32092: कर्मण्यग्न्याख्यायाम्¶
Padacheda: कर्मणि | S | 7 | 1 |
अग्न्याख्यायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In expressing an object the affix क्विप्comes after the verb चि ‘to collect’ with the sense of past time when in composition with a word in the Accusative -2nd case, provided the word so formed is the name of fire.
Vasu English Translation¶
In expressing an object the affix क्विप्comes after the verb चि ‘to collect’ with the sense of past time when in composition with a word in the Accusative -2nd case, provided the word so formed is the name of fire. The words चेः and कर्मणि are understood in this sutra. The Name is expressed by taking the complete word consisting of the verbal root, the upapada and the affix. As श्येनचित् ‘a fire which has been arranged in the shape of a hawk’; कङ्कचित् ‘fire arranged like a heron’.
The word आख्या indicates that these words are rudhi words, their sense depending upon usage rather than etymology. The arrangement of bricks for sacrificial purpose with regard to fire, gets these various names; that is, when the bricks are arranged like a falcon, it is called श्येनचित्, and so on.
Kashika¶
चेः कर्मणीति वर्तते। कर्मण्युपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायाम्, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते। श्येन इव चीयते श्येनचित्। कङ्कचित्। आख्याग्रहणं रूढिसंप्रत्ययार्थम्। अग्न्यर्थो हीष्टकाचय उच्यते श्येनचिदिति॥
Siddhanta Kaumudi¶
कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥
Balamanorama¶
कर्मण्यग्न्याख्यायाम् - कर्मण्यग्न्याख्यायाम् । कर्मणीत्यनुवृत्तमुपपदसमर्पकम् । अत्रत्यं तु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चाऽत्र कर्तरीति न सम्बध्यते । तदाह — कर्मण्युपपदे इत्यादि । चिनोतेरिति । भूतार्थादित्यपि बोध्यम् । श्येन इवेति । श्येनशब्दः श्येनसदृशे लाक्षणिक इति भावः । श्येनाकृतिक इति यावत् ।
Padamanjari¶
कर्मण्यग्न्याख्यायाम्॥’कर्मणि हनः’ इत्यतोऽनुवृतं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह - कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः - य एवं विद्विअनग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्यएत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः॥
Nyaas¶
कर्मणि हनः (3.2.86) इत्यत उपपदविशेषमे कर्मग्रहणेऽनुवर्तमाने यत् पुनरिह कर्मग्रहणं तस्य प्रत्ययार्थत्वं विज्ञायत इत्याह - कर्मण्येव कारके इति। धातूपपद इत्यादिना समुदायोपाधित्क्मेतदग्न्याख्याग्रहणस्य दर्शयति।आख्याग्रहणं रूढिसम्प्रत्ययार्थम् इत्यादि। अग्निशब्दोऽयमग्निसामान्यवाची, अत्रासत्याख्याग्रहणे विशेषो न विज्ञायते - कस्येह ग्रहणमिति, रूढिसम्प्रत्ययार्थमाख्याग्रहणं क्रियते। किं पुनः कारणं तदर्थमाख्याग्रहणं क्रियत इत्याह - अग्न्यर्थो हि इत्यादि। अग्न्यर्थो य इष्टकानां रचनाविशेषः स श्येनचिदित्युच्यते, तत्रैवायं प्रत्यय इष्यते। स कथं तत्रैव लभ्यते? यस्य ग्रहणं क्रियते, तस्मश्च सति प्रसिद्धो गृह्रमाणोऽग्न्यर्थो य इष्टकानां रचनाविशेषः स एव प्रत्ययार्थो वाच्यतया विज्ञायते, नान्यः॥
Prakriyasarvasvam¶
अग्निचयननाम्नि चेः कर्मार्थे क्विप् स्यात् । श्येन इव चीयत इति श्येनचित् । कङ्कचित् ।