32139: ग्लाजिस्थश्च क्स्नुः =========================== **Padacheda:** ग्ला-जि-स्थः | S | 5 | 1 | च | S | 0 | 0 | क्स्नुः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्स्नु comes after the following verbs in the sense of 'the agent having such a habit etc.' viz. - 1. ग्ला 'to be weary' 2. जि 'to conquer' 3. स्था 'to stand', as well as after भू 'to be'. Vasu English Translation ------------------------ The affix क्स्नु comes after the following verbs in the sense of 'the agent having such a habit etc.' viz. - 1. ग्ला 'to be weary' 2. जि 'to conquer' 3. स्था 'to stand', as well as after भू 'to be'. As, ग्लास्नुः 'languid'; जिष्णुः 'victorious'; स्थास्नुः 'disposed to stand firm, immoveable'; भूष्णुः 'being'. The *anuvritti* of the word *Chhandasi* does not extend to this *sutra*. The indicatory letter of this affix is really ग and not क, and therefore, there is no substitution of long ई for the आ of स्था, which would otherwise have taken place, had the affix been कित् (6.4.66). In the *sutra* (l. 1.5.) (क्ङिति च) the letter ग is also included; for ग coming before क, is changed by the rules of *sandhi* into क and is not therefore visible. This affix therefore does not cause *guna*. So also in *sutra* (VII.2. II) (श्रयुकः किति), the augment इट् does not come after the verb स्नु, or a monosyllabic verb ending in the *pratyahara* उक, when an affix having an indicatory क follows. Here also क includes ग; and therefore in भूष्णु we have no intermediate augment इट्. Vart:- In the *Chhandas* this affix comes after the verb दंश 'to bite'; as दङ्क्ष्णवः पशवः 'the beasts that bite'. Bhashya ------- ग्लाजिस्थश्च क्स्नुः (906) (524 क्स्नुप्रत्ययविधिसूत्रम् ॥ 3 । 2 । 3 आ. 5) (प्रत्ययस्य गित्त्वनिर्णयाधिकरणम्) (3058 कित्त्वे दूषणवार्तिकम् ॥ 1 ॥) - स्नोः कित्त्वे स्थ ईकारप्रतिषेधः- (भाष्यम्) स्नोः कित्त्वे स्थ ईकारस्य प्रतिषेधो वक्तव्यः। स्थास्नुरिति। घुमास्था - इतीत्वं प्राप्नोति ॥ (अकिदङ्गीकरभाष्यम्) एवं तर्ह्यकित्करिष्यते ॥ (3059 अकिदङ्गीकारे दूषणवार्तिकम् ॥ 2 ॥) - अकिति गुणप्रतिषेधः।- (भाष्यम्) यद्यकित् क्रियते, गुणप्रतिषेधो वक्तव्यः। जिष्णुरिति। (3060 दूषणान्तरवार्तिकम् ॥ 3 ॥) - भुव इट् प्रतिषेधश्च- (भाष्यम्) भुव इट्प्रतिषेधश्च वक्तव्यः। किं चान्यत्?। गुणप्रतिषेधश्च। भूष्णुरिति ॥ (किदङ्गीकारभाष्यम्) अस्तु तर्हि कित्। (दूषणस्मारणभाष्यम्) ननु चोक्तम् स्नोः कित्त्वे ईकारप्रतिषेध इति। (दूषणोद्धारभाष्यम्) नैष दोषः। (3061 स्नुविधिवार्तिकम् ॥ 4 ॥) - स्थादंशिभ्यां स्नुश्छन्दसि- (भाष्यम्) स्थादंशिभ्यां स्नुश्छन्दसि वक्तव्यः। स्थास्नु जङ्गमं दङ्क्ष्णवः पशवः इति। स इदानीं स्थः स्नुरविशेषेण विधास्यते ॥ (आक्षेपभाष्यम्) सिध्यति। सूत्रं तर्हि भिद्यते ॥ (सिद्धान्तिभाष्यम्) यथान्यासमेवास्तु। (दूषणस्मारणभाष्यम्) ननु चोक्तं स्नोः कित्वे स्थ ईकारप्रतिषेध इति ॥ (समाधानभाष्यम्) एवं तर्हि गित्करिष्यते ॥ (3062 वार्तिकम् ॥ 5 ॥) - स्नोर्गित्वान्न स्थ ईकारः- (भाष्यम्) स्नोर्गित्वात् स्थ ईकारो न भविष्यति। किं कारणम्?। (3063 हेतुवार्तिकम् ॥ 6 ॥) - क्ङितोरीत्वशासनात्- (भाष्यम्) क्ङितोरीत्वं शिष्यते ॥ (आक्षेपभाष्यम्) इह तर्हि जिष्णुरिति गुणः प्राप्नोति। (3064 समाधानवार्तिकम् ॥ 7 ॥) - गुणाभावस्त्रिषु स्मार्यः- (भाष्यम्) गुणाभावस्त्रिषु स्मर्तव्यः। गितिकिति ङिति चेति ॥ (प्रश्नभाष्यम्) तद्गकारग्रहणं कर्तव्यम् ॥ (समाधानभाष्यम्) न कर्तव्यम्। क्रियते न्यास एव। ककारे गकार्रश्चत्वभूतौ निर्दिश्यते - क्क्ङिति चेति। ( (आक्षेपभाष्यम्) इह तर्हि भूष्णुरिति श्र्युकः किति इतीट् प्रतिषेधो न प्राप्नोति ॥ (3065 समाधानवार्तिकम् ॥ 8 ॥) - श्र्युकोनिट्त्वं गकोरितोः- (भाष्यम्) श्र्युकोनिट्त्वं गकारककारयोरिति वक्तव्यम् ॥ (प्रश्नभाष्यम्) तद्गकारग्रहणं कर्तव्यम् ॥ (समाधानभाष्यम्) न कर्तव्यम्। क्रियते न्यास एव। ककारे गकार्रश्चत्वभूतो निर्दिश्यते श्र्युकः क्किती ति ॥ (आक्षेपभाष्यम्) यद्येवं र्चत्वस्यासिद्धत्वाद् हशि च इत्युत्वं प्राप्नोति ॥ (समाधानभाष्यम्) सौत्रो निर्देशः ॥ अथवाऽसंहितया निर्देशः करिष्यते - श्र्युकः क्कितीति ॥ Kashika ------- छन्दसीति निवृत्तम्। ग्ला जि स्था इत्येतेभ्यो धातुभ्यश्चकाराद् भुवश्च तच्छीलादिषु क्स्नुः प्रत्ययो भवति। ग्लास्नुः। जिष्णुः। स्थास्नुः। भूष्णुः। गिच् चायं प्रत्ययः, न कित्। तेन स्थ ईकारो न भवति। **क्क्ङिति च**(१.१.५) इत्यत्र गकारोऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति। **श्र्युकः किति**(७.२.११) इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति। क्स्नोर्गित्त्वान्न स्थ ईकारः क्ङितोरीत्वशासनात्। गुणाभावस्त्रिषु स्मार्यःश्र्युकोऽनिट्त्वं गकोरितोः॥ ॥ दंशेश्छन्दस्युपसंख्यानम्॥ द॒ङ्क्ष्णवः॑ प॒शवः॑(मा०सं० १५.१५)॥ Siddhanta Kaumudi ----------------- छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति (SK2381) इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥ (वार्तिकम्) ॥ दङ्क्ष्णवः पशवः ॥ Balamanorama ------------ **ग्लाजिस्थश्च क्स्नुः** - ग्लाजिस्थश्च । निवृत्तमिति । व्याख्यानादिति भावः । चाद्भुव इत्यनुवकृष्यते । ग्ला, जि, स्था एषां द्वन्द्वात्पञ्चमी । ग्ला, जि,स्था, भू इत्येभ्यः क्स्नुः स्यात्तच्छीलादिष्वित्यर्थः । ककार इत् । 'स्थास्नु' इत्यत्र कित्त्वलक्षणं 'घुमास्थे' तीत्त्वमाशङ्क्याह — गिदयमिति । सूत्रे चर्त्वेन ककारनिर्देश इति भावः । गित्त्वान्न गुण इति ।क्क्ङिति चे॑त्यत्र गस्य चर्त्वेन ककारान्तरप्रश्लेषादिति भावः । ननु भूष्णुरित्यत्र इट् स्यात्,श्र्युकः किती॑ति कित एव इण्निषेधात् , अस्य च गित्त्वादित्यत आह — श्र्युक इति । प्रश्लेषादिति । चर्त्वेनेति भावः । Tattvabodhini ------------- **ग्लाजिस्थश्च क्स्नुः** - ईत्त्वं नेति ।घुमास्थे॑त्यादिः । गित्त्वादिति ।क्ङिति चे॑त्यत्र गकारं प्रश्लिष्य गिति किति ङितीति व्याख्यानादिति भाव- । गकारप्रश्लेषादिति । नन्वेवं गकारे चर्त्वस्याऽसिद्धत्वात्हशिचे॑त्युत्वं स्यादित चेत् । सत्यम् । सौत्रोऽयं निर्देशः । तथा च वार्तिकं — ग्स्नोर्गित्त्वान्न स्थ ईकारः । क्ङितोरीत्त्वप्रशासनत् । गुणाऽभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं कगोरितोः॑ इति । दङक्ष्णव इति । दंश दशने ।व्रश्चे॑त्यादिना षत्वेषढोः कः सी॑ति कत्वम् ।आदेशप्रत्ययो॑रिति षत्वम् ।अनिदिती॑मिति नलोपो न,ग्स्नोर्गित्त्वेन प्राप्त्यभावात् । Padamanjari ----------- ग्लाजिस्थश्च ग्स्नुः॥ चर्त्वभूत इति। चर्त्वं प्राप्तश्चर्त्वेन वा प्राप्त इत्यर्थः। र्श्युकः कितीत्यत्रापीति। गकारोऽपि चर्त्वभूतो निर्द्दिश्यत इत्यनुषङ्गः। वस्नोर्गित्वान्न स्थ ईकारः। स्थास्नुरित्यत्र ईकारो न भवति, क्स्नोर्गित्वात्। कङितोरीत्विशासनात्। ककारेऽकार उच्चारणार्थः। क्ङितोहिण्त्वमुच्यते, अयं तु गित्। यद्येवं जिष्णुर्भूष्णुरित्यत्र गुणः प्राप्नोति? - गुणाभावस्त्रिषु स्मार्यः। गित् कित् ङिदिति त्रिषु गुणाभावः स्मर्तव्यः;'क्ङिति च' इत्यत्र गकारप्रश्लेषात्। इह तर्हि भूष्णुरिति र्ठ्श्युकः कितिऽ इतीट्प्रतिषेधो न प्राप्नोति? - र्श्युकोऽनिट्त्वं गकोरितोः। र्श्युकः परस्य यदनिट्त्वं तद्गकारककारयोर्द्वयोरपीतोर्भवति, न केवलं ककारे; तत्रापि गकारस्य चर्त्वभूतस्य निर्द्देशात्। यद्येवम्, चर्त्वस्यासिद्धत्वाद्'हशि च' इत्युत्वं प्राप्नोति? सौत्रो निर्द्देशः, असंहितया वा निर्द्देशः करिष्यते च्छन्दसि। दंक्ष्णवः पशव इति। क्स्नोर्गित्वादुपधालोपाभावः॥ Nyaas ----- अथ स्थास्नुरित्यत्र `घुमास्थागापा` (6.4.66) इत्यादिसूत्रेण कस्मादीत्वं भवतीत्याह - `पिच्चायम्` इत्यादि। ईत्त्वं क्ङिति। तत्र **दीङो युडचि क्ङिति** (6.4.63) इत्यनुवृत्तेः। न चायं कित्, न चायं ङित्; किं तर्हि? गित्। गकारस्य त्वश्रवणम्,चर्त्वभूतस्य निर्देशात्। यदि तर्हि गिदयम्, जिष्णुरित्यत्र गुणः प्राप्नोति, यस्मात् **क्ङिति च** (1.1.5) इति क्ङिति प्रत्यये गुणः प्रतिषिध्यते, न गितीत्यत आह - `क्ङिति च` इत्यादि। न हि **क्ङिति च** (1.1.5) इत्यत्र ककारङकारावेव निर्दिश्येते, किं तर्हि? गकारोऽपि कृतचर्त्वः,तेन गित्यपि गुणो न भवति। भूष्णुरित्यत्र तर्हि श्रयुकः किति` (7.2.11) इट्प्रतिषेध उद्यमानो गिति न स्यादित्यत आह - `श्रयुकः` किति इत्यादिना गकारश्चर्त्वभूतो निर्दिश्यते` इति प्रकृतेन सम्बन्धः। `तेन` इति। गकारस्य चर्तवभूतस्य निर्देशेनेति।`कस्नोर्गित्वात्ित्यादि। गकार इत्संज्ञको यस्य स गित्, तद्भावो गित्त्वम्। तस्मात् गित्त्वान्न स्यास्नुरित्यत्रेकारः। तिष्ठतेरीकारो न भवति। कस्मात् पुनर्गित्तवादीकारो न भवतीत्याह - `कङितोरित्वशासनात्` इत्यादि। ककारेऽकार उच्चारणार्थः। यस्मात् क्ङितीत्वमुच्यते, अयं तु गित्, तस्मात् क्ङिति विधीयमानमीत्वं गित्वादिह न प्राप्नोति। यद्येवम्, जिष्णुरित्यत्र गुणः प्राप्नोतीत्यत आह - `गुणाभावः`इत्यादि। त्रिषु ककारगकारङकारेष्वित्संज्ञकेषु यो गुणप्रतिषेधः स स्मर्तव्य- = ज्ञातव्यः। **क्ङिति च** (1.1.5) इत्यत्र गकारश्चर्त्वभूतो निर्दिष्टः। यदि तर्हि गिदयम्, `भूष्णुरित्यत्र `श्रयुकः किति` (7.2.11) इत्यीट्प्रतिषेधो न स्यादित्यत आह - `श्रयुकोऽनिट्चत्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदि गकारश्चर्त्वभूतः `श्रयुक किति` (7.2.11) इतीट्प्रतिषेधो न स्यादित्यत आह - `शयुकोऽनिट्त्वम्` इत्यादि। गकारोऽपि ततश्चर्त्वभूतो निर्दिश्यते। तन ककारगकारयोद्र्वयोरपीत्संज्ञकयोः श्रयुकोऽनिट्त्वमिट्प्रतिषेधो भवतीति वेदितव्यम्। यदिगकारश्चत्त्र्वभूतः `श्रयुकः किति` (7.2.11) इत्यत्र निर्दिश्यते,` हशि च` (6.1.110) इत्युत्वं प्राप्नोति, तस्यासिद्धत्वात्? सौत्रत्वान्निर्देशश्यासंहितया पाठान्न भविष्यतीत्यदोषः। वामनस्य त्वेतत् सर्वमनभिमतम्। यथा नाभिमतं तथा **क्ङिति च** (1.1.5) इत्यत्र प्रतिपादितम्। `दंशेः`इत्यादि। उपसंख्यानशब्दः प्रतिपादने वर्तते। `दन्श दंशने` (धातुपाठः-898) इत्येतस्मादपि क्स्नुप्रत्ययस्योपसंख्यानम् = प्रतिपादनं कर्तव्यम्। तत्रेदं प्रतिपादनम् - पूर्वसूत्राच्चकारोऽनुर्तते, स चानुक्तसमुच्चयार्थः, तेन दंशेरपि भविष्यतीति। `दंक्ष्णवः` इति। व्रश्चादिना (8.2.36) षत्वम्, **षढोः कः सि** (8.2.41) इति कत्वम्। `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपो न भवति, क्स्नोर्गित्वात्। ये तु कित्वमिच्छन्ति, तैरिह नकारलोपप्रतिषेधः **नाञ्चेः पूजायाम्** (6.4.30) इत्यत्र नेति योगविभागेन कर्तव्यः। यत्नान्तरं वा तैरास्थेयम् - नकारस्यानुस्वारः, तस्य परसवर्णः॥ Prakriyasarvasvam ----------------- एभ्यो भुवश्च क्स्नुः स्यात् । ग्लास्नुः जिष्णुः स्थास्नुः । अत्र 'घुमास्था—' (६-४-६६) इतीत्वे प्राप्ते स्थ इत्यत्राकारप्रश्लेषात् आदन्तस्यैव स्थाधातोः क्स्नुः । भुवस्तु भूष्णुः । 'श्र्युकः किति' (७-२-१२) इति इडभावः । Sutra Prayogas -------------- * **जिष्णुः** (रघुवंशम्): `ग्लाजिस्थश्च ग्स्नुः` इति ग्स्नुप्रत्ययः। * **जिष्णोर्** (रघुवंशम्): `ग्लाजिस्थश्च ग्स्नुः` इति ग्स्नुप्रत्ययः। * **स्थास्नु** (किरातार्जुनीयम्): `ग्लाजिस्थश्च ग्स्नुः` इति ग्स्नुप्रत्ययः। * **जिष्णुः** (किरातार्जुनीयम्): `ग्लाजिस्थश्च` इति ग्स्नुप्रत्ययः। * **स्थास्नूनि** (शिशुपालवधम्): `ग्लाजिस्थश्च` इति ग्स्नुप्रत्ययः। * **स्थास्नुताम्** (शिशुपालवधम्): `ग्लाजिस्थश्च` इति ग्स्नुप्रत्ययः। * **जिष्णवो** (शिशुपालवधम्): `ग्लाजिस्थश्च` इति ग्स्नुप्रत्ययः। * **यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु** (शिशुपालवधम्): `ग्लाजिस्थश्च` इति ग्स्नुप्रत्ययः। * **जिष्णो-** (भट्टिकाव्यम्): `ग्ला-जि-स्थश्च` इति ग्स्नुः । * **ग्लास्नू** (भट्टिकाव्यम्): `ग्लाजिस्थश्च ग्स्नुः` इति ग्स्नुः।