33073: आङि युद्धे¶
Padacheda: आङि | S | 7 | 1 |
युद्धे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अप् comes after the verb ह्वे ‘to call’ when the word in composition is the उपसर्ग आण् and the semi-vowel of the root is changed into its corresponding vowel, when the word so formed means ‘battle’.
Vasu English Translation¶
The affix अप् comes after the verb ह्वे ‘to call’ when the word in composition is the उपसर्ग आण् and the semi-vowel of the root is changed into its corresponding vowel, when the word so formed means ‘battle’. As आहवः ‘battle’ (where they challenge each other). But otherwise आह्वायः ‘calling’.
Kashika¶
आङ्युपपदे ह्वयतेर्धातोः संप्रासरणमप् प्रत्ययश्च भवति युद्धेऽभिधेये। आहूयन्तेऽस्मिन्नित्याहवः। युद्ध इति किम्? आह्वायः॥
Siddhanta Kaumudi¶
आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ॥
Nyaas¶
`आह्वायः`इति। आतो युक् चिण्कृतोः (7.3.33) इति युक्॥
Prakriyasarvasvam¶
आङि ह्वो युद्धे वाच्ये प्राग्वत् । आह्वयन्तेऽत्रेत्याहवः ॥
Sutra Prayogas¶
महाहवे (शिशुपालवधम्): आङि युद्धे इति ह्वयतेराङ्पूर्वादप्प्रत्ययः संप्रसारणम् ।
आहवाय (भट्टिकाव्यम्): आङि युद्धे इति सम्प्रसारणम्।
आहव-प्रज्ञा (भट्टिकाव्यम्): आङि युद्धे इत्यप् संप्रसारणं च।