31142: दुन्योरनुपसर्गे ====================== **Padacheda:** दुन्योः | S | 6 | 2 | अनुपसर्गे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ण is used after the verbs दु 'to burn' and नी 'to lead', when used without a preposition. Vasu English Translation ------------------------ The affix ण is used after the verbs दु 'to burn' and नी 'to lead', when used without a preposition. Thus दु + ण = दौ + अ (7.2.115) = दावः (6.1.78) 'burning'. So also नी + ण = नी + अ = नायः 'leading'. Why do we say 'when used without a preposition'? Observe प्रदयः 'burning'; प्रणयः 'friendship'. Kashika ------- दुनोतेर्नयतेश्चानुपसर्गे णप्रत्ययो भवति। दुनोतीति दावः। नयतीति नायः। अनुपसर्ग इति किम्? प्रदवः। प्रणयः॥ Siddhanta Kaumudi ----------------- णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥ Balamanorama ------------ **दुन्योरनुपसर्गे** - दुन्योरनुपसर्गे । दुनोतेर्नयतेश्चेत्यर्थः ।दव॑शब्दं साधयितुमाह — नी साहचर्यादिति । नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् 'टु दु उपतापे' इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः । दवतेस्त्विति । 'दु द्रु गतौ' इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः । Tattvabodhini ------------- **दुन्योरनुपसर्गे** - दुनोतेरिति । टुदु उपतापे इत्यस्मात् । दवतेरिति । दु गतावित्यस्मात् । दव इति ।दवदावौ वनारण्यवह्नी॑ इत्यमरः । Padamanjari ----------- दुन्योरनुपसर्गे॥ दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा ठृदोरप्ऽ इत्यबन्तः॥ Nyaas ----- `दुन्योः` इति सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी। `अनुपसर्गे` इत्यपि पञ्चम्यर्थे सप्तमी। अत एवाह - `दुनोतेर्नयतेश्चानुपसर्गात्` इति। `दावः` इति। `टु दु उपतापे` (धातुपाठः-1256)। `नायः` इति। `णीञ् प्रापणे` (धातुपाठः-901)।`प्रदवः, प्रणयः`इति। पचाद्यच्, `उपसर्गादसमासेऽपि` (8.4.14) इति णत्वम्॥ Prakriyasarvasvam ----------------- अनुपसर्गयोर्दुनातिणीञोर्णः स्यात् । दावः । नायः । वेति कौमुदी । दवः । नयः । सोपसर्गात्तु प्रदवः । प्रणय इत्यजेव ।