33075: भावेऽनुपसर्गस्य

Padacheda: भावे | S | 7 | 1 |

अनुपसर्गस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The affix अप् comes after the verb ह्वे ‘to call’ and there is the change of the semi-vowel to its corresponding vowel, when the root is without an उपसर्ग and mere action is denoted.

Vasu English Translation

The affix अप् comes after the verb ह्वे ‘to call’ and there is the change of the semi-vowel to its corresponding vowel, when the root is without an उपसर्ग and mere action is denoted. As हवः ‘calling’; हवे हवे सुहवं शूरमिन्द्रम् ।

Why do we say ‘when no upasarga is in composition with it’? Observe आह्वायः । Though the anuvritti of the word भाव was understood in this aphorism from sutra 18, its repetition here shows that the anuvritti of sutra 19. which was running, must not be taken; so that this word applies to agent-karaka also.

Kashika

अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययश्च भवति भावेऽभिधेये। हवः। हवे॑ हवे सु॒हवं॒ शूर॒मिन्द्र॑म् (ऋ० ६.४७.११)। अनुपसर्गस्येति किम्? आह्वायः। भावग्रहणम् अकर्तरि च कारके संज्ञायाम् (३.३.१९) इत्यस्य निरासार्थम्॥

Siddhanta Kaumudi

अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥

Padamanjari

भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा -‘कर्मव्यतिहारे णच् स्त्रियाम्’ इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा - ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते - हूतः, ह्वानम्, हूतिरिति ॥

Nyaas

भावग्रहणम् इत्यादि। ननु च यथा कर्मव्यतिहारे णच् स्त्रियाम् (3.3.43) इत्यत्र द्वये प्रकृते च लक्ष्यदर्शनवशाद्भाव एव प्रत्ययो विज्ञास्यते, तथेहापि, तत्क भावग्रहणेन अकर्तरि च कारके (3.3.19) इत्येतन्निरासार्थेन? सत्यमेतत्; लक्ष्यदर्शनसामर्थ्यादेव प्राप्त एव एवार्थो भावग्रहणेनाख्यायते मन्दबुद्धीनामनुग्रहाय। अथ यथा अभिविधौ भाव इनुण् (3.3.44) इत्यत्र भावे इति वर्तमाने पुनर्भावगर्हणं वासरूपनिरासार्थं विज्ञायते, तथेहापि कस्मान्न विज्ञायते? लक्ष्यदर्शनवशात्। दृश्यते हि क्तादयः - हूतम्, ह्वानम्, हूतिरिति। घञादौ वासरूपेण भावः॥

Prakriyasarvasvam

केवलस्य ह्वाधातोर्भावेऽर्थे प्रसारणमप् च । ह्वानमेव हवः ॥

Sutra Prayogas

  • हवमाप्तानां (भट्टिकाव्यम्): भावे ऽनुपसर्गस्य इत्यप् संप्रसारणं च।