33072: ह्वः सम्प्रसारणं च न्यभ्युपविषु¶
Padacheda: ह्वः | S | 5 | 1 |
सम्प्रसारणम् | S | 1 | 1 |
च | S | 0 | 0 |
नि-अभि-उप-वि-षु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix अप् comes after the verb ह्वे ‘to call’ when the preposition नि , अभि , उप and वि are in composition with it and its semi-vowel is changed into the corresponding vowel.
Vasu English Translation¶
The affix अप् comes after the verb ह्वे ‘to call’ when the preposition नि , अभि , उप and वि are in composition with it and its semi-vowel is changed into the corresponding vowel. This debars घञ्. As नि + ह्वे + अप् = नि + हु + अ (6.1.108) = नि + हो + अ (7.3.84) = निहव (6.1.78) ‘invocation’; अभिहवः ‘invocation’; उपहवः ‘invitation’; विहवः ‘calling’. But प्रह्वायः ‘a summons’.
Kashika¶
नि अभि उप वि इत्येतेषूपपदेषु ह्वयतेर्धातोः संप्रसारणमप् प्रत्ययश्च भवति। घञोऽपवादः। निहवः। अभिहवः। विहवः। एतेष्विति किम्? प्रह्वायः॥
Siddhanta Kaumudi¶
निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः ॥
Padamanjari¶
निहव इत्यादि रूपं तु जुहोतेरेव सिद्धम्; अनेकार्थत्वाद्धातूनाम् । अथेभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि निह्वाय इति रूपं मा भूदिति ॥
Nyaas¶
निहवः`इति। `ह्वेञ् {स्पर्धायां शब्दे च - धा।पा} स्पद्र्धायाम् (धातुपाठः-1008)। सम्प्रसारणे कृते गुणावादेशौ। जुहोतेरेव निप्रभृत्युपसर्गपूर्वस्य `निहवः`इत्यादिके रूपचतुष्टये सिद्धे सति ह्वयसेर्निप्रभृतिपूर्वस्य घञ्निवृत्त्यर्थमेवैतद्ववचनम्॥
Prakriyasarvasvam¶
एषु ह्वाधातोः प्रसारणमप् च । हु आ अ । पूर्वरूपम् । हु अ । गुणः । निह्नव इत्यादि । अन्यत्र वज्रि युक् । संह्वायः ॥