32063: छन्दसि सहः

Padacheda: छन्दसि | S | 7 | 1 |

सहः | S | 5 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the affix णिव comes after the verb सह् ‘to bear’ when in composition with a word ending in a case-affix.

Vasu English Translation

In the छन्दस् (Vedas) the affix णिव comes after the verb सह् ‘to bear’ when in composition with a word ending in a case-affix. The words ‘upasarga’ and ‘supi’ are understood here. As तुर + सह् + ण्वि = तुरासाह् nom. sing. तुराषाट् ‘name of Indra’. The dentals स is changed into cerebral ष by (8.3.56), and the ह् into ट by (8.2.31). The final अ of तुर is lengthened by (6.3.137). See Rig. Veda. (I.175.2), (3.4.5).

Kashika

उपसर्गे सुपीत्येव । छन्दसि विषये सहेर्धातोः सुबन्त उपपदे ण्विप्रत्ययो भवति। तु॑रा॒षाट् (ऋ०३.४८.४)। सहेः साडःसः (८.३.५६) इति षत्वम्। अन्येषामपि दृश्यते (६.३.१३७) इति दीर्घत्वम्॥

Siddhanta Kaumudi

सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥

Padamanjari

च्छन्दसि सहः॥ तुरासाहं पुरोधाय, पृतनाषाट् द्विषो योद्धुं पुरुहूतः पृतनाषाड् इति भाषायां प्रयोगाश्चिन्त्याः॥

Nyaas

जलाषाट् इति। हो ढः (8.2.31) इति ढत्वम्, तस्य जश्त्वम् - डकारः,तस्य वाऽवसाने (8.4.56) इति टकारः॥

Prakriyasarvasvam

सोपपदात् सहेर्विः स्यात् । पृतनाषाट्सुवीर³: ‘पूर्वपदात्’ (८-३-१०६) इति छान्दसं षत्वं वक्ष्यते ।

Sutra Prayogas

  • तुराषाडिव (रघुवंशम्): छन्दसि सहः इति ण्विप्रत्ययः।

  • **** (भट्टिकाव्यम्): छन्दसि सहः इति ण्विप्रत्ययस्य विधानात्।