32138: भुवश्च

Padacheda: भुवः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix इष्णुच् in the sense of ‘the agent having such a habit etc.’ comes in the छन्दस् (Vedas) after the verb भू ‘to be’ etc.

Vasu English Translation

The affix इष्णुच् in the sense of ‘the agent having such a habit etc.’ comes in the छन्दस् (Vedas) after the verb भू ‘to be’ etc. Thus भविष्णुः ‘becoming’.

The yoga-vibhaga or the division of this sutra from the last, with which it could well have been read, is for the sake of the subsequent sutras.

The word ‘also’ indicates the existence of other verbs not included in the above two sutras; as, भ्राजिष्णुना लोहितचन्दनेन ।

Kashika

भवतेर्धातोश्छन्दसि विषये तच्छीलादिष्विष्णुच् प्रत्ययो भवति। भवि॒ष्णुः॑(मै०सं० १.८.१)। योगविभाग उत्तरार्थः। चकारोऽनुक्तसमुच्चयार्थः। भ्राजिष्णुना लोहितचन्दनेन॥

Siddhanta Kaumudi

छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥

Balamanorama

भुवश्च - भुवश्च । छन्दसीत्येवेति । भूधातोरिष्णुच् स्यात्तच्छीलादिषु छन्दसीत्यर्थ- । अण्यन्तार्थ आरम्भः ।

Tattvabodhini

भुवश्च - नैतदिति । चकारस्याऽनुक्तसमुच्चयार्थत्वमित्यर्थः ।

Padamanjari

भुवश्च॥ च्छन्दसीत्युच्यते, तत्कथम् -‘जगत्प्रभोरप्रभविष्णु वैष्णवम्’ ‘विष्णवे प्रभविष्णवे’ इति? निरंकुशाः कवयः। भ्राजिष्णुनेति। नैतद्भाष्ये समाश्रितम्॥

Nyaas

योगविभाग उत्तरार्थः इति। उत्तरसूत्रे भवतरेवानुवर्तनं यथा स्यात्; अन्यथा यदि णिभूभ्याञ्च इत्येको योगः क्रियते तदा णिग्रहणमप्यनुकृष्येत। भाजिष्णुना इत्याद। लौकिकप्रयोगः। तस्योपन्यासो भाषायामपि भ्राजृ दीप्तौ (धातुपाठः-181) इत्येतस्मादिष्णुच्प्रदर्शनार्थः॥

Sutra Prayogas

  • भ्राजिष्णुना (रघुवंशम्): भुवश्च इति चकारादिष्णुच्।

  • प्रभविष्णुषु (कुमारसम्भवम्): भुवश्च इतीष्णुच्प्रत्ययः।