31141: श्याद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च¶
Padacheda: श्या-आत्-व्यध-आस्रु-संस्रु-अतीण्-अवसा-अवहृ-लिह-श्लिष-श्वसः | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ण is also used after the verbs - श्यै ‘to go’, verbs ending in a long भा , व्यद् ‘to pierce’, आस्रु ‘to pain’, संत्रु ‘to flow’, अतीण् ‘to pass on’, अवसा ‘to complete’, अवह ‘to take away’, लिह ‘to lick’, श्लिष ‘to embrace’ and श्वस ‘to breathe’.
Vasu English Translation¶
The affix ण is also used after the verbs - श्यै ‘to go’, verbs ending in a long भा , व्यद् ‘to pierce’, आस्रु ‘to pain’, संत्रु ‘to flow’, अतीण् ‘to pass on’, अवसा ‘to complete’, अवह ‘to take away’, लिह ‘to lick’, श्लिष ‘to embrace’ and श्वस ‘to breathe’. The root श्यै, before affixes, becomes श्या, (6.1.45) and is thus included in the phrase ‘verbs ending in long आ’. What is then the use of its separate enumeration? The separate enumeration is for the sake of excluding the application of every other rule which might have prohibited ण. Thus (3.1.136) enjoins क when a compound verb ends in अ. But that rule does not apply to the verb श्या.
Thus अवश्यायः ‘frost’, प्रतिश्यायः ‘catarrh’, दायः ‘inheritance’, धायः ‘having’, व्याधः ‘pain’, आस्रावः ‘wound’, संस्रावः ‘flow’, अत्यायः ‘transgression’, अवसायः ‘conclusion’, अवहारः ‘taken away’, लेहः ‘licking’, श्लेषः ‘embracing’, श्वासः ‘breath’. See (7.3.33).
Kashika¶
अनुपसर्गादिति, विभाषेति च निवृत्तम्। श्यैङ आकारान्तेभ्यश्च धातुभ्यः, व्यध, आस्रु, संस्रु, अतीण्, अवसा, अवहृ, लिह, श्लिष, श्वस् इत्येतेभ्यश्च णप्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यये सिद्धे पुनर्वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वायमेव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः॥
Siddhanta Kaumudi¶
श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥
Balamanorama¶
श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च - श्याद्व्यधारुआउ । श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते । तदाह — नित्यमिति । श्यैङ इति । श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः । तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् ‘आतश्चोपसर्गे’ इति कप्रत्ययबाधनार्थमित्यर्थः । अवश्यायः प्रतिश्याय इति । श्यैङ आत्त्वे कृते णः । आतो युक् । आदिति । आदन्तस्योदाहरणसूचनम् । दायः धाय इति । णे आतो युक् । व्याध इति । अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ । अवसाय इति । अवपूर्वात् ‘षोऽन्तकर्मणि’ इत्यस्माण्णे आतो युक् । लेहः श्लेष इति । णे लघूपधगुणः । आआस इति । णे उपधावृद्धिः ।
Tattvabodhini¶
श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च - श्याद्व्यधा । अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात् । एवं च तत्सम्बद्धं विभाषाग्रहणमपि निवृत्तं ।तदाह — नित्यमिति । इह सूत्रे श्यैङ् गतावित्यस् आत्वे शया आदिति प्रश्लेषो, न तु शीङो यणादेशेन, नाप्यततेः, अच्छब्दान्तानां वा यतिप्रभृतीनां, नाप्यकारान्तानां वा प्रश्लेषेण ग्रहणं, व्याख्यानादिति भावः । कं बाधितुमिति । अन्यथाआतश्चोपसर्गे॑ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः स्यादित्यर्थः । रुआउ गतौ । प्राचा तु सूत्रे आश्रु संश्रु इति तालव्यं पठित्वा शृणोतिरुदाहृतस्तदनाकरम् । तथाच प्रयुञ्जते — अनाश्रवा वः किमहं॑ कदापि वक्तुं विशेषः परमस्ति शेषः॑इति नैषधादौ । अमरोऽप्याह — ॒वचने स्थित आश्रवः॑ इति । यदि तु सूत्रे अस्मिन् शृणोतेग्र्रहणं स्यात्तर्हिऋदोर॑बिति सामान्यविहितमपं बाधित्वा आङ्पूरवकाच्छृणोतेर्विशेषविहितो ण एव स्यात्, [तथा चआश्रव॑ इति रूपं न स्यात्, किंत्वाश्राव इति स्यादिति दिक् । लेहः श्लेष इति ।इगुपधे॑ति कप्रत्यये गुणो न स्ादिति भावः ।
Padamanjari¶
श्याद्व्यधासु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ अनुपसर्गादिति निवृतमिति। उतरसूत्रे पुनरनुपसर्गग्रहणात्। विभाषेति चेति। निवृतमित्यपेक्ष्यते। विभाषा ग्रहणं ह्यनुपसर्गग्रहणेन सम्बद्धम्, अतस्तन्निवृतावस्यापि निवृत्तिः। श्यैङ् इति ।’श्यैङ् गतौ’ इत्यस्मात् शी आत् श्यादिति शीङे यणादेशेन ग्रहणं न भवति; व्याख्यानात्, झटिति प्रतीतावनारोहाच्च। आकारान्तेभ्य इति। एतेन अतेरच्छब्दान्तानां पतिप्रभृतीनामकारान्तानां च ग्रहणं न भवतीति दर्शयति। एतदपि व्याख्यानादेव।’व्यध ताडने’ ‘स्रु गतौ’ आङ्पूर्वः, संपूर्वश्च, ‘इण् गतौ’ अतिपूर्वः,’षो’ न्तकर्मणिऽ’हृञ् हरणे’ अवपूर्वौ,’लिह आस्वादने’ ‘श्लिष आलिङ्गने’ ‘श्वसप्राणने’ । येऽत्र सोपसर्गास्तेभ्यः सोपसर्गेभ्य एव भवति, शेषेभ्यस्त्वविशेषेण। बाधकबाधनार्थमिति। ठातश्चोपसर्गेऽ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः, तद्वाधनार्थमिदम्। एतेनावस्यतेरुपादानं व्याख्यातम्। अवश्याय इति। पूर्ववद्यौक्॥
Nyaas¶
श्येङ गतौ (धातुपाठः-963)। आदित्याकारान्तानां दाधाप्रभृतीनां ग्रहणम्। व्यध ताडने (धातुपाठः-1181), रुआउ गतौ (धातुपाठः-940) आङ्पूर्वः, पुनः स एव संपूर्वः। इण् गतौ (धातुपाठः-1045) अतिपूर्वः,`षोऽन्तकर्मणि` (धातुपाठः-1147) अवपूर्वः। ह्मञ् हरणे (धातुपाठः-899) अवपूर्वः। लिह आस्वादने (धातुपाठः-1016), श्लिष आलिङ्गने (धातुपाठः-1186), आस प्राणने (धातुपाठः-1069)। अत्र ये सोपसर्गाः पठितास्तेभ्यः सोपसर्गेभ्य एव भवति; शेषेभ्यस्तु सोपसर्गेभ्यः, अनुपसर्गेभ्यश्च। अनुपसर्गादिति निवृत्तम् इति। पुनरुत्तरत्रानुपसर्गग्रहणात्। बिभाषेति च इति। निवृत्तमिति सम्बध्यते। विभाषाग्रहणं ह्यनुपसर्गेण सम्बद्धम्। अतस्तन्निवृत्तौ तस्यापि निवृत्तिर्भवति। बाधकबाधनार्थम् इति। आतश्चोपसर्गे (3.3.106) इति विशेषविहितत्वात् कः सामान्यविहितस्य णस्य बाधकः,?तस्तद्बाधनार्थम्। अवश्यतेरप्युपादानस्यैतत् प्रयोजनं वेदितव्यम्। अथ वा - उपसर्गनियमार्मथ तस्य ग्रहणम्, अवपूर्वादेव यथा स्यात्। अवश्यायः इति। आतो युक् (7.3.33) ॥
Prakriyasarvasvam¶
श्याधातोरादन्ताद् व्यधादिभ्यश्च नित्यं णः स्यात् । श्याधातोरादन्तत्वेऽपि ‘आतश्चोपसर्गे’ (३–१–१३६) इति कबाधायोक्तिः । युक् । अवस्रवतीत्यवश्यायः । आदन्तात् मायः, भायः । व्याधः । आस्रावः । संस्रावः । अनयोर्वेति भोजः । आस्रवः । संस्रवः । अत्यायोऽतिक्रमिता । अवसायो नाशकः । अवहारो ग्राहो हर्ता च । लेहः । श्लेषः । श्वासः । ‘तनेर्णो वाच्यः’ (वा० ३–१–१४०) । सन्तनोत्य- भीष्टमिति सन्तानः सुरतरुः ।
Sutra Prayogas¶
अवश्याय (भट्टिकाव्यम्): श्याद्व्यधा इति णः कर्तरि।
अवसायो (भट्टिकाव्यम्): श्याद्व्यधा इति।