32006: प्रे दाज्ञः ================== **Padacheda:** प्रे | S | 7 | 1 | दाज्ञः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क comes after the root दा 'to give' and ज्ञ 'to know', when taking the preposition प्र in composition with a word in the Accusative -2nd case. Vasu English Translation ------------------------ The affix क comes after the root दा 'to give' and ज्ञ 'to know', when taking the preposition प्र in composition with a word in the Accusative -2nd case. We applied by *sutra* 3 the affix क after verbs that ended in long आ and had no *upasarga*. Now begins the case of verbs with *upasarga*. This debars the affix अण्; as सर्वप्रदः (6.4.64) 'giver of all; liberal', पथिप्रज्ञः (6.4.64) 'acquainted with roads'. The long आ of दा and ज्ञा is elided by (6.4.64). Why do we say 'when taking प्र'? With any other *upasarga* these verbs will take the general affix अण्; as गोसन्दाय. Kashika ------- सोपसर्गार्थ आरम्भः। ददातेर्जानातेश्च धातोः प्रेणोपसृष्टात् कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। सर्वप्रदः। पथिप्रज्ञः। प्र इति किम्? गोसंदायः॥ Siddhanta Kaumudi ----------------- दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥ Balamanorama ------------ **प्रे दाज्ञः** - प्रे दाज्ञः । 'प्रे' इति सप्तमी पञ्चम्यर्थे । दा, ज्ञा — अनयोद्र्वन्द्वात्पञ्चम्येकवचम् । प्रोपसृष्टादिति । प्रेत्युपसर्गपूर्वकादित्यर्थः । सोपसर्गार्थ आरम्भः । Tattvabodhini ------------- **प्रे दाज्ञः** - प्रे दा । गामादाग्रहणेष्वविशेषादाह — दारूपादित । पथिप्रज्ञ इति । पन्थानं प्रकर्षेण जानातीत्यर्थः । प्रादन्यस्मिन्निति । प्रशब्दमात्रोपपदे अस्य सूत्रस्य चरितार्थत्वादुपसर्गान्तरे सतिआतोऽनुपसर्गे॑ इत्यनेनापि न भवतीति भावः । Padamanjari ----------- प्रे दाज्ञः॥ ददातेरिति। उपलक्षणमेतत्।'गामादाग्रहणेष्वविशेषः' इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति;'खनो घ च' 'हनश्च वधः' इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। ठनुपसर्गेऽ इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति॥ Nyaas ----- `सोपसर्गार्थं आरम्भः` इति। अनुपसर्गात् **आतोऽनुपसर्गे कः** (3.2.3) इत्येवं सिद्धत्वात्। `ददातेः` इति। दारूपाणां धातूनामुपलक्षणमेतत्। अन्येषामपि दारूपाणां ग्रहणमिष्यमे; `गामादाग्रहणेष्वविशेषः` (व्या।प।124) इति वचनात्। `प्रेणोपसृष्टात्` इति। प्रेणोपसर्गेण सम्बद्धादित्यर्थः। सूत्रे `प्रे` इति सुब्व्यत्ययेन तृतीयार्थे सप्तमी वेदितव्या। `पथिप्रज्ञः` इति। पन्थानं प्रजानातीत्यर्थः॥ Prakriyasarvasvam ----------------- प्रपूर्वाभ्यां दाज्ञाभ्यां कर्मण्युपपदे कः स्यात् । धनप्रदः । धर्मप्रज्ञः । Sutra Prayogas -------------- * **शुभफलप्रदशुक्तियुक्ताः** (शिशुपालवधम्): `प्रे दाज्ञः` इति कः प्रत्ययः। * **पथि-प्रज्ञः** (भट्टिकाव्यम्): `प्रे दाज्ञः` इति कः । * **भङ्गुर-प्रज्ञो** (भट्टिकाव्यम्): `प्रे दाज्ञः` इति कः।