33076: हनश्च वधः

Padacheda: हनः | S | 6 | 1 |

च | S | 0 | 0 |

वधः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix अप् comes after the verb हन् ‘to kill’ when without an उपसर्ग , in the sense of mere action and वध is the substitute of हन् ‘to kill’ before this affix.

Vasu English Translation

The affix अप् comes after the verb हन् ‘to kill’ when without an उपसर्ग , in the sense of mere action and वध is the substitute of हन् ‘to kill’ before this affix. Thus वध has udatta accent on its final. The affix अप् which is andatta generally (3.1.4) thus becomes udatta.

As वधश्चोराणाम् ‘the killing of thieves’; वधोदस्यूनाम् ‘the killing of robbers’.

When action is not denoted, the affix घञ् applies; as घातः ‘a blow’.

So also when an upasarga is in composition with it; as प्रघातः, घातः ।

The word च in the aphorism does not connect हन् with the substitute वध, there being no co-ordination, it refers to the affixes under discussion. Thus we have the affix घञ् also; as घातः ‘killing’.

Kashika

भावेऽनुपसर्गस्येति वर्तते। हन्तेर्धातोरनुपसर्गे भावेऽप् प्रत्ययो भवति, तत्संनियोगेन च वधादेशः, स चान्तोदात्तः। तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं भवति। वधश्चोराणाम्। वधो दस्यूनाम्। भाव इत्येव — घातः। अनुपसर्गस्येत्येव — प्रघातः। विघातः। चकारो भिन्नक्रमत्वाद् नादेशेन संबध्यते। किं तर्हि? प्रकृतेन प्रत्ययेन। अप् च, यश्चापरः प्राप्नोति। तेन घञपि भवति। घातो वर्तते॥

Siddhanta Kaumudi

अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥

Tattvabodhini

हनश्च वधः - हनश्च वधः । अन्तोदात्त इति । सूत्रे वधशब्दोऽन्तोदात्ततयोच्चारित इति भावओः ।

Padamanjari

स चान्तोदात इति । सूत्रे तथैवोच्चारणात् । किमर्थं पुनरकारान्तत्वम्, किमर्थं चान्तोदातत्वम्, यावता नायमकारः क्वचिच्छ्र यतोऽतो लोपोऽस्य भवति ? तत्राह - तत्रेति । अन्तोदातत्वे सतीत्यर्थः । उदातनिवृत्तिस्वरेणेति । ठनुदातस्य च यत्रोदातलोपःऽ इत्येव उदातनिवृत्तिनिमितत्वादुदातनिवृत्तिस्वरः । घात इति । अत्र कर्मादौ कारके घञ् । किं तर्हि प्रकृतेन प्रत्ययेनेति । अथ धातोरनन्तरं श्रुतः प्रकृतेन धातुना कस्मान्न सम्बद्धयते - हनश्च वधादेशो भवति, ह्वयतेश्चेति ? पूर्वसूत्रेऽ सम्प्रसारणविधानसामर्थ्यात् ॥

Nyaas

स चान्तोदात्तः इति। सूत्रे वधशब्दस्यान्तोदात्तस्योच्चारणात्। तत्र `इत्यादिनाऽन्तोदात्ते वधादेशे यदिष्टं सिध्यति तद्दर्शयति। अपि कृते **अतो लोपः** (6.4.48) इत्यकारलोपे च **अनुदात्तस्य च यत्रोदात्तलोपः** (6.1.161) इत्यप उदात्तत्वं भवति। `धातः इति। कर्मादौ कारके घञ्,`हनस्तोऽटिण्णलोः` (7.3.32) इति तत्वम्; हो हन्तेः (7.3.54) इत्यादिना कुत्वम्। चकारो भिन्नक्रमत्वात् इत्यादि। चकारो नादेशेन सम्बध्यत इति सम्बन्धः।कस्मान्न सम्बध्यते? भिन्नक्रमत्वात्। यदि हनो वधश्च इत्येष चकारस्य क्रमः; आदेशानन्तरमनुच्चारणात्।तस्मात् भिन्नक्रमत्वात् क्रमभेदान्नादेशेन सम्बध्यते।अपि तु प्रकृतेन प्रत्ययेन। एवञ्च प्रकृतेन सम्बन्धं दर्शयितुमाह - अप् च इत्यादि। अप् प्रत्ययो भवति, चकारावृत्तेर्यः प्राप्नोति स च। तेन घञपि भवति॥

Prakriyasarvasvam

अनुपसर्गाद्धनेरप् वध इत्यादेशश्च स्यात् । अतो लोपः । वधः । चकाराद घञपि । घातः ॥

Sutra Prayogas

  • वधेन (भट्टिकाव्यम्): हनश्च वधः इति अप्प्रत्यये वधादेशः ।

  • वधाय (भट्टिकाव्यम्): हनश्च वधः इति वधादेशः।

  • पिपासा-वध-काङ्क्षिणः (भट्टिकाव्यम्): हनश्च वधः इत्यप् वधादेशश्च।