32140: त्रसिगृधिधृषिक्षिपेः क्नुः ================================= **Padacheda:** त्रसि-गृधि-धृषि-क्षिपेः | S | 5 | 1 | क्नुः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्नु comes after the verbs - 1. त्रस् 'to tremble' 2. गृध् 'to be greedy' 3. धृष् 'to be bold' 4. क्षिप् 'to throw' in the sense of 'agent having such a habit etc.'. Vasu English Translation ------------------------ The affix क्नु comes after the verbs - 1. त्रस् 'to tremble' 2. गृध् 'to be greedy' 3. धृष् 'to be bold' 4. क्षिप् 'to throw' in the sense of 'agent having such a habit etc.'. As, त्रस्नुः 'trembling'; गृध्नुः 'greedy'; धृष्णुः 'bold'; and क्षिण्नुः 'throwing'. Kashika ------- त्रसादिभ्यो धातुभ्यस्तच्छीलादिषु क्नुः प्रत्ययो भवति। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्णुः॥ Siddhanta Kaumudi ----------------- त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥ Balamanorama ------------ **त्रसिगृधिधृषिक्षिपेः क्नुः** - त्रसिगृधि ।तच्छीलादिषु कर्तृष्वि॑ति शेषः । त्रस्नुरिति ।नेड्वशी॑ति नेट् । गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः । Tattvabodhini ------------- **त्रसिगृधिधृषिक्षिपेः क्नुः** - त्रस्नुरिति ।नेड्वशि॑ इति नेट् । Padamanjari ----------- त्रसिगृधिधृषिक्षिपेः क्नुः॥ त्रस्नुरिति।'नेड्वशि कृति' इतीट्प्रतिषेधः॥ Nyaas ----- `त्रस {धारणे - धातुपाठः-} उद्वेगे` (धातुपाठः-1741), `गृधु अभिकांक्षायाम्` (धातुपाठः-1246) , `ञिघृषा प्रगल्भ्ये` (धातुपाठः-1269), `क्षिप प्रेरणे` (धातुपाठः-1285)। `त्रस्नुः` इति। `नेड्वशिकृति` (7.2.8) इतीट्? प्रतिषेधथः। `गृघ्नुः `इति। **क्ङिति च** (1.1.5) इति गुणाभावः॥ Prakriyasarvasvam ----------------- कित्त्वादगुणः । 'नेड्वशि—' (७-२-८) इत्यनिट्त्वम् । त्रस्नुः गृध्नुः धृष्णुः क्षिप्नुः । 'म्लाक्षिपचिपृमृजिभ्यः स्नुरि'ति भोजः । म्लास्नुः । अकित्त्वाद् गुणः, षत्वं, क्षेष्णुः । कुत्वं, पक्ष्णुः । मृजेर्वृद्धिः, व्रश्चादिषत्वं षढोः कः सि । परिमाक्ष्णुः ।। Sutra Prayogas -------------- * **अगृध्नुः** (रघुवंशम्): `त्रसिगृधिधृषिक्षिपेः क्नुः` इति क्नुप्रत्ययः। * **क्षिप्नुः** (शिशुपालवधम्): `त्रसिगृधिधृषिक्षिपेः क्नुः` इति क्नुप्रत्ययः। * **घृष्णुः** (भट्टिकाव्यम्): `त्रसि- गृधि` इत्यादिना क्रुः । * **त्रस्नु** (भट्टिकाव्यम्): `त्रसि- गृधि` इत्यादिना क्रुः। * **क्षिप्नुम** (भट्टिकाव्यम्): `त्रसि - गृधि` इत्यादिना क्क्रुः। * **धृष्णु** (भट्टिकाव्यम्): `त्रसिगृधिधृषिक्षिपेः क्नुः` इति क्नुः।