॥ Prakriyasarvasvam ----------------- कृत्याश्च ल्युट् च बहुलं स्युः उक्तादन्यत्रार्थेऽपि स्युरित्यर्थः । ततश्च रमयतीति रमणीयः । रम्यः । ⁴दमनीया योषित् । दीपयतीति दीपनीयमौषधम् । इत्यादि कर्तरि । एवं मदसाधनं मद्यम् । तथा स्थानीयः चूर्णम् । यानीयोऽश्वः । दीयतेऽस्मा इति दानीयो विप्रः । समावृत्यते⁵ऽस्मादिति समावर्तनीयो गुरुः । उद्वेजनीयः खलः । तिष्ठन्त्यस्मिन्निति स्थेयो निर्णेता । स्थानीयं नगरम् । शयनीयम् । इत्यादि । Sutra Prayogas -------------- * **शयनीयम्** (रघुवंशम्): `कृत्यल्युटो बहुलम्` इत्यधिकरणार्थेऽनीयर्प्रत्ययः। * **शत्रुघ्ने** (रघुवंशम्): `कृत्यल्युटो बहुलम्` इति बहुलग्रहणाद्यथेष्टसिद्धिः। * **स्नानीय** (रघुवंशम्): `कृत्यल्युटो बहुलम्` इति करणेऽनीयर्प्रत्ययः। * **स्मरशासनः** (कुमारसम्भवम्): `कृत्यल्युटो बहुलम्` इति बहुलग्रहणात् कर्तरि ल्युट्। * **शयनीयलक्ष्मीम्** (किरातार्जुनीयम्): `कृत्यल्युटो बहुलम्` इति बहुलग्रहणादधिकरणे अनीयरप्रत्ययः। * **विपक्षचित्तोन्मथना** (किरातार्जुनीयम्): `कृत्यल्युटो बहुलम्` इति बहुलग्रहणात् कर्तरि ल्युट्। * **रम्यतां** (किरातार्जुनीयम्): `कृत्यल्युटो बहुलम्` इत्यधिकरणार्थः। * **समरन्तव्यसंयतः** (किरातार्जुनीयम्): `कृत्यल्युटो बहुलम्` इति बहुलग्रहणाद्भावे तव्यप्रत्ययः। * **शयनीये** (शिशुपालवधम्): `कृत्यल्युटो बहुलम्` इत्यधिकरणेऽनीयर् । * **शयनीय** (शिशुपालवधम्): `कृत्यल्युटो बहुलम्` इत्यधिकरणेऽनीयर् । * **संतर्पणो** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट् । * **भीषणे** (भट्टिकाव्यम्): `तदन्तात् कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट्। * **भूमि-वर्ध्नौ** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट् । * **सत्य-वद्यो** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि यत् । * **अशनीयमिवाशंसुर्महानायाद-शोभनः** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कृत्यः। * **दर्शनैः** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट्। * **विश्रम्भोत्पादनं** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट्। * **समिद्ध-शरणा** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट्। * **सन्धान-करणीं** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति ल्युट्। * **दुषण** (भट्टिकाव्यम्): `कृत्यल्युटो बहुलम्` इति कर्तरि ल्युट्।