32007: समि ख्यः

Padacheda: समि | S | 7 | 1 |

ख्यः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix क comes after root ख्या ‘to tell’, when preceded by the preposition सम् and when the object is in compsition with it.

Vasu English Translation

The affix क comes after root ख्या ‘to tell’, when preceded by the preposition सम् and when the object is in compsition with it. The verb ख्या ends in long आ and by (3.2.3) when compounded with an upasarga, it would have taken the affix अण्. This debars अण्; as गोसङ्ख्या (6.4.64) ‘a cowherd’ (गा सञ्चष्टे).

Kashika

सोपसर्गार्थ आरम्भः। संपूर्वात् ख्या इत्येतस्माद् धातोः कर्मण्युपपदे कप्रत्ययो भवति। अणोऽपवादः। गां संचष्टे गोसंख्यः॥

Siddhanta Kaumudi

गोसंख्यः ॥

Balamanorama

समि ख्यः - समि ख्यः ।समी॑ति पञ्चम्यर्थे सप्तमी । गोसङ्ख्य इति । गाः संचष्ट इति विग्रहः । संपूर्वाच्चक्षिङः ख्याञि रूपम् । ‘ख्या प्रकथने’ इत्यस्य तु संपूर्वस्य प्रयोगाऽभावात्, सार्वधातुकमात्रविषयत्वाच्च नेह सम्बध्यते ।

Tattvabodhini

समि ख्यः - गोसङ्ख्य इति । गाः संचष्टे इति विग्रहः ।चक्षिङः ख्याञ् । ख्या प्रकथन इत्यस्य तु संपूर्वस्य प्रोयगो नास्तीति न्यासकारः । सार्वधातुकमात्रविषयोऽसौ धातुरिति च मनोरमादौ स्थितम् ।

Nyaas

गां सञ्चष्टे इति। वाक्यविशेषेण चक्षिङः ख्याञ् (2.4.54) इति ख्याञादेशस्य ग्रहणम्, न ख्या प्रकथने (धातुपाठः-1060) इत्येतस्येति दर्शयति। एतच्च संपूर्वस्य ख्यातेः प्रयोगासम्भवाल्लभ्यते॥

Prakriyasarvasvam

कर्मपूर्वात् संख्यातेः कः । गोसंख्यः । ‘आङो दश्चे’ति भोजः । चकारात् ख्याञश्चः । दायादः । प्रियमख्यातीति प्रियाख्यः ।

Sutra Prayogas

  • चित्त-संख्यो (भट्टिकाव्यम्): समि ख्यः इति कः ।