33074: निपानमाहावः

Padacheda: निपानम् | S | 1 | 1 |

आहावः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word आहाव is irregularly formed when meaning ‘a trough’.

Vasu English Translation

The word आहाव is irregularly formed when meaning ‘a trough’. The word आहावः is irregularly formed from ह्वे by the prefix आ, then samprasarana, and the vriddhi of the vowel. Thus आ + ह्वे + अप् = आहु + अ = आहौ + अ = आहावः ‘a trough near a well for watering cattle’. Otherwise आह्वायः ‘calling’. Even in the word आहावः the sense of calling is understood. It is that place near a well, containing water, where cattle are called or invited to drink water.

Kashika

आङ्पूर्वस्य ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययो वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते। निपानमिति किम्? आह्वायः॥

Siddhanta Kaumudi

आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥

Padamanjari

आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह - तत्र हीति ॥

Nyaas

निपिबन्ति तस्मिन्निति निपानमित्यधिकरणे (3.3.117) ल्युट्। कस्मादाहावशब्द उदकाधारे वर्तत इत्याह - तत्र हि इत्यादि। एतेनाहावशब्दस्योदकाधारे प्रवृत्तनिमित्तं दर्शयति॥

Prakriyasarvasvam

गवादयः पानार्थमाहूयन्तेऽत्रेति शिलागर्तमाहावः ॥

Sutra Prayogas

  • आहावमुपलिप्सवः (भट्टिकाव्यम्): निपानमाहावः इति घनि संप्रसारणं निपात्यते वृद्धिरस्त्येव।