31143: विभाषा ग्रहः¶
Padacheda: विभाषा | S | 1 | 1 |
ग्रहः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ण is optionally used after the verb ग्रह ‘to seize’.
Vasu English Translation¶
The affix ण is optionally used after the verb ग्रह ‘to seize’. This debars the affix अच्. Thus ग्रह् + ण = ग्रह् + अ (7.2.116) = ग्राहः ‘seizing’, ‘a crocodile’; or ग्रह + अच् =ग्रहः ‘a planet’.
The option allowed by this aphorism is a vyavasthita-vibhasha or definite option, that is to say, the affix ण is always used when the word to be formed means a water-animal, such as a crocodile, shark &c., and in that sense the word is ग्राह. But not so, when heavenly luminaries are meant; there the word is ग्रह.
Vart:- This rule should be extended to the root भू ‘to be’ also. Thus:- भावः ‘condition’ and भवः ‘existence’.
Kashika¶
विभाषा ग्रहेर्धातोर्णप्रत्ययो भवति। अचोऽपवादः। ग्राहः,ग्रहः। व्यवस्थितविभाषा चेयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेष्यते, तत्र ग्रह एव॥ भवतेश्चेति वक्तव्यम्॥ भवतीति भावः, भवः॥
Siddhanta Kaumudi¶
णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥
Balamanorama¶
विभाषा ग्रहेः - विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदंशाच्छो॑रिति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ ‘ग्राह’ इत्येव भवति, ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये ‘ग्रह’ इत्येव भवतीत्यर्थः । भवतेश्चेति ।णो वे॑ति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृस्यते इति बावः । इयमपि व्यवस्थिविभाषैव । तदाह — भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननुभवतेश्चे॑ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह — भाष्यमते त्विति । भावयति प्रापयति स्वस्वकार्यमित्यर्थे ‘भृ प्राप्तौ’ इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः ।
Tattvabodhini¶
विभाषा ग्रहेः - काशिकेति । भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दोऽसाधुरित्यतत आह - भाष्यमते त्विति ।
Padamanjari¶
विभाषा ग्रहः॥ व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति - जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवःउदेवः, संसारश्च। भावाःउपदार्थाः॥
Nyaas¶
व्यवस्थितविभाषा चेयम् इति। एतत् जलचरे इत्यादिना स्पष्टीकरोति। भवतेश्चेति वक्तव्यम् इति। भवतेश्च विभाषा णो भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु विभाषेति योगविभागात् कर्तव्यम्॥
Prakriyasarvasvam¶
ग्रहेर्णो वा । अस्य व्यवस्थितविकल्पत्वान्न्नके ग्राहः । ज्योतिषि ग्रहः ।<!भुवश्च वाच्यम्!> (वा० ३-१-१४३) । भावो वस्तु । भव ईश्वरः संसारश्च ।
Sutra Prayogas¶
स्वयंग्राहनिषक्तबाहुम् (कुमारसम्भवम्): विभाषा ग्रहः इति णप्रत्ययः ।
ग्राह (किरातार्जुनीयम्): विभाषा ग्रहेः (वार्त्तिक: जलचरे) इति णाप्रत्ययः।
ग्राहेणेवा (भट्टिकाव्यम्): विभाषा ग्रहः इति णप्रत्ययः।