33111: पर्यायार्हर्णोत्पत्तिषु ण्वुच्

Padacheda: पर्याय-अर्ह-ऋण-उत्पत्तिषु | S | 7 | 3 |

ण्वुच् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ण्वुच् comes optionally after a root in the sense of succession, merit, debt or production.

Vasu English Translation

The affix ण्वुच् comes optionally after a root in the sense of succession, merit, debt or production. The word पर्याय means turn or order of succession; अर्ह means worthy of respect; ॠणं means debt owed to another; and उत्पत्ति means birth or production. This rule supersedes क्तिन् and other affixes. Thus: (1) भवतः शयिका ‘your turn of sleeping’; भवतोऽग्रग्रासिका ‘your turn of eating first’. (2) अर्हति भवानिक्षुभक्षिकाम् ‘you deserve to have a meal of sugar and molasses’. (3) इक्षुभक्षिकां मे धारयसि ‘thou owest me a meal of sugar and molasses’; ओदनभोजिकां ‘a meal of rice’; पयः पायिकां ‘a drink of milk’. (4) इक्षुभक्षिका मे उदपादि ।

The word ‘optionally’ is understood in this sutra also; as चिकीर्षोत्पद्यते ।

The forms given by ण्वुल् and ण्वुच् are the same, the difference is only in the accent. (6.1.193) and (6.1.163).

Kashika

पर्यायः परिपाटी क्रमः। अर्हणमर्हः, तद्योग्यता। ऋणं तत्, यत् परस्य धार्यते। उत्पत्तिर्जन्म। एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति। क्तिन्नादीनामपवादः। पर्याये तावत् — भवतः शायिका। भवतोऽग्रग्रासिका। अर्हे — अर्हति भवानिक्षुभक्षिकाम्। ऋणे — इक्षुभक्षिकां मे धारयसि। ओदनभोजिकाम्। पयःपायिकाम्। उत्पत्तौ — इक्षुभक्षिका मे उदपादि। ओदनभोजिका। पयःपायिका। विभाषेत्येव — चिकीर्षोत्पद्यते। ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम्॥

Siddhanta Kaumudi

पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥

Tattvabodhini

पर्यायार्हणोत्पत्तिषु ण्वुच् - परिपाटीति । पट गतौ परिपूर्वः ।इणजादिभ्यः॑ इतीण् ।कृदिकारा॑दिति ङीष् ।

Padamanjari

परिपाटीति । पटेः परिपूर्वात् ठिणजादिभ्यःऽ इति इण् तदन्तात्’कृदिकाराक्तिनः’ इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति ।’धारेरुतमर्णः’ इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यतेउबाध्यते । ग्राममामिकेति । कर्मणि षष्ठयाः समासः । उदपादीति ।’चिण् ते पदः’ इति कर्तरि चिण् । स्वरार्थमिति ।’चितः’ इत्यन्तोदातत्वं यथा स्यात् । ण्वुलि तु’लिति’ इति प्रत्ययात्पूर्वमुदातं स्यात् ॥

Nyaas

क्तिन्नादीनामपवादः`इति। आदिशब्देनाकारादीनाम्। `अग्रगामिका इति। अग्रस्य गामिका। कृद्योगलक्षणायाः कर्मणि षष्ठ्याः समासः। स्वरार्थम् इति। अन्तोदात्तत्वं यथा स्यादित्येवमर्थम्। ण्वुलि हि सति प्रत्ययात् पूर्वमुदात्तः स्यात्॥

Prakriyasarvasvam

एषु चतुर्षु द्योत्येषु भावे ण्वुच् स्यात् । चित्त्वात् स्वरे भेदः । <karika>शायिकाद्य तव प्रापदर्हसि क्षीरपायिकाम् । पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका ॥ १६० ॥</karika>

Sutra Prayogas

  • प्रायोपवेशिकाम् (भट्टिकाव्यम्): पर्यायार्हण इति इत्यादिना ण्वुल्।

  • तवोपशायिका (भट्टिकाव्यम्): पर्यायार्हणोत्पत्तिपु ण्वच् इति ण्वुच् प्रत्ययः।