32094: दृशेः क्वनिप्

Padacheda: दृशेः | S | 5 | 1 |

क्वनिप् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix क्वनिप् comes after the verb दृश् ‘to see’ in the sense of past time, when in composition with a word in the Accusative -2nd case.

Vasu English Translation

The affix क्वनिप् comes after the verb दृश् ‘to see’ in the sense of past time, when in composition with a word in the Accusative -2nd case. As मेरुदृश्वन्, 1st. sing. मेरुदृश्वा ‘who has seen the Meru’. परलोकदृश्वा ‘who has seen the hereafter.’

Though the affix क्वनिप् was valid by sutra (3.2.75) its repetition here shows that no other affix comes in this sense after this verb.

Kashika

कर्मणीत्येव। दृशेर्धातोःकर्मण्युपपदे क्वनिप् प्रत्ययो भवति। मेरुदृश्वा। परलोकदृश्वा। **अन्येभ्योऽपि दृश्यन्ते**(३.२.७५) इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तर — निवृत्त्यर्थम्॥

Siddhanta Kaumudi

कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥

Laghu Siddhanta Kaumudi

कर्मणि भूते। पारं दृष्टवान् पारदृश्वा॥

Balamanorama

दृशेः क्वनिप् - दृशेः क्वनिप् ।आतो मनिन्क्वनिब्वनिपश्च॑,अन्येभ्योऽपि दृश्यन्ते॑ इत्येव क्वनिपि सिद्धे तत्सहचरितमनिनादिव्यावृत्त्यर्थमिदं, सोपपदाऽणादिबाधनार्थं च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवाऽत्र पुनः क्विब्ग्रहणेन निवृत्तेः । पारं दृष्टवान् ।

Tattvabodhini

दृशेः क्वनिप् - दृशेः क्वनिप् ।अन्येब्योऽपि दृश्यन्ते॑ इति सिद्धे नियमार्थमिदं — क्वनिबेव यथास्यात्तत्सहनिर्दिष्टौ मनिन्वनिपौ माभूतां, न वा अणादय॑ इति । सोपपदप्रत्ययस्यैव नियमेव निवर्तनान्निष्ठा तु भवत्येव — पारं दृष्टवानिति । एवं स्थितेविआदृआनयना वयमेवे॑त्यादौ विआं पश्यन्ति विआदृआआनि, तानि नयनानि येषां ते विआदृआनयना इत्येवं क्वनिबन्तस्य लटा विग्रहेऽपि न क्षतिः । प्रत्ययान्तरनिवृत्त्यर्थं सूत्रमित्येवं वृत्तिकारादिभिव्र्याख्यातत्वात्, कालान्तरनिवृत्त्यर्थमिदमिति कैरप्यभियुक्तैरनुक्तत्वादिति दिक् ।

Padamanjari

द्दशेः क्वनिप्॥ प्रत्ययान्तरनिवृत्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्ट्ंअ मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव - पलोकं द्दष्टवानिति॥

Nyaas

प्रत्ययान्तरनिवृत्यर्थम् इति। प्रत्ययान्तरमणादि, तस्य निवृत्त्यर्थम्। निवृत्ते सत्यपि प्रत्ययः प्रत्ययान्तरत्वे भवत्येव - परलोकं दृष्टवानिति। अत्र च कारणं ब्राहृभ्रूण (3.2.87) सूत्र एव उक्तम्॥

Prakriyasarvasvam

कर्मपूर्वादेव । हरिं दृष्टवान् हरिदृश्वा ॥

Sutra Prayogas

  • पारदृश्वनः (रघुवंशम्): दृशेः क्वनिप् इति क्वनिप्।

  • श्रुतपारदृश्वा (रघुवंशम्): दृशेः क्वनिप् इति क्वनिप्।

  • यमाऽऽस्य-दृश्वरी (भट्टिकाव्यम्): दृशेः वनिप् इति वनिप्।

  • पाप-दृष्वना (भट्टिकाव्यम्): दृशेः क्वनिप् इति क्वनिप्।