31144: गेहे कः¶
Padacheda: गेहे | S | 7 | 1 |
कः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क is used after the verb ग्रह ‘to seize’ when the agent so expressed denotes a house.
Vasu English Translation¶
The affix क is used after the verb ग्रह ‘to seize’ when the agent so expressed denotes a house. Thus ग्रह + क (6.1.16) = गृहम् ‘a house’. The र is changed into ॠ by the rule of samprasarana. The plural form गृहाः means ‘wife’, as she is especially the person that constitutes the house; while the plural of गृहं meaning ‘house’ will be गृहाणि.
Kashika¶
ग्रहेर्धातोः कप्रत्ययो भवति गेहे कर्तरि। गृहं वेश्म। तात्स्थ्याद् दाराश्च। गृह्णन्तीति गृहा दाराः। गृहाणि वेश्मानि॥
Siddhanta Kaumudi¶
गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥
Laghu Siddhanta Kaumudi¶
गेहे कर्तरि ग्रहेः कः स्यात्। गृहम्॥
Balamanorama¶
गेहे कः - गेहे कः । ‘विभाषा ग्रहः’ इत्यस्यापवादः । गृहमिति ।ग्रहिज्ये॑ति संप्रसारणं, पूर्वरूपं च॥ ननु ‘गृहा दारा’ इति कथम्, गेहे कर्तर्येव वाच्ये कप्रत्ययविधानादित्यत आह — तात्स्थ्यादिति । गृहशब्दो गेहस्थे लाक्षणिक इति भावः । गृहा दारा इति । ‘दारेष्वपि गृहाः’ इत्यमरः ।
Tattvabodhini¶
गेहे कः - गेहे कः । गेह इति प्त्ययार्थस्य कर्तुर्विशेषणं, नोपपदम्,गृहपतिना संयुक्ते ञ्यः॑ इति निर्देशादित्यभिप्रेत्याह - गेहे कर्तरीति । एतत्सूत्रं तु शक्यम कर्तुम् । गृहू ग्रहणे इति भ्वादेरिगुपधलक्षमे कप्रत्यये कृते गृहशब्दस्य सिद्धेः । तात्स्थ्यादिति । भवति हि तात्स्थ्यात्ताच्छब्द्यम् ।मञ्चाः क्रोशन्ती॑ त्यादौ मञ्चशब्देन पुरुषा अपि व्यपदिश्यन्ते । एवं च गृहशब्दो वेश्मनि मुख्यो, दारेषु त्वौपचारिक इत्यर्थः । अत्रेदमवधेयम् — गृहशब्दोऽयमद्र्धर्चादित्वादुभयलिङ्गः । तत्र नपुंसकलिङ्गोऽभिधेयवचनः पुंलिङ्गस्तु बहुवचनान्त एव ।गृहाः पुंसि च भूस्त्र्येवे॑त्यमरोक्तेरिति ।
Padamanjari¶
गेहे कः॥ गेह इति। प्रत्ययाथंस्य कर्तुर्विशेषणम्, नोपपदम्;’गृहपतिना संयुक्तः’ इति निर्देशादित्याह - गेहे कर्तरीति। तास्त्थ्याद्दाराश्चेति। गेहमित्यपेक्ष्यते, तेन गौणस्यापि गेहस्य ग्रहणमिति दर्शयति। तच्च तन्त्रावृत्योरन्यत राश्रयणेन लभ्यते, तत्र वेश्मनि पुंल्लिङ्गबहुवचनान्त एव - गृहान्ह दाहको भवति, गृहानुतरया संकाशयते, गृहान्गच्छ, गृहानहं सुमनसः प्रपद्य इति। नपुंसकलिङ्गोऽभिधेयवचनः, एवं दारेष्वपि। अन्ये तु - गृहशब्दो वेश्मन्येव मुख्यः, दारेषु गौण इति वदन्ति, तथा’न गृहं गृहमित्याहुर्गृ हिणी गृहमुच्यते’ इति वेश्मन्येव मुख्यतां दर्शयन्ति। यथा वृत्तिकारेणोक्तं तथा दारेष्वपि मुख्य एवेति लक्ष्यते॥
Nyaas¶
गेहे कर्तरि इति। एतेन गेहे इति प्रत्ययार्थस्य कर्त्तुरुपाधिरयम्, न तूपपदमिति दर्शयति। एतच्चाआपत्यादौ गृहपतिशब्दपाठाद्विज्ञायते। तात्स्थ्याद्दाराश्च इति। गेहमिति प्रकृतेन सम्बन्धः। एतेन गौणेऽपि गेहे प्रत्ययो भवतीत्याचष्टे। एतच्च तन्त्रेण गेहशब्दस्य द्वितीयस्योच्चारणाल्लभ्यते। `गृहम्िति। ग्रह्रादिना (6.1.16) सम्प्रसारणम्॥
Prakriyasarvasvam¶
ग्रहेर्गेहेऽर्थे कः । कित्त्वात् सम्प्रसारणम् । गृहम् । गृहाः । ताल्स्थ्याद् गृहाः दाराः ।
Sutra Prayogas¶
गृहाणि (भट्टिकाव्यम्): गेहे कः इति गृहशब्दो वेश्मनि नपुंसकलिङ्गः ।
गृहान् (भट्टिकाव्यम्): गेहे कः इति ग्रहेः कः।