32172: स्वपितृषोर्नजिङ् ======================= **Padacheda:** स्वपि-तृषोः | S | 6 | 2 | नजिङ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix नजिङ् comes, in the sense of 'agent having such a habit etc.' after the verbs स्वप् 'to sleep' and तृष् 'to be thirsty'. Vasu English Translation ------------------------ The affix नजिङ् comes, in the sense of 'agent having such a habit etc.' after the verbs स्वप् 'to sleep' and तृष् 'to be thirsty'. The affix नजिङ् comes, in the sense of 'the agents having such a habit &c', after the verbs स्वप् 'to sleep' and तृष 'to be thirsty'. As स्वप् + नजिङ् = स्वप्नज् Ist. sing. स्वप्नक् 'sleeping, drowsy'; तृष्णज् Ist. sing. तृष्णक् 'covetous, thirsty'. Vart:- So also after the verb धृष् 'to insult, be bold'; as, धृष्णज् Ist. sing. धृष्णक् 'bold, impudent'. Kashika ------- छन्दसीति निवृत्तम्। स्वपेस्तृषेश्च तच्छीलादिषु कर्तृषु नजिङ् प्रत्ययो भवति। स्वप् — स्वप्नक् । तृष्णक् ॥ धृषेश्चेति वक्तव्यम्॥ धृष्णक् ॥ Siddhanta Kaumudi ----------------- स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥ Balamanorama ------------ **स्वपितृषोर्नजिङ्** - स्वपितृषोर्नजिङ् । पञ्चम्यर्थे षष्ठी । स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः । जकारादिकार उच्चारणार्थः । ङकार इत् । स्वप्नगिति । स्वपनशील इत्यर्थ- । स्वप्नजौ स्वप्नजः । एवं तृष्णक् । तर्षणशीलः इत्यर्थः । धृषेश्चेति ।नजि॑ङिति शेषः । काशिकादाविति । भाष्ये तु न दृश्यते इति भावः । Nyaas ----- `स्वप्नक, तृष्णक्` इति। `ञिष्वप शये` (धातुपाठः-1068), `ञितृषा पिपासायाम्` (धातुपाठः-1228), **चोः कुः** (8.2.30) इति कुत्वम् - गकारः। तस्य **वाऽवसाने** (8.4.56) इति चर्त्वम् - ककारः। नजिङो ङकारस्तृषेश्च गुणप्रतिषेधार्थः, इकार उच्चारणार्थः॥ Prakriyasarvasvam ----------------- स्वप्नज् । पदत्वे स्वप्नक् स्वापशीलः । ङित्त्वादगुणः णत्वम् । तृष्णक् । (वा० ३-२-१७२) । धृष्णक् ॥ Vartika ------- धृषेश्चेति वाच्यम् । Sutra Prayogas -------------- * **स्वप्नक्** (भट्टिकाव्यम्): `स्वपि- तृषोर्नजिङ्` इति नजिङ् प्रत्ययः।