32165: जागुरूकः =============== **Padacheda:** जागुः | S | 1 | 1 | ऊकः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ऊक comes after the verb जागृ 'to be awake' in the sense of 'agent having such a habit'. Vasu English Translation ------------------------ The affix ऊक comes after the verb जागृ 'to be awake' in the sense of 'agent having such a habit'. As जागरूकः 'wakeful'. Kashika ------- जागर्तेरूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जागरूकः॥ Siddhanta Kaumudi ----------------- जागर्तेरूकः स्यात् । जागरूकः ॥ Balamanorama ------------ **जागुरूकः** - जागुरूकः । 'जागृ' इत्यस्य जागुरित पञ्चम्यन्तं पदम् । तदाह — जागर्तेरिति । तच्छीलादिष्वित्येव । जागरूक इति । ऋकारस्य गुणः, रपरत्वम् । सिद्धरूपं तु न निपातितम्, उत्तरसूत्रे ऊक इत्यननुवृत्तिप्रसङ्गात् । Tattvabodhini ------------- **जागुरूकः** - जागरूकः ।जागु॑रिति पञ्चम्यन्तं । तद्व्याचष्टे — जागर्तेरिति । जागरूक इति सिद्धरूपमेव न तु निपातितम, उत्तरसूत्रे ऊकस्याऽननुवृत्तिप्रसङ्गात् । Nyaas ----- `जागरूकः` इति। `जागृ निद्राक्षये` (धातुपाठः-1072)। वाऽसरूपविधिना तृन्नपि - जागरितेति भवति॥ Prakriyasarvasvam ----------------- जागृधातोः ऊकः स्यात् । गुणः । जागरूकः ॥ Sutra Prayogas -------------- * **जागरूकः** (रघुवंशम्): `जागृनिद्रिभ्यां यङ्कौ` (पा.3।2।165) इति ऊकप्रत्ययः। * **जागरूकः** (शिशुपालवधम्): `जागृनिद्राक्षयेभ्यः ऊकः` इत्यूकप्रत्ययः। * **जागरूकः** (भट्टिकाव्यम्): `जागरूकः` इति जागर्तेरूकः।