32093: कर्मणीनिविक्रियः¶
Padacheda: कर्मणि | S | 7 | 1 |
इनिः | S | 1 | 1 |
विक्रियः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix इनि comes after the compound verb विकृ ‘to sell’ in the sense of past time, when in composition with a word in the Accusative -2nd case.
Vasu English Translation¶
The affix इनि comes after the compound verb विकृ ‘to sell’ in the sense of past time, when in composition with a word in the Accusative -2nd case. The repetition of the word कर्मणि in the sutra, though its anuvritti might have been drawn from the last aphorism, indicates that when the object carries with it a sense of censure on the agent, then only this affix is employed and not with every and any object. As सोमविक्रयिन् ‘the seller of soma plant’; रसविक्रयिन् ‘the seller of liquors’; employing disapproval of the action of those persons who carry on these mean professions. But not so in धान्यविक्रायः ‘the seller of paddy’.
Bhashya¶
कर्मणीनि विक्रियः (860) (405 इनिप्रत्ययविधिसूत्रम् ॥ 3 । 2 । 2 आ.3 ) (2079 वार्तिकम् ॥ 1 ॥) - कर्मणि कुत्सिते- (भाष्यम्) कर्मणि कुत्सिते इति वक्तव्यम्। इह मा भूत् - -धान्यविक्राय इति ॥
Kashika¶
कर्मण्युपपदे विपूर्वात् क्रीणातेर्धातोरिनिः प्रत्ययो भवति। कर्मणीति वर्तमाने पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति — धान्यविक्रायः॥
Siddhanta Kaumudi¶
कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् ।<!कुत्सितग्रहणं कर्तव्यम् !> (वार्तिकम्) ॥ सोमविक्रयी । घृतविक्रयी ॥
Balamanorama¶
कर्मणीनिविक्रियः - कर्मणीनि विक्रियः । ‘इनि’ इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति । सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः ।
Padamanjari¶
कर्मणीनिविक्रियः॥ कर्मणीति वर्तमान इति।’कर्मणि हनः’ इत्यतः कर्तुः कुत्सानिमिते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः॥
Nyaas¶
कर्मणीति वर्तमाने इत्यादि। कर्मणिहनः (3.2.86) इत्यतः। पुनः कर्मग्रहणम् इत्यादि। यत् कर्म क्रियासम्बन्धमनुभवत् कर्त्तुः कुत्सामावहति,तत् कुत्सानिमित्तं कर्म यथा स्यादित्येवमर्थम्। कर्मग्रहणेऽनुवर्तमाने पुनः कर्मग्रहणमनन्तरसूत्रे यत् कर्मप्रत्ययार्थत्वेऽनिष्टं कर्मग्रहणं तन्निवृत्त्यर्थम्। कर्मग्रहणं कस्मान्न भवति? तस्य स्वरितत्वादेवानुवृत्तेः। सोमविक्रयी इति। सोमविक्रयणं शास्त्रे प्रतिषिध्यत इति सोमाख्यं कर्म विक्रयणक्रियया सम्बध्यमानं विक्रेतुः कुत्सामावहति। धान्यविक्रायः इति। कर्मण्यण् (3.2.1) ॥
Prakriyasarvasvam¶
कर्मपूर्वाद् विक्रीञ इनिः स्यात् । मांसविक्रयी । कुत्सित एवायम् । धान्यविक्रायोऽन्यः ॥
Vartika¶
कुत्सितग्रहणं कर्तव्यम् ।