31142: दुन्योरनुपसर्गे

Padacheda: दुन्योः | S | 6 | 2 |

अनुपसर्गे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix ण is used after the verbs दु ‘to burn’ and नी ‘to lead’, when used without a preposition.

Vasu English Translation

The affix ण is used after the verbs दु ‘to burn’ and नी ‘to lead’, when used without a preposition. Thus दु + ण = दौ + अ (7.2.115) = दावः (6.1.78) ‘burning’. So also नी + ण = नी + अ = नायः ‘leading’.

Why do we say ‘when used without a preposition’? Observe प्रदयः ‘burning’; प्रणयः ‘friendship’.

Kashika

दुनोतेर्नयतेश्चानुपसर्गे णप्रत्ययो भवति। दुनोतीति दावः। नयतीति नायः। अनुपसर्ग इति किम्? प्रदवः। प्रणयः॥

Siddhanta Kaumudi

णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥

Balamanorama

दुन्योरनुपसर्गे - दुन्योरनुपसर्गे । दुनोतेर्नयतेश्चेत्यर्थः ।दव॑शब्दं साधयितुमाह — नी साहचर्यादिति । नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् ‘टु दु उपतापे’ इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । ‘दु द्रु गतौ’ इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः ।

Tattvabodhini

दुन्योरनुपसर्गे - दुनोतेरिति । टुदु उपतापे इत्यस्मात् । दवतेरिति । दु गतावित्यस्मात् । दव इति ।दवदावौ वनारण्यवह्नी॑ इत्यमरः ।

Padamanjari

दुन्योरनुपसर्गे॥ दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा ठृदोरप्ऽ इत्यबन्तः॥

Nyaas

दुन्योः इति सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी। अनुपसर्गे इत्यपि पञ्चम्यर्थे सप्तमी। अत एवाह - दुनोतेर्नयतेश्चानुपसर्गात् इति। दावः इति। टु दु उपतापे (धातुपाठः-1256)। नायः इति। णीञ् प्रापणे (धातुपाठः-901)।प्रदवः, प्रणयः`इति। पचाद्यच्, `उपसर्गादसमासेऽपि (8.4.14) इति णत्वम्॥

Prakriyasarvasvam

अनुपसर्गयोर्दुनातिणीञोर्णः स्यात् । दावः । नायः । वेति कौमुदी । दवः । नयः । सोपसर्गात्तु प्रदवः । प्रणय इत्यजेव ।