32093: कर्मणीनिविक्रियः ======================= **Padacheda:** कर्मणि | S | 7 | 1 | इनिः | S | 1 | 1 | विक्रियः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix इनि comes after the compound verb विकृ 'to sell' in the sense of past time, when in composition with a word in the Accusative -2nd case. Vasu English Translation ------------------------ The affix इनि comes after the compound verb विकृ 'to sell' in the sense of past time, when in composition with a word in the Accusative -2nd case. The repetition of the word कर्मणि in the *sutra*, though its *anuvritti* might have been drawn from the last aphorism, indicates that when the object carries with it a sense of censure on the agent, then only this affix is employed and not with every and any object. As सोमविक्रयिन् 'the seller of *soma* plant'; रसविक्रयिन् 'the seller of liquors'; employing disapproval of the action of those persons who carry on these mean professions. But not so in धान्यविक्रायः 'the seller of paddy'. Bhashya ------- कर्मणीनि विक्रियः (860) (405 इनिप्रत्ययविधिसूत्रम् ॥ 3 । 2 । 2 आ.3 ) (2079 वार्तिकम् ॥ 1 ॥) - कर्मणि कुत्सिते- (भाष्यम्) कर्मणि कुत्सिते इति वक्तव्यम्। इह मा भूत् - -धान्यविक्राय इति ॥ Kashika ------- कर्मण्युपपदे विपूर्वात् क्रीणातेर्धातोरिनिः प्रत्ययो भवति। कर्मणीति वर्तमाने पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत्। सोमविक्रयी। रसविक्रयी। इह न भवति — धान्यविक्रायः॥ Siddhanta Kaumudi ----------------- कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् । (वार्तिकम्) ॥ सोमविक्रयी । घृतविक्रयी ॥ Balamanorama ------------ **कर्मणीनिविक्रियः** - कर्मणीनि विक्रियः । 'इनि' इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति । सोमद्रव्यं च विक्रीयमाणं विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भावः । Padamanjari ----------- कर्मणीनिविक्रियः॥ कर्मणीति वर्तमान इति।'कर्मणि हनः' इत्यतः कर्तुः कुत्सानिमिते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः॥ Nyaas ----- `कर्मणीति वर्तमाने` इत्यादि। `कर्मणिहनः` (3.2.86) इत्यतः। `पुनः कर्मग्रहणम्` इत्यादि। यत् कर्म क्रियासम्बन्धमनुभवत् कर्त्तुः कुत्सामावहति,तत् कुत्सानिमित्तं कर्म यथा स्यादित्येवमर्थम्। कर्मग्रहणेऽनुवर्तमाने पुनः कर्मग्रहणमनन्तरसूत्रे यत् कर्मप्रत्ययार्थत्वेऽनिष्टं कर्मग्रहणं तन्निवृत्त्यर्थम्। कर्मग्रहणं कस्मान्न भवति? तस्य स्वरितत्वादेवानुवृत्तेः। `सोमविक्रयी` इति। सोमविक्रयणं शास्त्रे प्रतिषिध्यत इति सोमाख्यं कर्म विक्रयणक्रियया सम्बध्यमानं विक्रेतुः कुत्सामावहति। `धान्यविक्रायः` इति। **कर्मण्यण्** (3.2.1) ॥ Prakriyasarvasvam ----------------- कर्मपूर्वाद् विक्रीञ इनिः स्यात् । मांसविक्रयी । कुत्सित एवायम् । धान्यविक्रायोऽन्यः ॥ Vartika ------- कुत्सितग्रहणं कर्तव्यम् ।