33112: आक्रोशे नञ्यनिः ====================== **Padacheda:** आक्रोशे | S | 7 | 1 | नञि | S | 7 | 1 | अनिः | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अनि comes after a verb when the particle नञ् is in composition with it and the sense implied is that of 'cursing'. Vasu English Translation ------------------------ The affix अनि comes after a verb when the particle नञ् is in composition with it and the sense implied is that of 'cursing'. The *anuvritti* of the word 'optionally' does not extend to this aphorism. The word आक्रोश means to curse. This supersedes the affixes क्तिन् &c. Thus अकरणिस्ते वृषल भूयात् 'may failure be to thee, O sinner'! तस्याकरणिरेवास्तु 'may he be disappointed'. Why do we say 'when meaning to curse'? Observe अकृतिस्तस्य कटस्य 'the non-making of his mat'. Why do we say 'when नञ् is in composition'? Observe सृतिस्ते वृषल भूयात् 'may death be to thee, O! sinner'! Kashika ------- विभाषेति निवृत्तम्। आक्रोशः शपनम्। आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति। क्तिन्नादीनामपवादः। अकरणिस्ते वृषल भूयात्। आक्रोश इति किम्? अकृतिस्तस्य कटस्य। नञीति किम्? मृतिस्ते वृषल भूयात्॥ Siddhanta Kaumudi ----------------- विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् (SK2841) भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-(SK3090) ॥ Tattvabodhini ------------- **आक्रोशे नञ्यनिः** - आक्रोशे । आक्रोशःऋ-शापः । नपुंसके भावे क्तः । ननुतयोरेव कृत्यक्तखलर्थाः॑ इति लिङ्गत्रयसाधारण्येन भावकर्मणोः कृत्यादिविधानात्तेनैव नपुंसके भावे क्तः सिध्यति, किमनेन पुनर्विधानेनेति चेत् । अत्राहुः — भूते॑ इत्यधिकृत्यनिष्ठा॑ इति सूत्रेण विहितस्य क्तस्य भावोऽर्थःतयोरेवे॑ति सूत्रेण विहितः, अनेन तु कालसामान्ये नपुंसके भावे क्तो विधीयते । एवं च स्वविषये परत्वाद्धञजपां बाधक इति परिशेषादेवैषां पुंविषयत्वं सिध्यति । किंच इहभावे चाऽकर्मकेभ्य॑ इत्यस्याऽसन्निधानात्सकर्मकेभ्योऽप्ययं भवति, घञादिवत् ।गतं तिरिश्चीनमनूरुसारथेः॑ इत्यादिदर्शनात् । तथा च नास्त्यत्र शङ्केति । नन्वेवं कृद्योगे कर्मणि द्वितीया स्यात्, कृद्योगलक्षणषष्ठआन लोके॑ति निषेधात् । एवं चघटं कृतं॑ वृक्षं भिन्न॑मित्यादि प्रसज्येत ।अनूरुसारथे॑रित्यत्र तु कर्तरि तृतीया नापद्यते, कारकदृष्टआ निषेधेऽपि शेषत्विवक्षया षष्ठीति समाधानसंभवादिति चेन्मैवम् । नपुंसके भावे क्तस्य योगे षष्ठआ उपसङ्ख्यातत्वात्कर्मण द्वितीयया अभावात् । शेषत्बविवक्षामाश्रित्य वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्हि तत्प्रामाण्यात्प्रायेण शेषत्वविवक्ष#ऐवेत्यस्तु वार्तिकमिदं प्रत्याख्यातमाकरे इति चेत्तर्ह तत्प्रामाण्यात्प्रायेण शेषत्वविवक्षैवेत्यस्तु । तथा चघटं कृत॑मित्यादि तु न प्रसज्यत एव । क्वचित्तु द्वितीयाऽपि दृश्यतेभ्रान्तं देशमनेकदुर्गविषम॑मि[ती]ति दिक् । Padamanjari ----------- आक्रेशःउशपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ॥ Prakriyasarvasvam ----------------- नञ्पूर्वाच्छापविषये भावेऽनिः स्यात् । अजीवनिस्तेऽस्तु ॥ इति स्त्रीलिङ्गाः ॥ Sutra Prayogas -------------- * **अ-जीवनिः** (भट्टिकाव्यम्): `आक्रोशे नम्यनिः` इति एवमुक्त्वा सर्व एव अस्थुः स्थिताः।