33074: निपानमाहावः ================== **Padacheda:** निपानम् | S | 1 | 1 | आहावः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word आहाव is irregularly formed when meaning 'a trough'. Vasu English Translation ------------------------ The word आहाव is irregularly formed when meaning 'a trough'. The word आहावः is irregularly formed from ह्वे by the prefix आ, then *samprasarana*, and the *vriddhi* of the vowel. Thus आ + ह्वे + अप् = आहु + अ = आहौ + अ = आहावः 'a trough near a well for watering cattle'. Otherwise आह्वायः 'calling'. Even in the word आहावः the sense of calling is understood. It is that place near a well, containing water, where cattle are called or invited to drink water. Kashika ------- आङ्पूर्वस्य ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययो वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति। निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते। आहावः पशूनाम्। कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते। निपानमिति किम्? आह्वायः॥ Siddhanta Kaumudi ----------------- आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥ Padamanjari ----------- आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह - तत्र हीति ॥ Nyaas ----- निपिबन्ति तस्मिन्निति निपानमित्यधिकरणे (3.3.117) ल्युट्। कस्मादाहावशब्द उदकाधारे वर्तत इत्याह - `तत्र हि` इत्यादि। एतेनाहावशब्दस्योदकाधारे प्रवृत्तनिमित्तं दर्शयति॥ Prakriyasarvasvam ----------------- गवादयः पानार्थमाहूयन्तेऽत्रेति शिलागर्तमाहावः ॥ Sutra Prayogas -------------- * **आहावमुपलिप्सवः** (भट्टिकाव्यम्): `निपानमाहावः` इति घनि संप्रसारणं निपात्यते वृद्धिरस्त्येव।