33075: भावेऽनुपसर्गस्य ====================== **Padacheda:** भावे | S | 7 | 1 | अनुपसर्गस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अप् comes after the verb ह्वे 'to call' and there is the change of the semi-vowel to its corresponding vowel, when the root is without an उपसर्ग and mere action is denoted. Vasu English Translation ------------------------ The affix अप् comes after the verb ह्वे 'to call' and there is the change of the semi-vowel to its corresponding vowel, when the root is without an उपसर्ग and mere action is denoted. As हवः 'calling'; हवे हवे सुहवं शूरमिन्द्रम् । Why do we say 'when no *upasarga* is in composition with it'? Observe आह्वायः । Though the *anuvritti* of the word भाव was understood in this aphorism from *sutra* 18, its repetition here shows that the *anuvritti* of *sutra* 19. which was running, must not be taken; so that this word applies to agent-*karaka* also. Kashika ------- अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययश्च भवति भावेऽभिधेये। हवः। हवे॑ हवे सु॒हवं॒ शूर॒मिन्द्र॑म् (ऋ० ६.४७.११)। अनुपसर्गस्येति किम्? आह्वायः। भावग्रहणम् **अकर्तरि च कारके संज्ञायाम्** (३.३.१९) इत्यस्य निरासार्थम्॥ Siddhanta Kaumudi ----------------- अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥ Padamanjari ----------- भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा -'कर्मव्यतिहारे णच् स्त्रियाम्' इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा - ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते - हूतः, ह्वानम्, हूतिरिति ॥ Nyaas ----- `भावग्रहणम्` इत्यादि। ननु च यथा **कर्मव्यतिहारे णच् स्त्रियाम्** (3.3.43) इत्यत्र द्वये प्रकृते च लक्ष्यदर्शनवशाद्भाव एव प्रत्ययो विज्ञास्यते, तथेहापि, तत्क भावग्रहणेन `अकर्तरि च कारके` (3.3.19) इत्येतन्निरासार्थेन? सत्यमेतत्; लक्ष्यदर्शनसामर्थ्यादेव प्राप्त एव एवार्थो भावग्रहणेनाख्यायते मन्दबुद्धीनामनुग्रहाय। अथ यथा **अभिविधौ भाव इनुण्** (3.3.44) इत्यत्र `भावे` इति वर्तमाने पुनर्भावगर्हणं वासरूपनिरासार्थं विज्ञायते, तथेहापि कस्मान्न विज्ञायते? लक्ष्यदर्शनवशात्। दृश्यते हि क्तादयः - हूतम्, ह्वानम्, हूतिरिति। घञादौ वासरूपेण भावः॥ Prakriyasarvasvam ----------------- केवलस्य ह्वाधातोर्भावेऽर्थे प्रसारणमप् च । ह्वानमेव हवः ॥ Sutra Prayogas -------------- * **हवमाप्तानां** (भट्टिकाव्यम्): `भावे ऽनुपसर्गस्य` इत्यप् संप्रसारणं च।