32005: तुन्दशोकयोः परिमृजापनुदोः¶
Padacheda: तुन्द-शोकयोः | S | 7 | 2 |
परिमृज-अपनुदोः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
The affix क comes after the verbs परिमृज् ‘to wash out’ and अपनुद् ‘to drive away’ when in composition with the words तुन्द ‘navel’ and शोक ‘grief’, as objects respectively.
Vasu English Translation¶
The affix क comes after the verbs परिमृज् ‘to wash out’ and अपनुद् ‘to drive away’ when in composition with the words तुन्द ‘navel’ and शोक ‘grief’, as objects respectively. As तुन्द परिमृज आस्ते ‘he lay lazy’. So also शोकापनुदः पुत्रो जातः ‘a son, destroyer of sorrow is born’.
Vart:- This affix is to be applied only then, when the meaning of the word to be formed is ‘lazy’ and ‘giver of happiness’.
Vart:- The epithet तुन्द परिमृजः is applied to a lazy person; while तुन्द परिमार्जः means who clears his navel. So शोकापनुदः means giver of happiness, while शोकापनोदः means ‘removal of sorrow’.
Vart:- The words मूलविभुजः ‘a chariot’ and the rest should be included in the subdivision of words formed by the affix क. The words belonging to this head can only be recognised by their form, there being no list of them to be found anywhere. Thus मूलविभुजः ‘a chariot’, नखमुचः ‘a bow’, काकगुह ‘sesamums’, कुमुदम् (कौ मोदते) ‘a lotus’.
Bhashya¶
तुन्दशोकयोः परिमृजापनुदोः (772) (472 कप्रत्ययविधिसूत्रम्। 3 । 2 । 1 आ.4) (2011 अर्थपरिसंख्यावार्तिकम्॥ 1 ॥) - तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयोः- (भाष्यम्) तुन्दशोकयोः परिमृजापनुदोरित्यत्र आलस्यसुखाहरणयोः इति वक्तव्यम्। तुन्दपरिमृजोऽलसः। शोकापनुदः पुत्रो जातः। यो हि तुन्दं परिमार्ष्टि तुन्दपरिमार्जः स भवति। यश्च शोकमपनुदति शोकापनोदः स भवति॥ (2012 कप्रत्ययविधिवार्तिकम्॥ 2 ॥) - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्- (भाष्यम्) कप्रकरणे मूलविभुजादिभ्य उपसंख्यानं कर्तव्यम्। मूलविभुजो रथः। नखमुचानि धनूंषि। काकगुहास्तिलाः। सरसीरुहं कुमुदम्॥ तुन्दशोकयोः॥ 5 ॥
Kashika¶
तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोर्धात्वोः कप्रत्ययो भवति। तुन्दपरिमृज आस्ते। शोकापनुदः पुत्रो जातः॥ आलस्यसुखाहरणयोरिति वक्तव्यम्॥ अलसस्तुन्दपरिमृज उच्यते। तुन्दपरिमार्ज एवान्यः। सुखस्याहर्ता शोकापनुदः। शोकापनोद एवान्यः॥ कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्॥ मूलानि विभुजतीति मूलविभुजो रथः। नखमुचानि धनूंषि। काकगुहास्तिलाः। कौ मोदते कुमुदम्॥
Siddhanta Kaumudi¶
तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ।<!आलस्यसुखाहरणयोरिति वक्तव्यम् !> (वार्तिकम्) ॥ तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादन्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः ।<!कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् !> (वार्तिकम्) ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः ॥
Balamanorama¶
तुन्दशोकयोः परिमृजापनुदोः - तुन्दशोकयोः । तुन्दशोकयोरिति सप्तमी । परिमृज, अपनुद, अनयोद्र्वन्द्वात्पञ्चम्यर्थे षष्ठी । तदाह — उपपदयोराभ्यामिति । तुन्दपरिमृज इति । तुन्दम् = उदरम् । अत्र ‘मृजेरजादौ’ इति पाक्षिकवृद्धिर्न भवति, व्यवस्थितविभाषाश्रयणादित्याहुः । मूलानि विभुजतीति । विमर्दयतीत्यर्थः । ‘भुजो कौटिल्ये’ तुदादिः । इहोपसर्गबलादन्मर्दने वृत्तिः । महीध्र इति । महीं धरतीति विग्रहः । कित्त्वान्न गुणः । ऋकारस्य यण् रेफः । अणि तु ‘महीधार’ इति स्यात् । कुध्र इति । कुः = पृथ्वी, तां धरतीति विग्रहः । गिल इति । ‘गृ निगरणे’ अस्मात्कः, कित्त्वान्न गुणः, इत्त्वं, रपरत्वम् ।अचि विभाषे॑ति लत्वम् ।
Tattvabodhini¶
तुन्दशोकयोः परिमृजापनुदोः - तुन्दपरिमृज इति । अत्रमृजेरजादा॑विति वैकल्पिकी वृद्धिव्र्यवस्थितविभाषा नेत्येके । स्यादेवेत्यन्ये । * कप्रकरणे मूलविभुजादिभ्यः उपसङ्ख्यानम् । मूलविभुजादिभ्यु इति । तादर्थ्ये एषा चतुर्थी । मूलविभुजादिसिद्ध्यर्थमित्यर्थः ।
Padamanjari¶
तुन्दशोकयोः परिमृजापनुदोः॥ तुन्दपरिमृज इति। मृजेरजादौ संक्रम इत्यत्र’यस्मिन्विधिस्तदादौ’ इत्येव सिद्धे आदिग्रहणं मुख्याजादिपरिग्रहार्थम्, तेन व्यपदेशिवद्भावेनाजादावत्र के वॄअद्धिर्न भवति। आलस्य इत्यादि। आलस्ये गम्यमाने सुखोत्पादने च प्रत्यय इत्यर्थः। तत्र सामर्थ्यादलसे कर्तरि सुखस्य चाहर्तरि प्रत्ययो भवतीत्युक्तं भवति। शोकापनोद एवान्य इति। यस्संसारानित्यताद्यौपदेशेन शोकमेव केवलमपनुदति, न तु सुखमुत्पादयति स शोकापनोदः। मूलविभुजादिभ्य इति। तादर्थ्य एषा चतुर्थी, मूलविभुजादिसिद्ध्यर्थमिर्त्थः। आकृतिगणश्चायम्, तेन महीध्र - कुध्र - शिरोरुहादि सिद्धं भवति। काकगुहा इति। काकेभ्यो गूहितव्या इति कर्मणि कप्रत्यय इष्यते, अतो घञर्थे कविधानमित्यत्रेदं द्रष्टव्यम्॥
Nyaas¶
परिमृजापनुदोः इति। सुब्व्यत्येन पञ्चम्यर्थे षष्ठी। मृजू शुद्धौ (धातुपाठः-1066) पूरिपूर्वः। नुद प्रेरणे (धातुपाठः-1426) अपपूर्वः। आलस्य इत्यादि। प्रत्ययार्थोपाधिरयम्। अलस एवालस्यम्। चातुर्वण्र्यादित्वात् स्वार्थे ष्यञ्। आहरतीत्याहरणः। कृत्यल्युटो बहुलम् (3.3.113) इति कर्तरि ल्युट्। सुखस्याहरणः सुखाहरणः। आलस्यकर्तरि सुखस्याहरणेऽनेन को भवति, नान्यत्रेत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - अत्रापि पूर्ववद्वविभाषागर्हणमनुवर्तते, सा च व्यवस्थितविभाषा। तेनालस्यसुखाहरणयोरेव कर्त्तोः को भवति, नान्यत्रेति। तुन्दपरिमार्ज एवान्यः इति। अनालस्ये त्वण् भवति। मृजेर्वृद्धिः (7.2.114) । शोकापनोदः इति। यः प्रतिपक्षोपदेशेन शोकं केवलमपनुदति, न तु सुखमुत्पादयति। अत्राणेव तु भवति।कप्रकरणे इत्यादि। मूलविभुजादिब्यस्तदर्थे चतुर्थी। आदिशब्दः प्रकारवचनः। मूलविभुजाद्यर्थ मूलविभुजादयः साधवो यथा स्युरित्येवमर्थ कप्रत्ययस्योपादानं प्रतिपादनं कर्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम् - ह्वावामश्च (3.2.2) इत्यतः आतोऽनुपसर्गे कः (3.2.3) इत्यत्र चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन मूलविभुजादिभ्यः कप्रत्ययो भविष्यतीति। मूलं विभुजति। {भुजो-धातुपाठः-} भुज कौटिल्ये (धातुपाठः-1417)। नखानि मुञ्चन्तीति नखमुचानि। मुच्लृ मोक्षणे (धातुपाठः-1430)। ` काकगृहास्तिलाः` इति। गुहू संवरणे (धातुपाठः-896)। काकेभ्यो गूहितव्याः।तव्यदाद्यपवादः। कर्मणि कः। कौ मोदते कुमुदम् इति। तृजाद्यपवादः॥
Prakriyasarvasvam¶
अनयोः पूर्वयोः क्रमात् परिमृजापनुदोः कः स्यात् । ‘अलससुखाहर्त्रोरिति वाच्यम् (वा० ३-२-५) । अलसस्तुन्दपरिमृजः । सुखकृत् शोकापनुदः । दुःखहृदेव चेत् शोकापनोदः ।<!मूलविभुजादौ कौ वाच्यः!> (वा० ३-२-५) । मूलविभुजोर्वीरुहकुमुदमहीध्रोषर्बुधादयः । मूलानि विभुजति कुटिलयतीति मूलविभुजो रथः । [उर्व्यां रोहतीत्युर्वीरुहः ।] कौ मोदत इति कुमुदम् । महीध्र इति गुणाभावाद् यण् । आब्युक्तेरपो भरतीत्यभ्रम् । जलरुहम् । शिरोरुहः । नखमुचकाकगुहौ हेतुकर्मणोः । स्थौल्येन मुष्टेर्बहिर्भूतत्वाद् नखविश्लेषकं नखमुचं धनुः । काकेभ्यो गूहन्त्येतानीति काकगुहास्तण्डुलाः । इति ।
Vartika¶
आलस्यसुखाहरणयोरिति वक्तव्यम् ।
Sutra Prayogas¶
महीध्रपक्षव्यपरोपणोचितं (रघुवंशम्): मूलविभुजादिभ्यः कः (वार्तिकम्) इति कप्रत्ययः।
शोकापनुदेव (रघुवंशम्): तुन्दशोकयोः परिमृजापनुदोः इति कप्रत्ययः।
सदामदबलप्रायः (शिशुपालवधम्): मूलविभुजादिभ्यः कः इति क-प्रत्ययः।