32139: ग्लाजिस्थश्च क्स्नुः¶
Padacheda: ग्ला-जि-स्थः | S | 5 | 1 |
च | S | 0 | 0 |
क्स्नुः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्स्नु comes after the following verbs in the sense of ‘the agent having such a habit etc.’ viz. - 1. ग्ला ‘to be weary’ 2. जि ‘to conquer’ 3. स्था ‘to stand’, as well as after भू ‘to be’.
Vasu English Translation¶
The affix क्स्नु comes after the following verbs in the sense of ‘the agent having such a habit etc.’ viz. - 1. ग्ला ‘to be weary’ 2. जि ‘to conquer’ 3. स्था ‘to stand’, as well as after भू ‘to be’. As, ग्लास्नुः ‘languid’; जिष्णुः ‘victorious’; स्थास्नुः ‘disposed to stand firm, immoveable’; भूष्णुः ‘being’.
The anuvritti of the word Chhandasi does not extend to this sutra. The indicatory letter of this affix is really ग and not क, and therefore, there is no substitution of long ई for the आ of स्था, which would otherwise have taken place, had the affix been कित् (6.4.66).
In the sutra (l. 1.5.) (क्ङिति च) the letter ग is also included; for ग coming before क, is changed by the rules of sandhi into क and is not therefore visible. This affix therefore does not cause guna.
So also in sutra (VII.2. II) (श्रयुकः किति), the augment इट् does not come after the verb स्नु, or a monosyllabic verb ending in the pratyahara उक, when an affix having an indicatory क follows. Here also क includes ग; and therefore in भूष्णु we have no intermediate augment इट्.
Vart:- In the Chhandas this affix comes after the verb दंश ‘to bite’; as दङ्क्ष्णवः पशवः ‘the beasts that bite’.
Bhashya¶
ग्लाजिस्थश्च क्स्नुः (906) (524 क्स्नुप्रत्ययविधिसूत्रम् ॥ 3 । 2 । 3 आ. 5) (प्रत्ययस्य गित्त्वनिर्णयाधिकरणम्) (3058 कित्त्वे दूषणवार्तिकम् ॥ 1 ॥) - स्नोः कित्त्वे स्थ ईकारप्रतिषेधः- (भाष्यम्) स्नोः कित्त्वे स्थ ईकारस्य प्रतिषेधो वक्तव्यः। स्थास्नुरिति। घुमास्था - इतीत्वं प्राप्नोति ॥ (अकिदङ्गीकरभाष्यम्) एवं तर्ह्यकित्करिष्यते ॥ (3059 अकिदङ्गीकारे दूषणवार्तिकम् ॥ 2 ॥) - अकिति गुणप्रतिषेधः।- (भाष्यम्) यद्यकित् क्रियते, गुणप्रतिषेधो वक्तव्यः। जिष्णुरिति। (3060 दूषणान्तरवार्तिकम् ॥ 3 ॥) - भुव इट् प्रतिषेधश्च- (भाष्यम्) भुव इट्प्रतिषेधश्च वक्तव्यः। किं चान्यत्?। गुणप्रतिषेधश्च। भूष्णुरिति ॥ (किदङ्गीकारभाष्यम्) अस्तु तर्हि कित्। (दूषणस्मारणभाष्यम्) ननु चोक्तम् स्नोः कित्त्वे ईकारप्रतिषेध इति। (दूषणोद्धारभाष्यम्) नैष दोषः। (3061 स्नुविधिवार्तिकम् ॥ 4 ॥) - स्थादंशिभ्यां स्नुश्छन्दसि- (भाष्यम्) स्थादंशिभ्यां स्नुश्छन्दसि वक्तव्यः। स्थास्नु जङ्गमं दङ्क्ष्णवः पशवः इति। स इदानीं स्थः स्नुरविशेषेण विधास्यते ॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते ॥ (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु। (दूषणस्मारणभाष्यम्) ननु चोक्तं स्नोः कित्वे स्थ ईकारप्रतिषेध इति ॥ (समाधानभाष्यम्) एवं तर्हि गित्करिष्यते ॥ (3062 वार्तिकम् ॥ 5 ॥) - स्नोर्गित्वान्न स्थ ईकारः- (भाष्यम्) स्नोर्गित्वात् स्थ ईकारो न भविष्यति। किं कारणम्?। (3063 हेतुवार्तिकम् ॥ 6 ॥) - क्ङितोरीत्वशासनात्- (भाष्यम्) क्ङितोरीत्वं शिष्यते ॥ (आक्षेपभाष्यम्) इह तर्हि जिष्णुरिति गुणः प्राप्नोति। (3064 समाधानवार्तिकम् ॥ 7 ॥) - गुणाभावस्त्रिषु स्मार्यः- (भाष्यम्) गुणाभावस्त्रिषु स्मर्तव्यः। गितिकिति ङिति चेति ॥ (प्रश्नभाष्यम्) तद्गकारग्रहणं कर्तव्यम् ॥ (समाधानभाष्यम्) न कर्तव्यम्। क्रियते न्यास एव। ककारे गकार्रश्चत्वभूतौ निर्दिश्यते - क्क्ङिति चेति। ( (आक्षेपभाष्यम्) इह तर्हि भूष्णुरिति श्र्युकः किति इतीट् प्रतिषेधो न प्राप्नोति ॥ (3065 समाधानवार्तिकम् ॥ 8 ॥) - श्र्युकोनिट्त्वं गकोरितोः- (भाष्यम्) श्र्युकोनिट्त्वं गकारककारयोरिति वक्तव्यम् ॥ (प्रश्नभाष्यम्) तद्गकारग्रहणं कर्तव्यम् ॥ (समाधानभाष्यम्) न कर्तव्यम्। क्रियते न्यास एव। ककारे गकार्रश्चत्वभूतो निर्दिश्यते श्र्युकः क्किती ति ॥ (आक्षेपभाष्यम्) यद्येवं र्चत्वस्यासिद्धत्वाद् हशि च इत्युत्वं प्राप्नोति ॥ (समाधानभाष्यम्) सौत्रो निर्देशः ॥ अथवाऽसंहितया निर्देशः करिष्यते - श्र्युकः क्कितीति ॥
Kashika¶
छन्दसीति निवृत्तम्। ग्ला जि स्था इत्येतेभ्यो धातुभ्यश्चकाराद् भुवश्च तच्छीलादिषु क्स्नुः प्रत्ययो भवति। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। गिच् चायं प्रत्ययः, न कित्। तेन स्थ ईकारो न भवति। **क्क्ङिति च**(१.१.५) इत्यत्र गकारोऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। **श्र्युकः किति**(७.२.११) इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति।
क्स्नोर्गित्त्वान्न स्थ ईकारः क्ङितोरीत्वशासनात्।
गुणाभावस्त्रिषु स्मार्यःश्र्युकोऽनिट्त्वं गकोरितोः॥
॥ दंशेश्छन्दस्युपसंख्यानम्॥ द॒ङ्क्ष्णवः॑ प॒शवः॑(मा०सं० १५.१५)॥
Siddhanta Kaumudi¶
छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति (SK2381) इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥<!दंशेश्छन्दस्युपसंख्यानम् !> (वार्तिकम्) ॥ दङ्क्ष्णवः पशवः ॥
Balamanorama¶
ग्लाजिस्थश्च क्स्नुः - ग्लाजिस्थश्च । निवृत्तमिति । व्याख्यानादिति भावः । चाद्भुव इत्यनुवकृष्यते । ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी । ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः । ककार इत् । ‘स्थास्नु’ इत्यत्र कित्त्वलक्षणं ‘घुमास्थे’ तीत्त्वमाशङ्क्याह — गिदयमिति । सूत्रे चर्त्वेन ककारनिर्देश इति भावः । गित्त्वान्न गुण इति ।क्क्ङिति चे॑त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः । ननु भूष्णुरित्यत्र इट् स्यात्,श्र्युकः किती॑ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह — श्र्युक इति । प्रश्लेषादिति । चर्त्वेनेति भावः ।
Tattvabodhini¶
ग्लाजिस्थश्च क्स्नुः - ईत्त्वं नेति ।घुमास्थे॑त्यादिः । गित्त्वादिति ।क्ङिति चे॑त्यत्र गकारं प्रश्लिष्य गिति किति ङितीति व्याख्यानादिति भाव- । गकारप्रश्लेषादिति । नन्वेवं गकारे चर्त्वस्याऽसिद्धत्वात्हशिचे॑त्युत्वं स्यादित चेत् । सत्यम् । सौत्रोऽयं निर्देशः । तथा च वार्तिकं — ग्स्नोर्गित्त्वान्न स्थ ईकारः । क्ङितोरीत्त्वप्रशासनत् । गुणाऽभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं कगोरितोः॑ इति । दङक्ष्णव इति । दंश दशने ।व्रश्चे॑त्यादिना षत्वेषढोः कः सी॑ति कत्वम् ।आदेशप्रत्ययो॑रिति षत्वम् ।अनिदिती॑मिति नलोपो न,ग्स्नोर्गित्त्वेन प्राप्त्यभावात् ।
Padamanjari¶
ग्लाजिस्थश्च ग्स्नुः॥ चर्त्वभूत इति। चर्त्वं प्राप्तश्चर्त्वेन वा प्राप्त इत्यर्थः। र्श्युकः कितीत्यत्रापीति। गकारोऽपि चर्त्वभूतो निर्द्दिश्यत इत्यनुषङ्गः। वस्नोर्गित्वान्न स्थ ईकारः। स्थास्नुरित्यत्र ईकारो न भवति, क्स्नोर्गित्वात्। कङितोरीत्विशासनात्। ककारेऽकार उच्चारणार्थः। क्ङितोहिण्त्वमुच्यते, अयं तु गित्। यद्येवं जिष्णुर्भूष्णुरित्यत्र गुणः प्राप्नोति? - गुणाभावस्त्रिषु स्मार्यः। गित् कित् ङिदिति त्रिषु गुणाभावः स्मर्तव्यः;’क्ङिति च’ इत्यत्र गकारप्रश्लेषात्। इह तर्हि भूष्णुरिति र्ठ्श्युकः कितिऽ इतीट्प्रतिषेधो न प्राप्नोति? - र्श्युकोऽनिट्त्वं गकोरितोः। र्श्युकः परस्य यदनिट्त्वं तद्गकारककारयोर्द्वयोरपीतोर्भवति, न केवलं ककारे; तत्रापि गकारस्य चर्त्वभूतस्य निर्द्देशात्। यद्येवम्, चर्त्वस्यासिद्धत्वाद्’हशि च’ इत्युत्वं प्राप्नोति? सौत्रो निर्द्देशः, असंहितया वा निर्द्देशः करिष्यते च्छन्दसि। दंक्ष्णवः पशव इति। क्स्नोर्गित्वादुपधालोपाभावः॥
Nyaas¶
अथ स्थास्नुरित्यत्र घुमास्थागापा (6.4.66) इत्यादिसूत्रेण कस्मादीत्वं भवतीत्याह - पिच्चायम् इत्यादि। ईत्त्वं क्ङिति। तत्र दीङो युडचि क्ङिति (6.4.63) इत्यनुवृत्तेः। न चायं कित्, न चायं ङित्; किं तर्हि? गित्। गकारस्य त्वश्रवणम्,चर्त्वभूतस्य निर्देशात्। यदि तर्हि गिदयम्, जिष्णुरित्यत्र गुणः प्राप्नोति, यस्मात् क्ङिति च (1.1.5) इति क्ङिति प्रत्यये गुणः प्रतिषिध्यते, न गितीत्यत आह - क्ङिति च इत्यादि। न हि क्ङिति च (1.1.5) इत्यत्र ककारङकारावेव निर्दिश्येते, किं तर्हि? गकारोऽपि कृतचर्त्वः,तेन गित्यपि गुणो न भवति। भूष्णुरित्यत्र तर्हि श्रयुकः किति` (7.2.11) इट्प्रतिषेध उद्यमानो गिति न स्यादित्यत आह - श्रयुकः किति इत्यादिना गकारश्चर्त्वभूतो निर्दिश्यते` इति प्रकृतेन सम्बन्धः। तेन इति। गकारस्य चर्तवभूतस्य निर्देशेनेति।कस्नोर्गित्वात्ित्यादि। गकार इत्संज्ञको यस्य स गित्, तद्भावो गित्त्वम्। तस्मात् गित्त्वान्न स्यास्नुरित्यत्रेकारः। तिष्ठतेरीकारो न भवति। कस्मात् पुनर्गित्तवादीकारो न भवतीत्याह - `कङितोरित्वशासनात् इत्यादि। ककारेऽकार उच्चारणार्थः। यस्मात् क्ङितीत्वमुच्यते, अयं तु गित्, तस्मात् क्ङिति विधीयमानमीत्वं गित्वादिह न प्राप्नोति। यद्येवम्, जिष्णुरित्यत्र गुणः प्राप्नोतीत्यत आह - गुणाभावः`इत्यादि। त्रिषु ककारगकारङकारेष्वित्संज्ञकेषु यो गुणप्रतिषेधः स स्मर्तव्य- = ज्ञातव्यः। **क्ङिति च** (1.1.5) इत्यत्र गकारश्चर्त्वभूतो निर्दिष्टः। यदि तर्हि गिदयम्, `भूष्णुरित्यत्र `श्रयुकः किति (7.2.11) इत्यीट्प्रतिषेधो न स्यादित्यत आह - श्रयुकोऽनिट्चत्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदि गकारश्चर्त्वभूतः `श्रयुक किति (7.2.11) इतीट्प्रतिषेधो न स्यादित्यत आह - शयुकोऽनिट्त्वम् इत्यादि। गकारोऽपि ततश्चर्त्वभूतो निर्दिश्यते। तन ककारगकारयोद्र्वयोरपीत्संज्ञकयोः श्रयुकोऽनिट्त्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदिगकारश्चत्त्र्वभूतः श्रयुकः किति (7.2.11) इत्यत्र निर्दिश्यते,` हशि च` (6.1.110) इत्युत्वं प्राप्नोति, तस्यासिद्धत्वात्? सौत्रत्वान्निर्देशश्यासंहितया पाठान्न भविष्यतीत्यदोषः। वामनस्य त्वेतत् सर्वमनभिमतम्। यथा नाभिमतं तथा क्ङिति च (1.1.5) इत्यत्र प्रतिपादितम्। दंशेः`इत्यादि। उपसंख्यानशब्दः प्रतिपादने वर्तते। `दन्श दंशने (धातुपाठः-898) इत्येतस्मादपि क्स्नुप्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - पूर्वसूत्राच्चकारोऽनुर्तते, स चानुक्तसमुच्चयार्थः, तेन दंशेरपि भविष्यतीति। दंक्ष्णवः इति। व्रश्चादिना (8.2.36) षत्वम्, षढोः कः सि (8.2.41) इति कत्वम्। अनिदिताम् (6.4.24) इत्यनुनासिकलोपो न भवति, क्स्नोर्गित्वात्। ये तु कित्वमिच्छन्ति, तैरिह नकारलोपप्रतिषेधः नाञ्चेः पूजायाम् (6.4.30) इत्यत्र नेति योगविभागेन कर्तव्यः। यत्नान्तरं वा तैरास्थेयम् - नकारस्यानुस्वारः, तस्य परसवर्णः॥
Prakriyasarvasvam¶
एभ्यो भुवश्च क्स्नुः स्यात् । ग्लास्नुः जिष्णुः स्थास्नुः । अत्र ‘घुमास्था—’ (६-४-६६) इतीत्वे प्राप्ते स्थ इत्यत्राकारप्रश्लेषात् आदन्तस्यैव स्थाधातोः क्स्नुः । भुवस्तु भूष्णुः । ‘श्र्युकः किति’ (७-२-१२) इति इडभावः ।
Sutra Prayogas¶
जिष्णुः (रघुवंशम्): ग्लाजिस्थश्च ग्स्नुः इति ग्स्नुप्रत्ययः।
जिष्णोर् (रघुवंशम्): ग्लाजिस्थश्च ग्स्नुः इति ग्स्नुप्रत्ययः।
स्थास्नु (किरातार्जुनीयम्): ग्लाजिस्थश्च ग्स्नुः इति ग्स्नुप्रत्ययः।
जिष्णुः (किरातार्जुनीयम्): ग्लाजिस्थश्च इति ग्स्नुप्रत्ययः।
स्थास्नूनि (शिशुपालवधम्): ग्लाजिस्थश्च इति ग्स्नुप्रत्ययः।
स्थास्नुताम् (शिशुपालवधम्): ग्लाजिस्थश्च इति ग्स्नुप्रत्ययः।
जिष्णवो (शिशुपालवधम्): ग्लाजिस्थश्च इति ग्स्नुप्रत्ययः।
यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु (शिशुपालवधम्): ग्लाजिस्थश्च इति ग्स्नुप्रत्ययः।
जिष्णो- (भट्टिकाव्यम्): ग्ला-जि-स्थश्च इति ग्स्नुः ।
ग्लास्नू (भट्टिकाव्यम्): ग्लाजिस्थश्च ग्स्नुः इति ग्स्नुः।