31143: विभाषा ग्रहः =================== **Padacheda:** विभाषा | S | 1 | 1 | ग्रहः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ण is optionally used after the verb ग्रह 'to seize'. Vasu English Translation ------------------------ The affix ण is optionally used after the verb ग्रह 'to seize'. This debars the affix अच्. Thus ग्रह् + ण = ग्रह् + अ (7.2.116) = ग्राहः 'seizing', 'a crocodile'; or ग्रह + अच् =ग्रहः 'a planet'. The option allowed by this aphorism is a *vyavasthita*-*vibhasha* or definite option, that is to say, the affix ण is always used when the word to be formed means a water-animal, such as a crocodile, shark &c., and in that sense the word is ग्राह. But not so, when heavenly luminaries are meant; there the word is ग्रह. Vart:- This rule should be extended to the root भू 'to be' also. Thus:- भावः 'condition' and भवः 'existence'. Kashika ------- विभाषा ग्रहेर्धातोर्णप्रत्ययो भवति। अचोऽपवादः। ग्राहः,ग्रहः। व्यवस्थितविभाषा चेयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेष्यते, तत्र ग्रह एव॥ भवतेश्चेति वक्तव्यम्॥ भवतीति भावः, भवः॥ Siddhanta Kaumudi ----------------- णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥ Balamanorama ------------ **विभाषा ग्रहेः** - विभाषा ग्रहः । व्यवस्थितविभाषेयमिति । इदंशाच्छो॑रिति सूत्रे भाष्ये स्पष्टम् । तेनेति । जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ 'ग्राह' इत्येव भवति, ज्योतिषि सूर्यचन्द्रादौ वाच्ये अच्प्रत्यये 'ग्रह' इत्येव भवतीत्यर्थः । भवतेश्चेति ।णो वे॑ति शेषः । पक्षे अच् । काशिकेति । भाष्ये तु न दृस्यते इति बावः । इयमपि व्यवस्थिविभाषैव । तदाह — भवो देव इति । महादेव इत्यर्थः । अत्र अजेवेति भावः । भावाः पदार्था इति । अत्र ण एवेति भावः । ननुभवतेश्चे॑ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह — भाष्यमते त्विति । भावयति प्रापयति स्वस्वकार्यमित्यर्थे 'भृ प्राप्तौ' इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः । Tattvabodhini ------------- **विभाषा ग्रहेः** - काशिकेति । भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दोऽसाधुरित्यतत आह - भाष्यमते त्विति । Padamanjari ----------- विभाषा ग्रहः॥ व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति - जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवःउदेवः, संसारश्च। भावाःउपदार्थाः॥ Nyaas ----- `व्यवस्थितविभाषा चेयम्` इति। एतत् `जलचरे` इत्यादिना स्पष्टीकरोति। `भवतेश्चेति वक्तव्यम्` इति। भवतेश्च विभाषा णो भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु विभाषेति योगविभागात् कर्तव्यम्॥ Prakriyasarvasvam ----------------- ग्रहेर्णो वा । अस्य व्यवस्थितविकल्पत्वान्न्नके ग्राहः । ज्योतिषि ग्रहः । (वा० ३-१-१४३) । भावो वस्तु । भव ईश्वरः संसारश्च । Sutra Prayogas -------------- * **स्वयंग्राहनिषक्तबाहुम्** (कुमारसम्भवम्): `विभाषा ग्रहः` इति णप्रत्ययः । * **ग्राह** (किरातार्जुनीयम्): `विभाषा ग्रहेः` (वार्त्तिक: जलचरे) इति णाप्रत्ययः। * **ग्राहेणेवा** (भट्टिकाव्यम्): `विभाषा ग्रहः` इति णप्रत्ययः।