32147: देविक्रुशोश्चोपसर्गे =========================== **Padacheda:** देवि-क्रुशोः | S | 6 | 2 | च | S | 0 | 0 | उपसर्गे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes after the verbs देवि 'to lament' and क्रुश 'to cry' when an उपसर्ग is in composition with them. Vasu English Translation ------------------------ The affix वुञ् comes after the verbs देवि 'to lament' and क्रुश 'to cry' when an उपसर्ग is in composition with them. As आदेवकः 'one who sports or laments'; आक्रोशकः 'vociferous, a reviler'; परिदेवकः 'one who laments'; परिक्रोशकः 'a reviler'. Why do we say 'when in composition with an *upasarga*'? Observe देवयिता and क्रोष्ठा formed by तृन् (3.2.135). Kashika ------- देवयतेः क्रुशेश्चोपसर्ग उपपदे वुञ् प्रत्ययो भवति। आदेवकः। परिदेवकः। आक्रोशकः। परिक्रोशकः। उपसर्ग इति किम्? देवयिता। क्रोष्टा॥ Siddhanta Kaumudi ----------------- आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥ Balamanorama ------------ **देविक्रुशोश्चोपसर्गे** - देवीक्रुशोः । देवीति चुरादिण्यन्तस्य,दिवु क्रीडा॑इत्यस्य च ग्रहणम् । उपसर्गे उपपदे देवयतेः क्रुशेश्च तच्छीलादिषु वुञ् स्यादित्यर्थः । Tattvabodhini ------------- **देविक्रुशोश्चोपसर्गे** - देविक्रुशोः । दीव्यतेर्हेतुमण्ण्यन्तस्य, दिवु कूजने इति चुरादिण्यन्तस्य च ग्रहणम् । Padamanjari ----------- देविक्रुशोश्चोपसर्गे॥ देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य,'दिवि कूजने' इत्यस्य चुरादिण्यन्तस्य च॥ Prakriyasarvasvam ----------------- प्रदेवयितुं शीलमस्येति प्रवेशकः आक्रोशकः ॥