32062: भजो ण्विः¶
Padacheda: भजः | S | 5 | 1 |
ण्विः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ण्वि comes after the verb भज् ‘to share’ when in composition with a word ending in a case-affix whether it be an उपसर्ग or not.
Vasu English Translation¶
The affix ण्वि comes after the verb भज् ‘to share’ when in composition with a word ending in a case-affix whether it be an उपसर्ग or not. The words ‘upasarga’ and ‘supi’ are understood in this sutra. As अर्द्धं भजते = अर्द्धभाज् nom. sing. अर्द्धभाक् ‘sharing a half’. So also when in composition with a preposition; as प्रभाक् ‘division’.
Kashika¶
उपसर्गे सुपीति वर्तते। भजेर्धातोः सुबन्त उपपद उपसर्गऽप्यनुपसर्गेऽपि ण्विप्रत्ययो भवति। अर्धं भजते अर्धभाक्। उपसर्गेऽपि — प्रभाक् ॥
Siddhanta Kaumudi¶
सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥
Nyaas¶
अर्धभाक् इति। वेरपृक्तस्य (6.1.67) इति वकारलोपः। प्रत्ययलोपलक्षणेन अत उपधायाः (7.2.116) इति वृद्धिः, चोः कुः (8.2.30) इति कुत्वम्। णकारो वृद्ध्यर्थः। इकारः वेरपृक्तस्य (6.1.67) इति सामान्यग्रहणार्थः॥
Prakriyasarvasvam¶
उपसर्गेऽन्यसुबन्ते वा पूर्वे भजेर्णि्वः स्यात् । क्विन्वद् वेर्लोपः । णित्त्वाद् वृद्धिः । चोः कुः । कृष्णभाग् ।
Sutra Prayogas¶
युवराजशब्दभाक् (रघुवंशम्): भजो ण्विः इति ण्विप्रत्ययः।
अनन्यभाजम् (कुमारसम्भवम्): भजो ण्विः इति ण्विप्रत्ययः।
शरीरभाजां (शिशुपालवधम्): भजो ण्विः इति ण्विप्रत्ययः।
अहिपरिकरभाजो (शिशुपालवधम्): भजो ण्विः इति ण्विप्रत्ययः।
देव-भाग्घ्विः (भट्टिकाव्यम्): भजो ण्विः इति देवान् भजत इति ण्विः।
दूर-भाग्रामो (भट्टिकाव्यम्): भजो ण्विः इति ण्विः।
पङ्क-भाङ्न (भट्टिकाव्यम्): भजो ण्विः इति ण्वि-प्रत्ययः।