32152: न यः =========== **Padacheda:** न | S | 0 | 0 | यः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix युच् is not used after the verbs which end in the letter य। Vasu English Translation ------------------------ The affix युच् is not used after the verbs which end in the letter य। This debars (3.2.149). As क्नूयिता 'making creaking sound'; क्षमायिता 'trembling'. In these cases the affix तृन् is employed (3.2.135). Kashika ------- यकारान्ताद् धातोर्युच् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। क्नूयिता। क्ष्मायिता॥ Siddhanta Kaumudi ----------------- यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥ Balamanorama ------------ **न यः** - न यः । 'य' इति पञ्चम्यनतं धातुविशेषणं । तदन्तविधिः । तदाह — यकारान्तादिति । क्नूयिता । क्ष्मायितेति ।क्नुयी शब्दे उन्दन चटक्ष्मायी विधूनने॑ । अनुदात्तेतश्च हलादे॑रिति युच् निषिध्यते । तृनेव भवति । Tattvabodhini ------------- **न यः** - न यः । अय वय पय भय चय तय णय गताविति पठितस्य नयतेर्नाऽयं निर्देशः, अनुदात्तेत्त्वादेव युचः सिद्धत्वात्, किंतु नेति पृथक् पदमिति मत्वाऽऽह — यकारान्तादिति । क्नूयिता क्ष्मायितेति । क्नूयी शब्दे उन्दे च, क्ष्मायी विधूनने । Padamanjari ----------- नयः॥ ठय वय नय तय गतौऽ इति नयतेरनुदातेत्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ - यकारान्तादिति। पूर्वेणेति। ठनुदातेतश्चऽ इत्यादिना। क्नूयिता, क्ष्मायितेति।'क्नूयी शब्दे' 'क्ष्मायी विधूनने' ॥ Nyaas ----- `पूर्वेण` इति। **अनुदात्तेतश्च हलादेः** (3.2.149) इत्यादिना सिद्धत्वात्। अथ `अय वय रय णय गतौ`(धातुपाठः-474,475,482,480) इत्यस्माद्धातोर्युचो विधानार्थञ्चैतत्कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्;यस्मान्नयतेः `अनुदात्तेतश्च` (3.2.149) इत्यादिनैव सिद्धत्वात्। तस्मात् प्रतिषेधार्थमिदम्। `क्नयिता, क्ष्मायिता` इति। `क्नूयी शब्द {उन्दने च-धातुपाठः-} उन्दे च` (धातुपाठः-485), `क्ष्मायी विधूनने` (धातुपाठः-486)॥ Prakriyasarvasvam ----------------- यान्ताद्धातोरनुदात्तेत्त्वात् प्राप्तो युज् न । आप्यायिता । स्फायिता ॥ Sutra Prayogas -------------- * **आप्यायितारं** (भट्टिकाव्यम्): `न यः` इति प्रतिषिद्धे तृन्नेव भवति।