32006: प्रे दाज्ञः¶
Padacheda: प्रे | S | 7 | 1 |
दाज्ञः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क comes after the root दा ‘to give’ and ज्ञ ‘to know’, when taking the preposition प्र in composition with a word in the Accusative -2nd case.
Vasu English Translation¶
The affix क comes after the root दा ‘to give’ and ज्ञ ‘to know’, when taking the preposition प्र in composition with a word in the Accusative -2nd case. We applied by sutra 3 the affix क after verbs that ended in long आ and had no upasarga. Now begins the case of verbs with upasarga. This debars the affix अण्; as सर्वप्रदः (6.4.64) ‘giver of all; liberal’, पथिप्रज्ञः (6.4.64) ‘acquainted with roads’. The long आ of दा and ज्ञा is elided by (6.4.64).
Why do we say ‘when taking प्र’? With any other upasarga these verbs will take the general affix अण्; as गोसन्दाय.
Kashika¶
सोपसर्गार्थ आरम्भः। ददातेर्जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्र इति किम्? गोसंदायः॥
Siddhanta Kaumudi¶
दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥
Balamanorama¶
प्रे दाज्ञः - प्रे दाज्ञः । ‘प्रे’ इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा — अनयोद्र्वन्द्वात्पञ्चम्येकवचम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः । सोपसर्गार्थ आरम्भः ।
Tattvabodhini¶
प्रे दाज्ञः - प्रे दा । गामादाग्रहणेष्वविशेषादाह — दारूपादित । पथिप्रज्ञ इति । पन्थानं प्रकर्षेण जानातीत्यर्थः । प्रादन्यस्मिन्निति । प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सतिआतोऽनुपसर्गे॑ इत्यनेनापि न भवतीति भावः ।
Padamanjari¶
प्रे दाज्ञः॥ ददातेरिति। उपलक्षणमेतत्।’गामादाग्रहणेष्वविशेषः’ इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति;’खनो घ च’ ‘हनश्च वधः’ इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। ठनुपसर्गेऽ इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति॥
Nyaas¶
सोपसर्गार्थं आरम्भः इति। अनुपसर्गात् आतोऽनुपसर्गे कः (3.2.3) इत्येवं सिद्धत्वात्। ददातेः इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; गामादाग्रहणेष्वविशेषः (व्या।प।124) इति वचनात्। प्रेणोपसृष्टात् इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे प्रे इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। पथिप्रज्ञः इति। पन्थानं प्रजानातीत्यर्थः॥
Prakriyasarvasvam¶
प्रपूर्वाभ्यां दाज्ञाभ्यां कर्मण्युपपदे कः स्यात् । धनप्रदः । धर्मप्रज्ञः ।
Sutra Prayogas¶
शुभफलप्रदशुक्तियुक्ताः (शिशुपालवधम्): प्रे दाज्ञः इति कः प्रत्ययः।
पथि-प्रज्ञः (भट्टिकाव्यम्): प्रे दाज्ञः इति कः ।
भङ्गुर-प्रज्ञो (भट्टिकाव्यम्): प्रे दाज्ञः इति कः।